अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्,
ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च,
स्वाध्यायस्तप आर्जवम् ॥ १६-१॥
अहिंसा सत्यमक्रोधस्,
त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं,
मार्दवं ह्रीरचापलम् ॥ १६-२॥
तेजः क्षमा धृतिः शौचम्,
अद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीम्,
अभिजातस्य भारत ॥ १६-३॥
दम्भो दर्पोऽभिमानश्च,
क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य,
पार्थ सम्पदमासुरीम् ॥ १६-४॥
दैवी सम्पद्विमोक्षाय,
निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीम्,
अभिजातोऽसि पाण्डव ॥ १६-५॥
द्वौ भूतसर्गौ लोकेऽस्मिन्,
दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त,
आसुरं पार्थ मे शृणु ॥ १६-६॥
प्रवृत्तिं च निवृत्तिं च,
जना न विदुरासुराः ।
न शौचं नापि चाचारो,
न सत्यं तेषु विद्यते ॥ १६-७॥
असत्यमप्रतिष्ठं ते,
जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं,
किमन्यत्कामहैतुकम् ॥ १६-८॥
एतां दृष्टिमवष्टभ्य,
नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः,
क्षयाय जगतोऽहिताः ॥ १६-९॥
काममाश्रित्य दुष्पूरं,
दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्,
प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥
चिन्तामपरिमेयां च,
प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा,
एतावदिति निश्चिताः ॥ १६-११॥
आशापाशशतैर्बद्धाः,
कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थम्,
अन्यायेनार्थसञ्चयान् ॥ १६-१२॥
इदमद्य मया लब्धम्,
इमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे,
भविष्यति पुनर्धनम् ॥ १६-१३॥
असौ मया हतः शत्रुर्,
हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी,
सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥
आढ्योऽभिजनवानस्मि,
कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य,
इत्यज्ञानविमोहिताः ॥ १६-१५॥
अनेकचित्तविभ्रान्ता,
मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु,
पतन्ति नरकेऽशुचौ ॥ १६-१६॥
आत्मसम्भाविताः स्तब्धा,
धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते,
दम्भेनाविधिपूर्वकम् ॥ १६-१७॥
अहङ्कारं बलं दर्पं,
कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु,
प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥
तानहं द्विषतः क्रूरान्,
संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभान्,
आसुरीष्वेव योनिषु ॥ १६-१९॥
आसुरीं योनिमापन्ना,
मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय,
ततो यान्त्यधमां गतिम् ॥ १६-२०॥
त्रिविधं नरकस्येदं,
द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्,
तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥
एतैर्विमुक्तः कौन्तेय,
तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्,
ततो याति परां गतिम् ॥ १६-२२॥
यः शास्त्रविधिमुत्सृज्य,
वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति,
न सुखं न परां गतिम् ॥ १६-२३॥
तस्माच्छास्त्रं प्रमाणं ते,
कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं,
कर्म कर्तुमिहार्हसि ॥ १६-२४॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥