संकटनाशन महागणपती स्तोत्रम्
संकटनाशन महागणपती स्तोत्रम्
॥ श्री गणेशाय नमः || नारद उवाच ।
प्रणम्य शिरसा देवं
गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं
आयुःकामार्थसिद्धये ॥ १॥
प्रथमं वक्रतुंडं च
एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं
गजवक्त्रं चतुर्थकम् ॥ २॥
लंबोदरं पंचमं च
षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेंद्रं
धूम्रवर्णं तथाष्टकम् ॥३॥
नवमं भालचंद्रं च
दशमं तु विनायकम्
एकादशं गणपतिं
द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि
त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य
सर्वसिद्धिकरं प्रभो ॥५॥
विद्यार्थी लभते विद्यां
धनार्थी लभते धनं ।
पुत्रार्थी लभते पुत्रान्
मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं
षडभिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च
लभते नात्र संशयः ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च
लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा
गणेशस्य प्रसादतः ॥८॥
इति श्रीनारदपुराणे संकटनाशनं
नाम महागणपति स्तोत्रं संपूर्णमं