अथ दशमोऽध्यायः । विभूतियोगः
श्रीभगवानुवाच ।
भूय एव महाबाहो,
शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय,
वक्ष्यामि हितकाम्यया ॥ १०-१॥
न मे विदुः सुरगणाः,
प्रभवं न महर्षयः ।
अहमादिर्हि देवानां,
महर्षीणां च सर्वशः ॥ १०-२॥
यो मामजमनादिं च,
वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु,
सर्वपापैः प्रमुच्यते ॥ १०-३॥
बुद्धिर्ज्ञानमसम्मोहः,
क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो,
भयं चाभयमेव च ॥ १०-४॥
अहिंसा समता तुष्टिस्,
तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां,
मत्त एव पृथग्विधाः ॥ १०-५॥
महर्षयः सप्त पूर्वे,
चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता,
येषां लोक इमाः प्रजाः ॥ १०-६॥
एतां विभूतिं योगं च,
मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन,
युज्यते नात्र संशयः ॥ १०-७॥
अहं सर्वस्य प्रभवो,
मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां,
बुधा भावसमन्विताः ॥ १०-८॥
मच्चित्ता मद्गतप्राणा,
बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं,
तुष्यन्ति च रमन्ति च ॥ १०-९॥
तेषां सततयुक्तानां,
भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं,
येन मामुपयान्ति ते ॥ १०-१०॥
तेषामेवानुकम्पार्थम्,
अहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो,
ज्ञानदीपेन भास्वता ॥ १०-११॥
अर्जुन उवाच ।
परं ब्रह्म परं धाम,
पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम्,
आदिदेवमजं विभुम् ॥ १०-१२॥
आहुस्त्वामृषयः सर्वे,
देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः,
स्वयं चैव ब्रवीषि मे ॥ १०-१३॥
सर्वमेतदृतं मन्ये,
यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं,
विदुर्देवा न दानवाः ॥ १०-१४॥
स्वयमेवात्मनात्मानं,
वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश,
देवदेव जगत्पते ॥ १०-१५॥
वक्तुमर्हस्यशेषेण,
दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकान्,
इमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥
कथं विद्यामहं योगिंस्,
त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु,
चिन्त्योऽसि भगवन्मया ॥ १०-१७॥
विस्तरेणात्मनो योगं,
विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि,
शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥
श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि,
दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ,
नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥
अहमात्मा गुडाकेश,
सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च,
भूतानामन्त एव च ॥ १०-२०॥
आदित्यानामहं विष्णुर्,
ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि,
नक्षत्राणामहं शशी ॥ १०-२१॥
वेदानां सामवेदोऽस्मि,
देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि,
भूतानामस्मि चेतना ॥ १०-२२॥
रुद्राणां शंकरश्चास्मि,
वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि,
मेरुः शिखरिणामहम् ॥ १०-२३॥
पुरोधसां च मुख्यं मां,
विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः,
सरसामस्मि सागरः ॥ १०-२४॥
महर्षीणां भृगुरहं,
गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि,
स्थावराणां हिमालयः ॥ १०-२५॥
अश्वत्थः सर्ववृक्षाणां,
देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः,
सिद्धानां कपिलो मुनिः ॥ १०-२६॥
उच्चैःश्रवसमश्वानां,
विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां,
नराणां च नराधिपम् ॥ १०-२७॥
आयुधानामहं वज्रं,
धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः,
सर्पाणामस्मि वासुकिः ॥ १०-२८॥
अनन्तश्चास्मि नागानां,
वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि,
यमः संयमतामहम् ॥ १०-२९॥
प्रह्लादश्चास्मि दैत्यानां,
कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं,
वैनतेयश्च पक्षिणाम् ॥ १०-३०॥
पवनः पवतामस्मि,
रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि,
स्रोतसामस्मि जाह्नवी ॥ १०-३१॥
सर्गाणामादिरन्तश्च,
मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां,
वादः प्रवदतामहम् ॥ १०-३२॥
अक्षराणामकारोऽस्मि,
द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो,
धाताहं विश्वतोमुखः ॥ १०-३३॥
मृत्युः सर्वहरश्चाहम्,
उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां,
स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥
बृहत्साम तथा साम्नां,
गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहम्,
ऋतूनां कुसुमाकरः ॥ १०-३५॥
द्यूतं छलयतामस्मि,
तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि,
सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥
वृष्णीनां वासुदेवोऽस्मि,
पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः,
कवीनामुशना कविः ॥ १०-३७॥
दण्डो दमयतामस्मि,
नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां,
ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥
यच्चापि सर्वभूतानां,
बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्,
मया भूतं चराचरम् ॥ १०-३९॥
नान्तोऽस्ति मम दिव्यानां,
विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो,
विभूतेर्विस्तरो मया ॥ १०-४०॥
यद्यद्विभूतिमत्सत्त्वं,
श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं,
मम तेजोंऽशसम्भवम् ॥ १०-४१॥
अथवा बहुनैतेन,
किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नम्,
एकांशेन स्थितो जगत् ॥ १०-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥