अथ द्वादशोऽध्यायः । भक्तियोगः
अर्जुन उवाच ।
एवं सततयुक्ता ये,
भक्तास् त्वां पर्युपासते ।
ये चापि अक्षरम् अव्यक्तं,
तेषां के योगवित्तमाः ॥ १२-१॥
श्रीभगवानुवाच ।
मयि आवेश्य मनो ये मां,
नित्ययुक्ता उपासते ।
श्रद्धया परया उपेतास्,
ते मे युक्ततमा मताः ॥ १२-२॥
ये तु अक्षरम् अनिर्देश्यम्,
अव्यक्तं पर्युपासते ।
सर्वत्रगम् अचिन्त्यम् च,
कूटस्थम् अचलन् ध्रुवम् ॥ १२-३॥
सन्नियम्य इन्द्रियग्रामं,
सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव,
सर्व-भूत-हिते रताः ॥ १२-४॥
क्लेशोऽ(अ)धिकतरस् तेषाम्,
अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं,
देहवद्भिर् अवाप्यते ॥ १२-५॥
ये तु सर्वाणि कर्माणि,
मयि संन्यस्य मत्पराः ।
अनन्येन एव योगेन,
मां ध्यायन्त उपासते ॥ १२-६॥
तेषाम् अहं समुद्धर्ता,
मृत्यु-संसार-सागरात् ।
भवामि नचिरात् पार्थ,
मयि आवेशित-चेतसाम् ॥ १२-७॥
मयि एव मन आधत्स्व,
मयि बुद्धिं निवेशय ।
निवसिष्यसि मयि एव,
अत ऊर्ध्वं न संशयः ॥ १२-८॥
अथ चित्तं समाधातुं,
न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो,
माम् इच्छ आप्तुं धनञ्जय ॥ १२-९॥
अभ्यासेऽ(अ)पि असमर्थोऽ(अ)सि,
मत्कर्म-परमो भव ।
मदर्थम् अपि कर्माणि,
कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १२-१०॥
अथ एतदपि अशक्तोऽसि,
कर्तुं मद्योगम् आश्रितः ।
सर्व-कर्म-फल-त्यागं,
ततः कुरु यतात्मवान् ॥ १२-११॥
श्रेयो हि ज्ञानम् अभ्यासाज्,
ज्ञानात् ध्यानं विशिष्यते ।
ध्यानात् कर्म-फल-त्यागस्,
त्यागात् शान्तिर् अनन्तरम् ॥ १२-१२॥
अद्वेष्टा सर्व-भूतानां,
मैत्रः करुण एव च ।
निर्ममो निरहंकारः,
सम-दुःख-सुखः क्षमी ॥ १२-१३॥
सन्तुष्टः सततं योगी,
यतात्मा दृढनिश्चयः ।
मयि अर्पित-मनोबुद्धिर्,
यो मद्-भक्तः स मे प्रियः ॥ १२-१४॥
यस्मान् न उद्विजते लोको,
लोकान् न उद्विजते च यः ।
हर्षामर्ष-भयोद्वेगैर्,
मुक्तो यः स च मे प्रियः ॥ १२-१५॥
अनपेक्षः शुचिर् दक्ष,
उदासीनो गतव्यथः ।
सर्वारम्भ-परित्यागी,
यो मद्भक्तः स मे प्रियः ॥ १२-१६॥
यो न हृष्यति न द्वेष्टि,
न शोचति न कांक्षति ।
शुभाशुभ-परित्यागी,
भक्तिमान् यः स मे प्रियः ॥ १२-१७॥
समः शत्रौ च मित्रे च,
तथा मानापमानयोः ।
शीतोष्ण-सुख-दुःखेषु,
समः संग-विवर्जितः ॥ १२-१८॥
तुल्य-निन्दा-स्तुतिर् मौनी,
सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्,
भक्तिमान् मे प्रियो नरः ॥ १२-१९॥
ये तु धर्म्यामृतम् इदं,
यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा,
भक्तास् तेऽ(अ)तीव मे प्रियाः ॥ १२-२०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥