अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं,
प्रवक्ष्यामि अनसूयवे ।
ज्ञानं विज्ञान-सहितं,
यत् ज्ञात्वा मोक्ष्यसेऽ(अ)शुभात् ॥ ९-१॥
राजविद्या राजगुह्यं,
पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं,
सुसुखं कर्तुम् अव्ययम् ॥ ९-२॥
अश्रद्दधानाः पुरुषा,
धर्मस्य अस्य परन्तप ।
अप्राप्य मां निवर्तन्ते,
मृत्यु-संसार-वर्त्मनि ॥ ९-३॥
मया ततम् इदं सर्वं,
जगद् अव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि,
न चाहं तेषु अवस्थितः ॥ ९-४॥
न च मत्स्थानि भूतानि,
पश्य मे योगमैश्वरम् ।
भूतभृन् न च भूतस्थो,
ममात्मा भूतभावनः ॥ ९-५॥
यथा आकाशस्थितो नित्यं,
वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि,
मत्स्थानि इति उपधारय ॥ ९-६॥
सर्वभूतानि कौन्तेय,
प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस् तानि,
कल्पादौ विसृजामि अहम् ॥ ९-७॥
प्रकृतिं स्वाम् अवष्टभ्य,
विसृजामि पुनः पुनः ।
भूतग्रामम् इमं कृत्स्नम्,
अवशं प्रकृतेर् वशात् ॥ ९-८॥
न च मां तानि कर्माणि,
निबध्नन्ति धनंजय ।
उदासीनवद् आसीनम्,
असक्तं तेषु कर्मसु ॥ ९-९॥
मयाध्यक्षेण प्रकृतिः,
सूयते सचराचरम् ।
हेतुना अनेन कौन्तेय,
जगद् विपरिवर्तते ॥ ९-१०॥
अवजानन्ति मां मूढा,
मानुषीं तनुमाश्रितम् ।
परं भावम् अजानन्तो,
मम भूतमहेश्वरम् ॥ ९-११॥
मोघाशा मोघकर्माणो,
मोघज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव,
प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥
महात्मानस् तु मां पार्थ,
दैवीं प्रकृतिम् आश्रिताः ।
भजन्ति अनन्यमनसो,
ज्ञात्वा भूतादिम् अव्ययम् ॥ ९-१३॥
सततं कीर्तयन्तो मां,
यतन्तश् च दृढव्रताः ।
नमस्यन्तश् च मां भक्त्या,
नित्ययुक्ता उपासते ॥ ९-१४॥
ज्ञानयज्ञेन चापि अन्ये,
यजन्तो माम् उपासते ।
एकत्वेन पृथक्त्वेन,
बहुधा विश्वतोमुखम् ॥ ९-१५॥
अहं क्रतुर् अहं यज्ञः,
स्वधाहम् अहम् औषधम् ।
मन्त्रोऽहम् अहमेव आज्यम्,
अहमग्निर् अहं हुतम् ॥ ९-१६॥
पिताहम् अस्य जगतो,
माता धाता पितामहः ।
वेद्यं पवित्रम् ॐकार,
ऋक्साम यजुरेव च ॥ ९-१७॥
गतिर् भर्ता प्रभुः साक्षी,
निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं,
निधानं बीजम् अव्ययम् ॥ ९-१८॥
तपाम्यहम् अहं वर्षं,
निगृह्णामि उत्सृजामि च ।
अमृतं चैव मृत्युश्च,
सद् असत् चाहम् अर्जुन ॥ ९-१९॥
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ ९-२०॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्मम् अनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ ९-२१॥
अनन्याश् चिन्तयन्तो मां,
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां,
योगक्षेमं वहाम्यहम् ॥ ९-२२॥
येऽपि अन्यदेवता भक्ता,
यजन्ते श्रद्धया अन्विताः ।
तेऽपि मामेव कौन्तेय,
यजन्ति अविधिपूर्वकम् ॥ ९-२३॥
अहं हि सर्वयज्ञानां,
भोक्ता च प्रभुरेव च ।
न तु माम् अभिजानन्ति,
तत्त्वेन अतश् च्यवन्ति ते ॥ ९-२४॥
यान्ति देवव्रता देवान्,
पितॄन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या,
यान्ति मद् याजिनोऽपि माम् ॥ ९-२५॥
पत्रं पुष्पं फलं तोयं,
यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम्,
अश्नामि प्रयतात्मनः ॥ ९-२६॥
यत्करोषि यद् अश्नासि,
यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय,
तत् कुरुष्व मदर्पणम् ॥ ९-२७॥
शुभाशुभफलैर् एवं,
मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा,
विमुक्तो माम् उपैष्यसि ॥ ९-२८॥
समोऽहं सर्वभूतेषु,
न मे द्वेष्योऽ(अ)स्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या,
मयि ते तेषु चापि अहम् ॥ ९-२९॥
अपि चेत् सुदुराचारो,
भजते माम् अनन्यभाक् ।
साधुरेव स मन्तव्यः,
सम्यग् व्यवसितो हि सः ॥ ९-३०॥
क्षिप्रं भवति धर्मात्मा,
शश्वत् शान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि,
न मे भक्तः प्रणश्यति ॥ ९-३१॥
मां हि पार्थ व्यपाश्रित्य,
येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास् तथा शूद्रास्,
तेऽपि यान्ति परां गतिम् ॥ ९-३२॥
किं पुनर् ब्राह्मणाः पुण्या,
भक्ता राजर्षयस् तथा ।
अनित्यम् असुखं लोकम्,
इमं प्राप्य भजस्व माम् ॥ ९-३३॥
मन्मना भव मद्भक्तो,
मद्याजी मां नमस्कुरु ।
मामेव एष्यसि युक्त्वा एवम्,
आत्मानं मत्परायणः ॥ ९-३४॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥