अथ षष्ठोऽध्यायः । आत्मसंयमयोगः
श्रीभगवानुवाच ।
अनाश्रितः कर्मफलं,
कार्यं कर्म करोति यः ।
स संन्यासी च योगी च,
न निरग्निर्न चाक्रियः ॥ ६-१॥
यं संन्यासमिति प्राहुर्,
योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसंकल्पो,
योगी भवति कश्चन ॥ ६-२॥
आरुरुक्षोर्मुनेर्योगं,
कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव,
शमः कारणमुच्यते ॥ ६-३॥
यदा हि नेन्द्रियार्थेषु,
न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी,
योगारूढस्तदोच्यते ॥ ६-४॥
उद्धरेदात्मनात्मानं,
नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुर्,
आत्मैव रिपुरात्मनः ॥ ६-५॥
बन्धुरात्मात्मनस्तस्य,
येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे,
वर्तेतात्मैव शत्रुवत् ॥ ६-६॥
जितात्मनः प्रशान्तस्य,
परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु,
तथा मानापमानयोः ॥ ६-७॥
ज्ञानविज्ञानतृप्तात्मा,
कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी,
समलोष्टाश्मकांचनः ॥ ६-८॥
सुहृन्मित्रार्युदासीन,
मध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु,
समबुद्धिर्विशिष्यते ॥ ६-९॥
योगी युंजीत सततम्,
आत्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा,
निराशीरपरिग्रहः ॥ ६-१०॥
शुचौ देशे प्रतिष्ठाप्य,
स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं,
चैलाजिनकुशोत्तरम् ॥ ६-११॥
तत्रैकाग्रं मनः कृत्वा,
यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युंज्याद्,
योगमात्मविशुद्धये ॥ ६-१२॥
समं कायशिरोग्रीवं,
धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं,
दिशश्चानवलोकयन् ॥ ६-१३॥
प्रशान्तात्मा विगतभीर्,
ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो,
युक्त आसीत मत्परः ॥ ६-१४॥
युंजन्नेवं सदात्मानं,
योगी नियतमानसः ।
शान्तिं निर्वाणपरमां,
मत्संस्थामधिगच्छति ॥ ६-१५॥
नात्यश्नतस्तु योगोऽस्ति,
न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य,
जाग्रतो नैव चार्जुन ॥ ६-१६॥
युक्ताहारविहारस्य,
युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य,
योगो भवति दुःखहा ॥ ६-१७॥
यदा विनियतं चित्तम्,
आत्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो,
युक्त इत्युच्यते तदा ॥ ६-१८॥
यथा दीपो निवातस्थो,
नेंगते सोपमा स्मृता ।
योगिनो यतचित्तस्य,
युंजतो योगमात्मनः ॥ ६-१९॥
यत्रोपरमते चित्तं,
निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं,
पश्यन्नात्मनि तुष्यति ॥ ६-२०॥
सुखमात्यन्तिकं यत्तद्,
बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं,
स्थितश्चलति तत्त्वतः ॥ ६-२१॥
यं लब्ध्वा चापरं लाभं,
मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन,
गुरुणापि विचाल्यते ॥ ६-२२॥
तं विद्याद् दुःखसंयोग-,
वियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो,
योगोऽनिर्विण्णचेतसा ॥ ६-२३॥
संकल्पप्रभवान्कामांस्,
त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं,
विनियम्य समन्ततः ॥ ६-२४॥
शनैः शनैरुपरमेद्,
बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा,
न किंचिदपि चिन्तयेत् ॥ ६-२५॥
यतो यतो निश्चरति,
मनश्चंचलमस्थिरम् ।
ततस्ततो नियम्यैतद्,
आत्मन्येव वशं नयेत् ॥ ६-२६॥
प्रशान्तमनसं ह्येनं,
योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं,
ब्रह्मभूतमकल्मषम् ॥ ६-२७॥
युंजन्नेवं सदात्मानं,
योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शम्,
अत्यन्तं सुखमश्नुते ॥ ६-२८॥
सर्वभूतस्थमात्मानं,
सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा,
सर्वत्र समदर्शनः ॥ ६-२९॥
यो मां पश्यति सर्वत्र,
सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि,
स च मे न प्रणश्यति ॥ ६-३०॥
सर्वभूतस्थितं यो मां,
भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि,
स योगी मयि वर्तते ॥ ६-३१॥
आत्मौपम्येन सर्वत्र,
समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं,
स योगी परमो मतः ॥ ६-३२॥
अर्जुन उवाच ।
योऽयं योगस्त्वया प्रोक्तः,
साम्येन मधुसूदन ।
एतस्याहं न पश्यामि,
चंचलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥
चंचलं हि मनः कृष्ण,
प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये,
वायोरिव सुदुष्करम् ॥ ६-३४॥
श्रीभगवानुवाच ।
असंशयं महाबाहो,
मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय,
वैराग्येण च गृह्यते ॥ ६-३५॥
असंयतात्मना योगो,
दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता,
शक्योऽवाप्तुमुपायतः ॥ ६-३६॥
अर्जुन उवाच ।
अयतिः श्रद्धयोपेतो,
योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं,
कां गतिं कृष्ण गच्छति ॥ ६-३७॥
कच्चिन्नोभयविभ्रष्टश्,
छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो,
विमूढो ब्रह्मणः पथि ॥ ६-३८॥
एतन्मे संशयं कृष्ण,
छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य,
छेत्ता न ह्युपपद्यते ॥ ६-३९॥
श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र,
विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्,
दुर्गतिं तात गच्छति ॥ ६-४०॥
प्राप्य पुण्यकृतां लोकान्,
उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे,
योगभ्रष्टोऽभिजायते ॥ ६-४१॥
अथवा योगिनामेव,
कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं,
लोके जन्म यदीदृशम् ॥ ६-४२॥
तत्र तं बुद्धिसंयोगं,
लभते पौर्वदेहिकम् ।
यतते च ततो भूयः,
संसिद्धौ कुरुनन्दन ॥ ६-४३॥
पूर्वाभ्यासेन तेनैव,
ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य,
शब्दब्रह्मातिवर्तते ॥ ६-४४॥
प्रयत्नाद्यतमानस्तु,
योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्,
ततो याति परां गतिम् ॥ ६-४५॥
तपस्विभ्योऽधिको योगी,
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी,
तस्माद्योगी भवार्जुन ॥ ६-४६॥
योगिनामपि सर्वेषां,
मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां,
स मे युक्ततमो मतः ॥ ६-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥