॥ श्रीमत् भगवद्गीता ॥
॥ ॐ श्री परमात्मने नमः ॥
अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे,
समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव,
किमकुर्वत सञ्जय ॥ १-१॥
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं,
व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य,
राजा वचनमब्रवीत् ॥ १-२॥
पश्यैतां पाण्डुपुत्राणाम्,
आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण,
तव शिष्येण धीमता ॥ १-३॥
अत्र शूरा महेष्वासा,
भीमार्जुनसमा युधि ।
युयुधानो विराटश्च,
द्रुपदश्च महारथः ॥ १-४॥
धृष्टकेतुश्चेकितानः,
काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजश्च,
शैब्यश्च नरपुङ्गवः ॥ १-५॥
युधामन्युश्च विक्रान्त,
उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च,
सर्व एव महारथाः ॥ १-६॥
अस्माकं तु विशिष्टा ये,
तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य,
संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥
भवान्भीष्मश्च कर्णश्च,
कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च,
सौमदत्तिस्तथैव च ॥ १-८॥
अन्ये च बहवः शूरा,
मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः,
सर्वे युद्धविशारदाः ॥ १-९॥
अपर्याप्तं तदस्माकं,
बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां,
बलं भीमाभिरक्षितम् ॥ १-१०॥
अयनेषु च सर्वेषु,
यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु,
भवन्तः सर्व एव हि ॥ १-११॥
तस्य सञ्जनयन् हर्षं,
कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः,
शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥
ततः शङ्खाश्च भेर्यश्च,
पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त,
स शब्दस्तुमुलोऽभवत् ॥ १-१३॥
ततः श्वेतैर् हयैर् युक्ते,
महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव,
दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥
पाञ्चजन्यं हृषीकेशो,
देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं,
भीमकर्मा वृकोदरः ॥ १-१५॥
अनन्तविजयं राजा,
कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च,
सुघोष-मणिपुष्पकौ ॥ १-१६॥
काश्यश्च परमेष्वासः,
शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च,
सात्यकिश्चापराजितः ॥ १-१७॥
द्रुपदो द्रौपदेयाश्च,
सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः,
शङ्खान् दध्मुः पृथक्पृथक् ॥ १-१८॥
स घोषो धार्तराष्ट्राणां,
हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव,
तुमुलोऽ व्यनुनादयन् ॥ १-१९॥
अथ व्यवस्थितान् दृष्ट्वा,
धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते,
धनुरुद्यम्य पाण्डवः ॥ १-२०॥
हृषीकेशं तदा वाक्यम्,
इदमाह महीपते ।
अर्जुन उवाच ।
सेनयोर् उभयोर् मध्ये,
रथं स्थापय मेऽच्युत ॥ १-२१॥
यावदेतान् निरीक्षेऽहं,
योद्धुकामान् अवस्थितान् ।
कैर्मया सह योद्धव्यम्,
अस्मिन् रणसमुद्यमे ॥ १-२२॥
योत्स्यमानान् अवेक्षेऽहं,
य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्,
युद्धे प्रियचिकीर्षवः ॥ १-२३॥
संजय उवाच ।
एवमुक्तो हृषीकेशो,
गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये,
स्थापयित्वा रथोत्तमम् ॥ १-२४॥
भीष्मद्रोणप्रमुखतः,
सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्,
समवेतान्कुरूनिति ॥ १-२५॥
तत्रापश्यत्स्थितान्पार्थः,
पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्,
पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६॥
श्वशुरान्सुहृदश्चैव,
सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः,
सर्वान्बन्धूनवस्थितान् ॥ १-२७॥
कृपया परयाविष्टो,
विषीदन्निदमब्रवीत् ।
अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण,
युयुत्सुं समुपस्थितम् ॥ १-२८॥
सीदन्ति मम गात्राणि,
मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे,
रोमहर्षश्च जायते ॥ १-२९॥
गाण्डीवं स्रंसते हस्तात्,
त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं,
भ्रमतीव च मे मनः ॥ १-३०॥
निमित्तानि च पश्यामि,
विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि,
हत्वा स्वजनमाहवे ॥ १-३१॥
न काङ्क्षे विजयं कृष्ण,
न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द,
किं भोगैर्जीवितेन वा ॥ १-३२॥
येषामर्थे काङ्क्षितं नो,
राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे,
प्राणांस्त्यक्त्वा धनानि च ॥ १-३३॥
आचार्याः पितरः पुत्रास्,
तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः,
श्यालाः सम्बन्धिनस्तथा ॥ १-३४॥
एतान्न हन्तुमिच्छामि,
घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य,
हेतोः किं नु महीकृते ॥ १-३५॥
निहत्य धार्तराष्ट्रान्नः,
का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्,
हत्वैतानाततायिनः ॥ १-३६॥
तस्मान्नार्हा वयं हन्तुं,
धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा,
सुखिनः स्याम माधव ॥ १-३७॥
यद्यप्येते न पश्यन्ति,
लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं,
मित्रद्रोहे च पातकम् ॥ १-३८॥
कथं न ज्ञेयमस्माभिः,
पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं,
प्रपश्यद्भिर्जनार्दन ॥ १-३९॥
कुलक्षये प्रणश्यन्ति,
कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम्,
अधर्मोऽभिभवत्युत ॥ १-४०॥
अधर्माभिभवात्कृष्ण,
प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय,
जायते वर्णसङ्करः ॥ १-४१॥
सङ्करो नरकायैव,
कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां,
लुप्तपिण्डोदकक्रियाः ॥ १-४२॥
दोषैरेतैः कुलघ्नानां,
वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः,
कुलधर्माश्च शाश्वताः ॥ १-४३॥
उत्सन्नकुलधर्माणां,
मनुष्याणां जनार्दन ।
नरके नियतं वासो,
भवतीत्यनुशुश्रुम ॥ १-४४॥
अहो बत महत्पापं,
कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन,
हन्तुं स्वजनमुद्यताः ॥ १-४५॥
यदि मामप्रतीकारम्,
अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्,
तन्मे क्षेमतरं भवेत् ॥ १-४६॥
सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये,
रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं,
शोकसंविग्नमानसः ॥ १-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥