॥ श्रीमत् भगवद्गीता ॥
अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः
सञ्जय उवाच ।
तं तथा कृपयाविष्टम्, अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यम्, उवाच मधुसूदनः ॥ २-१॥
श्रीभगवानुवाच ।
कुतस्त्वा कश्मलमिदं,
विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यम्,
अकीर्तिकरमर्जुन ॥ २-२॥
क्लैब्यं मा स्म गमः पार्थ,
नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं,
त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥
अर्जुन उवाच ।
कथं भीष्ममहं सङ्ख्ये,
द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि,
पूजार्हावरिसूदन ॥ २-४॥
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्-
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥
न हि प्रपश्यामि ममापनुद्याद्
यत् शोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥ २-८॥
सञ्जय उवाच ।
एवमुक्त्वा हृषीकेशं,
गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दम्,
उक्त्वा तूष्णीं बभूव ह ॥ २-९॥
तमुवाच हृषीकेशः,
प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये,
विषीदन्तमिदं वचः ॥ २-१०॥
श्रीभगवानुवाच ।
अशोच्यानन्वशोचस्त्वं,
प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च,
नानुशोचन्ति पण्डिताः ॥ २-११॥
न त्वेवाहं जातु नासं,
न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः,
सर्वे वयमतः परम् ॥ २-१२॥
देहिनोऽस्मिन्यथा देहे,
कौमारं यौवनं जरा ।
तथा देहान्तर-प्राप्ति:,
धीर: तत्र न मुह्यति ॥ २-१३॥
मात्रास्पर्शास्तु कौन्तेय,
शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्या:,
तांस्तितिक्षस्व भारत ॥ २-१४॥
यं हि न व्यथयन्त्येते,
पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं,
सोऽमृतत्वाय कल्पते ॥ २-१५॥
नासतो विद्यते भावो,
नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्त:,
त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥
अविनाशि तु तद्विद्धि,
येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य,
न कश्चित्कर्तुमर्हति ॥ २-१७॥
अन्तवन्त इमे देहा,
नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य,
तस्माद्युध्यस्व भारत ॥ २-१८॥
य एनं वेत्ति हन्तारं,
यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो,
नायं हन्ति न हन्यते ॥ २-१९॥
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ २-२०॥
वेदाविनाशिनं नित्यं,
य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ,
कं घातयति हन्ति कम् ॥ २-२१॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥ २-२२॥
नैनं छिन्दन्ति शस्त्राणि,
नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो,
न शोषयति मारुतः ॥ २-२३॥
अच्छेद्योऽयमदाह्योऽयम् ,
अक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणु:,
अचलोऽयं सनातनः ॥ २-२४॥
अव्यक्तोऽयमचिन्त्योऽयम्,
अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं,
नानुशोचितुमर्हसि ॥ २-२५॥
अथ चैनं नित्यजातं,
नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो,
नैवं शोचितुमर्हसि ॥ २-२६॥
जातस्य हि ध्रुवो मृत्यु:
ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे,
न त्वं शोचितुमर्हसि ॥ २-२७॥
अव्यक्तादीनि भूतानि,
व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव,
तत्र का परिदेवना ॥ २-२८॥
आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९॥
देही नित्यमवध्योऽयं,
देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि,
न त्वं शोचितुमर्हसि ॥ २-३०॥
स्वधर्ममपि चावेक्ष्य,
न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्,
क्षत्रियस्य न विद्यते ॥ २-३१॥
यदृच्छया चोपपन्नं,
स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ,
लभन्ते युद्धमीदृशम् ॥ २-३२॥
अथ चेत्त्वमिमं धर्म्यं,
सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च,
हित्वा पापमवाप्स्यसि ॥ २-३३॥
अकीर्तिं चापि भूतानि,
कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्,
मरणादतिरिच्यते ॥ २-३४॥
भयाद्रणादुपरतं,
मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो,
भूत्वा यास्यसि लाघवम् ॥ २-३५॥
अवाच्यवादांश्च बहून्,
वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं,
ततो दुःखतरं नु किम् ॥ २-३६॥
हतो वा प्राप्स्यसि स्वर्गं,
जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय,
युद्धाय कृतनिश्चयः ॥ २-३७॥
सुखदुःखे समे कृत्वा,
लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व,
नैवं पापमवाप्स्यसि ॥ २-३८॥
एषा तेऽभिहिता साङ्ख्ये,
बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ,
कर्मबन्धं प्रहास्यसि ॥ २-३९॥
नेहाभिक्रमनाशोऽस्ति,
प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य,
त्रायते महतो भयात् ॥ २-४०॥
व्यवसायात्मिका बुद्धिर्,
एकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च,
बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥
यामिमां पुष्पितां वाचं,
प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ,
नान्यदस्तीति वादिनः ॥ २-४२॥
कामात्मानः स्वर्गपरा,
जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां,
भोगैश्वर्यगतिं प्रति ॥ २-४३॥
भोगैश्वर्यप्रसक्तानां,
तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः,
समाधौ न विधीयते ॥ २-४४॥
त्रैगुण्यविषया वेदा,
निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो,
निर्योगक्षेम आत्मवान् ॥ २-४५॥
यावानर्थ उदपाने,
सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु,
ब्राह्मणस्य विजानतः ॥ २-४६॥
कर्मण्येवाधिकारस्ते,
मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्,
मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥
योगस्थः कुरु कर्माणि,
सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा,
समत्वं योग उच्यते ॥ २-४८॥
दूरेण ह्यवरं कर्म,
बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ,
कृपणाः फलहेतवः ॥ २-४९॥
बुद्धियुक्तो जहातीह,
उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व,
योगः कर्मसु कौशलम् ॥ २-५०॥
कर्मजं बुद्धियुक्ता हि,
फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः,
पदं गच्छन्त्यनामयम् ॥ २-५१॥
यदा ते मोहकलिलं,
बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं,
श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥
श्रुतिविप्रतिपन्ना ते,
यदा स्थास्यति निश्चला ।
समाधावचला बुद्धि:,
तदा योगमवाप्स्यसि ॥ २-५३॥
अर्जुन उवाच ।
स्थितप्रज्ञस्य का भाषा,
समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत,
किमासीत व्रजेत किम् ॥ २-५४॥
श्रीभगवानुवाच ।
प्रजहाति यदा कामान्,
सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः,
स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥
दुःखेष्वनुद्विग्नमनाः,
सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः,
स्थितधीर्मुनिरुच्यते ॥ २-५६॥
यः सर्वत्रानभिस्नेहस्,
तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥
यदा संहरते चायं,
कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥
विषया विनिवर्तन्ते,
निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य,
परं दृष्ट्वा निवर्तते ॥ २-५९॥
यततो ह्यपि कौन्तेय,
पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि,
हरन्ति प्रसभं मनः ॥ २-६०॥
तानि सर्वाणि संयम्य,
युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥
ध्यायतो विषयान्पुंसः,
सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः,
कामात्क्रोधोऽभिजायते ॥ २-६२॥
क्रोधाद्भवति सम्मोहः,
सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो,
बुद्धिनाशात्प्रणश्यति ॥ २-६३॥
रागद्वेषविमुक्तैस्तु,
विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा,
प्रसादमधिगच्छति ॥ २-६४॥
प्रसादे सर्वदुःखानां,
हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु,
बुद्धिः पर्यवतिष्ठते ॥ २-६५॥
नास्ति बुद्धिरयुक्तस्य,
न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर्,
अशान्तस्य कुतः सुखम् ॥ २-६६॥
इन्द्रियाणां हि चरतां,
यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां,
वायुर्नावमिवाम्भसि ॥ २-६७॥
तस्माद्यस्य महाबाहो,
निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥
या निशा सर्वभूतानां,
तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि,
सा निशा पश्यतो मुनेः ॥ २-६९॥
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ २-७०॥
विहाय कामान्यः सर्वान्,
पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः,
स शान्तिमधिगच्छति ॥ २-७१॥
एषा ब्राह्मी स्थितिः पार्थ,
नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि,
ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥