अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः
अर्जुन उवाच ।
किं तद् ब्रह्म किम् अध्यात्मं,
किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तम्,
अधिदैवं किमुच्यते ॥ ८-१॥
अधियज्ञः कथं कोऽत्र,
देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं,
ज्ञेयोऽसि नियतात्मभिः ॥ ८-२॥
श्रीभगवानुवाच ।
अक्षरं ब्रह्म परमं,
स्वभावो अध्यात्मम् उच्यते ।
भूतभावोद् भवकरो,
विसर्गः कर्मसंज्ञितः ॥ ८-३॥
अधिभूतं क्षरो भावः,
पुरुषश्च अधिदैवतम् ।
अधियज्ञोऽ(अ)हमेवात्र,
देहे देहभृतां वर ॥ ८-४॥
अन्तकाले च मामेव,
स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद् भावं,
याति नास्ति अत्र संशयः ॥ ८-५॥
यं यं वापि स्मरन्भावं,
त्यजत्यन्ते कलेवरम् ।
तन् तम् एवैति कौन्तेय,
सदा तद् भावभावितः ॥ ८-६॥
तस्मात् सर्वेषु कालेषु,
माम् अनुस्मर युध्य च ।
मयि अर्पित-मनोबुद्धिर्,
मामेव एष्यसि असंशयः ॥ ८-७॥
अभ्यास-योग-युक्तेन,
चेतसा नान्य-गामिना ।
परमं पुरुषं दिव्यं,
याति पार्थ अनुचिन्तयन् ॥ ८-८॥
कविं पुराणम् अनुशासितारम्
अणोर् अणीयांसम् अनुस्मरेद् यः ।
सर्वस्य धातारम् अचिन्त्य-रूपम्
आदित्यवर्णं तमसः परस्तात् ॥ ८-९॥
प्रयाणकाले मनसाऽ(अ)चलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्
स तं परं पुरुषम् उपैति दिव्यम् ॥ ८-१०॥
यदक्षरं वेदविदो वदन्ति
विशन्ति यद् यतयो वीतरागाः ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८-११॥
सर्वद्वाराणि संयम्य,
मनो हृदि निरुध्य च ।
मूर्ध् नि आधाय आत्मनः प्राणम्,
आस्थितो योगधारणाम् ॥ ८-१२॥
ओमिति एकाक्षरं ब्रह्म,
व्याहरन् माम् अनुस्मरन् ।
यः प्रयाति त्यजन् देहं,
स याति परमां गतिम् ॥ ८-१३॥
अनन्य-चेताः सततं,
यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ,
नित्य-युक्तस्य योगिनः ॥ ८-१४॥
माम् उपेत्य पुनर्जन्म,
दुःखालयम् अशाश्वतम् ।
न आप्नुवन्ति महात्मानः,
संसिद्धिं परमां गताः ॥ ८-१५॥
आब्रह्म-भुवनाल् लोकाः,
पुनरावर्तिनोऽ(अ)र्जुन ।
मामुपेत्य तु कौन्तेय,
पुनर्जन्म न विद्यते ॥ ८-१६॥
सहस्रयुग-पर्यन्तम्,
अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युग-सहस्रान्तां,
तेऽ(अ)होरात्र-विदो जनाः ॥ ८-१७॥
अव्यक्ताद् व्यक्तयः सर्वाः,
प्रभवन्ति अहरागमे ।
रात्र्यागमे प्रलीयन्ते,
तत्रैव अव्यक्त-संज्ञके ॥ ८-१८॥
भूतग्रामः स एवायं,
भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽ(अ)वशः पार्थ,
प्रभवति अहरागमे ॥ ८-१९॥
परस् तस्मात्तु भावोऽ(अ)न्यो,
(अ)व्यक्तोऽ(अ)व्यक्तात् सनातनः ।
यः स सर्वेषु भूतेषु,
नश्यत्सु न विनश्यति ॥ ८-२०॥
अव्यक्तोऽ(अ)क्षर इत्युक्तस्,
तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते,
तद्धाम परमं मम ॥ ८-२१॥
पुरुषः स परः पार्थ,
भक्त्या लभ्यस् तु अनन्यया ।
यस्य अन्तःस्थानि भूतानि,
येन सर्वमिदं ततम् ॥ ८-२२॥
यत्र काले तु अनावृत्तिम्,
आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं,
वक्ष्यामि भरतर्षभ ॥ ८-२३॥
अग्निर् ज्योतिर् अहः शुक्लः,
षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति,
ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४॥
धूमो रात्रिस् तथा कृष्णः,
षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्,
योगी प्राप्य निवर्तते ॥ ८-२५॥
शुक्लकृष्णे गती ह्येते,
जगतः शाश्वते मते ।
एकया याति अनावृत्तिम्,
अन्यया(आ)वर्तते पुनः ॥ ८-२६॥
नैते सृती पार्थ जानन्,
योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु,
योगयुक्तो भवार्जुन ॥ ८-२७॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत् पुण्यफलं प्रदिष्टम् ।
अत्येति तत् सर्वमिदं विदित्वा
योगी परं स्थानम् उपैति चाद्यम् ॥ ८-२८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥