अथ पञ्चमोऽध्यायः । संन्यासयोगः
अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण,
पुनर्योगं च शंससि ।
यत् श्रेय एतयोर् एकं,
तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥
श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च,
निःश्रेयसकरौ उभौ ।
तयोस्तु कर्मसंन्यासात्,
कर्मयोगो विशिष्यते ॥ ५-२॥
ज्ञेयः स नित्यसंन्यासी,
यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो,
सुखं बन्धात् प्रमुच्यते ॥ ५-३॥
सांख्ययोगौ पृथग् बालाः,
प्रवदन्ति न पण्डिताः ।
एकम् अपि आस्थितः सम्यग्,
उभयोर् विन्दते फलम् ॥ ५-४॥
यत् सांख्यैः प्राप्यते स्थानं,
तद् योगैर् अपि गम्यते ।
एकं सांख्यं च योगं च,
यः पश्यति स पश्यति ॥ ५-५॥
संन्यासस् तु महाबाहो,
दुःखम् आप्तुम् अयोगतः ।
योगयुक्तो मुनिर् ब्रह्म,
नचिरेण अधिगच्छति ॥ ५-६॥
योगयुक्तो विशुद्धात्मा,
विजितात्मा जितेन्द्रियः ।
सर्वभूतात्म-भूतात्मा,
कुर्वन् अपि न लिप्यते ॥ ५-७॥
नैव किंचित् करोमीति,
युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्,
अश्नन् गच्छन् स्वपन् श्वसन् ॥ ५-८॥
प्रलपन् विसृजन् गृह्णन्,
उन्मिषन् निमिषन् अपि ।
इन्द्रियाणि इन्द्रियार्थेषु,
वर्तन्त इति धारयन् ॥ ५-९॥
ब्रह्मणि आधाय कर्माणि,
संगं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन,
पद्मपत्रम् इव अम्भसा ॥ ५-१०॥
कायेन मनसा बुद्ध्या,
केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति,
संगं त्यक्त्वा आत्मशुद्धये ॥ ५-११॥
युक्तः कर्मफलं त्यक्त्वा,
शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण,
फले सक्तो निबध्यते ॥ ५-१२॥
सर्वकर्माणि मनसा,
संन्यस्यास् ते सुखं वशी ।
नवद्वारे पुरे देही,
नैव कुर्वन् न कारयन् ॥ ५-१३॥
न कर्तृत्वं न कर्माणि,
लोकस्य सृजति प्रभुः ।
न कर्म-फल-संयोगं,
स्वभावस् तु प्रवर्तते ॥ ५-१४॥
नादत्ते कस्यचित् पापं,
न चैव सुकृतं विभुः ।
अज्ञानेन आवृतं ज्ञानं,
तेन मुह्यन्ति जन्तवः ॥ ५-१५॥
ज्ञानेन तु तद् अज्ञानं,
येषां नाशितम् आत्मनः ।
तेषाम् आदित्यवज् ज्ञानं,
प्रकाशयति तत्परम् ॥ ५-१६॥
तद् बुद्धयस् तद् आत्मानस्,
तन् निष्ठास् तत् परायणाः ।
गच्छन्ति अपुनरावृत्तिं,
ज्ञान-निर्धूत-कल्मषाः ॥ ५-१७॥
विद्या-विनय-सम्पन्ने,
ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च,
पण्डिताः समदर्शिनः ॥ ५-१८॥
इहैव तैर्जितः सर्गो,
येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म,
तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥
न प्रहृष्येत् प्रियं प्राप्य,
न् उद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिर् असम्मूढो,
ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥
बाह्यस्पर्शेषु असक्तात्मा,
विन्दति आत्मनि यत्सुखम् ।
स ब्रह्मयोग-युक्तात्मा,
सुखम् अक्षयम् अश्नुते ॥ ५-२१॥
ये हि संस्पर्शजा भोगा,
दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय,
न तेषु रमते बुधः ॥ ५-२२॥
शक्नोति इह एव यः सोढुं,
प्राक्शरीर-विमोक्षणात् ।
कामक्रोधोद्भवं वेगं,
स युक्तः स सुखी नरः ॥ ५-२३॥
योऽन्तःसुखोऽन्तरारामस्,
तथान्तर् ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं,
ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥
लभन्ते ब्रह्मनिर्वाणम्,
ऋषयः क्षीण-कल्मषाः ।
छिन्नद्वैधा यतात्मानः,
सर्वभूत-हिते रताः ॥ ५-२५॥
कामक्रोधवियुक्तानां,
यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं,
वर्तते विदितात्मनाम् ॥ ५-२६॥
स्पर्शान्कृत्वा बहिर् बाह्यांश्,
चक्षुश् चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा,
नासाभ्यन्तरचारिणौ ॥ ५-२७॥
यतेन्द्रिय-मनोबुद्धिर्,
मुनिर्मोक्ष-परायणः ।
विगतेच्छा-भयक्रोधो,
यः सदा मुक्त एव सः ॥ ५-२८॥
भोक्तारं यज्ञतपसां,
सर्वलोक-महेश्वरम् ।
सुहृदं सर्वभूतानां,
ज्ञात्वा मां शान्तिम् ऋच्छति ॥ ५-२९॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥