अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः
श्रीभगवानुवाच ।
इमं विवस्वते योगं,
प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह,
मनुर् इक्ष्वाकवे अब्रवीत् ॥ ४-१॥
एवं परम्परा-प्राप्तम्,
इमं राजर्षयो विदुः ।
स कालेनेह महता,
योगो नष्टः परन्तप ॥ ४-२॥
स एवायं मया तेऽद्य,
योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति,
रहस्यं ह्येतद् उत्तमम् ॥ ४-३॥
अर्जुन उवाच ।
अपरं भवतो जन्म,
परं जन्म विवस्वतः ।
कथमेतद् विजानीयां,
त्वमादौ प्रोक्तवान् इति ॥ ४-४॥
श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि,
जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि,
न त्वं वेत्थ परन्तप ॥ ४-५॥
अजोऽपि सन् अव्ययात्मा,
भूतानाम् ईश्वरोऽपि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय,
सम्भवामि आत्म-मायया ॥ ४-६॥
यदा यदा हि धर्मस्य,
ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य,
तदा आत्मानं सृजामि अहम् ॥ ४-७॥
परित्राणाय साधूनां,
विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय,
सम्भवामि युगे युगे ॥ ४-८॥
जन्म कर्म च मे दिव्यम्,
एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म,
नैति मामेति सोऽर्जुन ॥ ४-९॥
वीत-राग-भय-क्रोधा,
मन्मया माम् उपाश्रिताः ।
बहवो ज्ञानतपसा,
पूता मद् भावम् आगताः ॥ ४-१०॥
ये यथा मां प्रपद्यन्ते,
तांस् तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते,
मनुष्याः पार्थ सर्वशः ॥ ४-११॥
कांक्षन्तः कर्मणां सिद्धिं,
यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके,
सिद्धिर् भवति कर्मजा ॥ ४-१२॥
चातुर्वर्ण्यं मया सृष्टं,
गुणकर्मविभागशः ।
तस्य कर्तारम् अपि मां विद्धि,
अकर्तारम् अव्ययम् ॥ ४-१३॥
न मां कर्माणि लिम्पन्ति,
न मे कर्मफले स्पृहा ।
इति मां यो अभिजानाति,
कर्मभिर् न स बध्यते ॥ ४-१४॥
एवं ज्ञात्वा कृतं कर्म,
पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं,
पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥
किं कर्म किम् अकर्म इति,
कवयो अपि अत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि,
यज्ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ४-१६॥
कर्मणो ह्यपि बोद्धव्यं,
बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं,
गहना कर्मणो गतिः ॥ ४-१७॥
कर्मणि अकर्म यः पश्येद्,
अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु,
स युक्तः कृत्स्न-कर्मकृत् ॥ ४-१८॥
यस्य सर्वे समारम्भाः,
कामसंकल्पवर्जिताः ।
ज्ञानाग्नि-दग्ध-कर्माणं,
तमाहुः पण्डितं बुधाः ॥ ४-१९॥
त्यक्त्वा कर्म-फलासंगम्,
नित्यतृप्तो निराश्रयः ।
कर्मणि अभिप्रवृत्तो अपि,
नैव किंचित् करोति सः ॥ ४-२०॥
निराशीर् यत-चित्तात्मा,
त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म,
कुर्वन् नाप्नोति किल्बिषम् ॥ ४-२१॥
यदृच्छा-लाभ-सन्तुष्टो,
द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च,
कृत्वापि न निबध्यते ॥ ४-२२॥
गतसङ्गस्य मुक्तस्य,
ज्ञानावस्थित-चेतसः ।
यज्ञायाचरतः कर्म,
समग्रं प्रविलीयते ॥ ४-२३॥
ब्रह्मार्पणं ब्रह्म हविर्,
ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं,
ब्रह्म-कर्म-समाधिना ॥ ४-२४॥
दैवम् एव अपरे यज्ञं,
योगिनः पर्युपासते ।
ब्रह्माग्नौ अपरे यज्ञं,
यज्ञेन एव उपजुह्वति ॥ ४-२५॥
श्रोत्रादीनि इन्द्रियाणि अन्ये,
संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्य,
इन्द्रियाग्निषु जुह्वति ॥ ४-२६॥
सर्वाणि इन्द्रिय-कर्माणि,
प्राण-कर्माणि चापरे ।
आत्म-संयम-योगाग्नौ,
जुह्वति ज्ञान-दीपिते ॥ ४-२७॥
द्रव्ययज्ञास् तपोयज्ञा,
योगयज्ञास् तथापरे ।
स्वाध्याय-ज्ञान-यज्ञाश्च,
यतयः संशित-व्रताः ॥ ४-२८॥
अपाने जुह्वति प्राणं,
प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा,
प्राणायाम-परायणाः ॥ ४-२९॥
अपरे नियताहाराः,
प्राणान्प्राणेषु जुह्वति ।
सर्वेपि एते यज्ञविदो,
यज्ञ-क्षपित-कल्मषाः ॥ ४-३०॥
यज्ञशिष्टामृत-भुजो,
यान्ति ब्रह्म सनातनम् ।
नायं लोकोस्ति अयज्ञस्य,
कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥
एवं बहुविधा यज्ञा,
वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वान्,
एवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥
श्रेयान् द्रव्यमयाद् यज्ञात्,
ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ,
ज्ञाने परिसमाप्यते ॥ ४-३३॥
तद् विद्धि प्रणिपातेन,
परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं,
ज्ञानिनस् तत्त्वदर्शिनः ॥ ४-३४॥
यज्ज्ञात्वा न पुनर्मोहम्,
एवं यास्यसि पाण्डव ।
येन भूतानि अशेषेण,
द्रक्ष्यसि आत्मनि अथो मयि ॥ ४-३५॥
अपि चेदसि पापेभ्यः,
सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञान-प्लवेन एव,
वृजिनं सन्तरिष्यसि ॥ ४-३६॥
यथैधांसि समिद्धोऽग्निर्,
भस्मसात् कुरुते अर्जुन ।
ज्ञानाग्निः सर्वकर्माणि,
भस्मसात्कुरुते तथा ॥ ४-३७॥
न हि ज्ञानेन सदृशं,
पवित्रम् इह विद्यते ।
तत् स्वयं योग-संसिद्धः,
कालेन आत्मनि विन्दति ॥ ४-३८॥
श्रद्धावान् लभते ज्ञानं,
तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम्,
अचिरेण अधिगच्छति ॥ ४-३९॥
अज्ञश् च अश्रद्दधानश् च,
संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो,
न सुखं संशयात्मनः ॥ ४-४०॥
योग-संन्यस्त-कर्माणं,
ज्ञान-संछिन्न-संशयम् ।
आत्मवन्तं न कर्माणि,
निबध्नन्ति धनंजय ॥ ४-४१॥
तस्माद् अज्ञान-सम्भूतं,
हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम्,
आतिष्ठोत्तिष्ठ भारत ॥ ४-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥