॥ श्रीमत् भगवद्गीता ॥
अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः
सञ्जय उवाच ।
तं तथा कृपया आविष्टम्,
अश्रु-पूर्णाकुलेक्षणम् ।
विषीदंतम् इदं वाक्यम्,
उवाच मधु-सूदनः ॥ २-१॥
श्रीभगवानुवाच ।
कुत: त्वा कश्मलम् इदं,
विषमे समुपस्थितम् ।
अनार्यजुष्टम् अस्वर्ग्यम्,
अकीर्तिकरम् अर्जुन ॥ २-२॥
क्लैब्यं मा स्म गमः पार्थ,
न एतत् त्वयि उपपद्यते ।
क्षुद्रं हृदय-दौर्बल्यं,
त्यक्त्वा उत्तिष्ठ परंतप ॥ २-३॥
अर्जुन उवाच ।
कथं भीष्मम् अहं संख्ये,
द्रोणं च मधु-सूदन ।
इषुभिः प्रति योत्स्यामि,
पूजार्हौ अरिसूदन ॥ २-४॥
गुरून् अहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यम् अपि इह लोके ।
हत्वा अर्थकामां तु गुरून् इह एव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ २-५॥
न च एतद् विद्मः कतरत् नो गरीयो
यदि वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस्-
ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-संमूढ-चेताः ।
यत् श्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्य: ते अहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥
न हि प्रपश्यामि मम अपनुद्याद्
यत् शोकम् उत्+शोषणम् इन्द्रियाणाम् ।
अवाप्य भूमौ असपत्नम् ऋद्धं
राज्यं सुराणाम् अपि च अधिपत्यम् ॥ २-८॥
सञ्जय उवाच ।
वम् उक्त्वा हृषीकेशं,
गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दम्,
उक्त्वा तूष्णीं बभूव ह ॥ २-९॥
तम् उवाच हृषीकेशः,
प्रहसन् इव भारत ।
सेनयो: उभयो: मध्ये,
विषीदन्तम् इदं वचः ॥ २-१०॥
श्रीभगवानुवाच ।
अशोच्यान् अन्वशोच: त्वं,
प्रज्ञावादां च भाषसे ।
गतासून् अगतासून् च,
न अनु-शोचन्ति पण्डिताः ॥ २-११॥
न तु एव अहं जातु न असं,
न त्वं न इमे जनाधिपाः ।
न च एव न भविष्यामः,
सर्वे वयम् अतः परम् ॥ २-१२॥
देहिनो अस्मिन् यथा देहे,
कौमारं यौवनं जरा ।
तथा देहान्तर-प्राप्ति:,
धीर: तत्र न मुह्यति ॥ २-१३॥
मात्रास्पर्शा: तु कौन्तेय,
शीतोष्ण-सुख-दुःखदाः ।
आगमापायिनो अनित्या:,
तां तितिक्षस्व भारत ॥ २-१४॥
यं हि न व्यथयंति एते,
पुरुषं पुरुषर्षभ ।
सम-दुःखसुखं धीरं,
सो अमृतत्वाय कल्पते ॥ २-१५॥
नासतो विद्यते भावो,
नाभावो विद्यते सतः ।
उभयो: अपि दृष्टो अन्त:,
तु अनयो: तत्त्व-दर्शिभिः ॥ २-१६॥
अविनाशि तु तद् विद्धि,
येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्य अस्य,
न कश्चित् कर्तुम् अर्हति ॥ २-१७॥
अन्तवन्त इमे देहा,
नित्यस्य उक्ताः शरीरिणः ।
अनाशिनो अप्रमेयस्य,
तस्माद् युध्यस्व भारत ॥ २-१८॥
य एनं वेत्ति हन्तारं,
यश्च एनं मन्यते हतम् ।
उभौ तौ न विजानीतो,
नायं हन्ति न हन्यते ॥ २-१९॥
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो अयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ २-२०॥
वेद अविनाशिनं नित्यं,
य एनम् अजम् अव्ययम् ।
कथं स पुरुषः पार्थ,
कं घातयति हन्ति कम् ॥ २-२१॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो अपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥ २-२२॥
न एनं छिन्दन्ति शस्त्राणि,
नैनं दहति पावकः ।
न चैनं क्लेदयंति आपो,
न शोषयति मारुतः ॥ २-२३॥
अच्छेद्यो अयम् अदाह्यो अयम् ,
अक्लेद्यो अशोष्य एव च ।
नित्यः सर्वगतः स्थाणु:,
अचलो अयं सनातनः ॥ २-२४॥
अव्यक्तो अयम् अचिन्त्यो अयम्,
अविकार्यो अयम् उच्यते ।
तस्माद् एवं विदित्वा एनं,
न अनुशोचितुम् अर्हसि ॥ २-२५॥
अथ चैनं नित्य-जातं,
नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महा-बाहो,
नैवं शोचितुम् अर्हसि ॥ २-२६॥
जातस्य हि ध्रुवो मृत्यु:
ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये अर्थे,
न त्वं शोचितुम् अर्हसि ॥ २-२७॥
अव्यक्तादीनि भूतानि,
व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनानि एव,
तत्र का परिदेवना ॥ २-२८॥
आश्चर्यवत् पश्यति कश्चिद् एनम्
आश्चर्यवद् वदति तथैव चान्यः ।
आश्चर्यवत् च एनम् अन्यः शृणोति
श्रुत्वा अपि एनं वेद न चैव कश्चित् ॥ २-२९॥
देही नित्यम् अवध्यो अयं,
देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि,
न त्वं शोचितुम् अर्हसि ॥ २-३०॥
स्वधर्मम् अपि च अवेक्ष्य,
न विकम्पितुम् अर्हसि ।
धर्म्याद् हि युद्धात् श्रेयो अन्यत्,
क्षत्रियस्य न विद्यते ॥ २-३१॥
यदृच्छया च उपपन्नं,
स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ,
लभन्ते युद्धम् ईदृशम् ॥ २-३२॥
अथ चेत् त्वम् इमं धर्म्यं,
संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च,
हित्वा पापम् अवाप्स्यसि ॥ २-३३॥
अकीर्तिं चापि भूतानि,
कथयिष्यन्ति ते अव्ययाम् ।
सम्भावितस्य च अकीर्तिर्,
मरणाद् अतिरिच्यते ॥ २-३४॥
भयाद् रणाद् उपरतं,
मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो,
भूत्वा यास्यसि लाघवम् ॥ २-३५॥
अवाच्यवादान् च बहून्,
वदिष्यन्ति तव अहिताः ।
निन्दन्त: तव सामर्थ्यं,
ततो दुःखतरं नु किम् ॥ २-३६॥
हतो वा प्राप्स्यसि स्वर्गं,
जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय,
युद्धाय कृतनिश्चयः ॥ २-३७॥
सुखदुःखे समे कृत्वा,
लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व,
नैवं पापम् अवाप्स्यसि ॥ २-३८॥
एषा ते अभिहिता सांख्ये,
बुद्धिर् योगे तु इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ,
कर्म-बन्धं प्रहास्यसि ॥ २-३९॥
न इह अभिक्रमनाश: अस्ति,
प्रत्यवायो न विद्यते ।
स्वल्पम् अपि अस्य धर्मस्य,
त्रायते महतो भयात् ॥ २-४०॥
व्यवसायात्मिका बुद्धिर्,
एका इह कुरु-नन्दन ।
बहुशाखा हि अनन्ताश्च,
बुद्धयो अव्यवसायिनाम् ॥ २-४१॥
याम् इमां पुष्पितां वाचं,
प्रवदंति अविपश्चितः ।
वेदवादरताः पार्थ,
न अन्यद् अस्ति इति वादिनः ॥ २-४२॥
कामात्मानः स्वर्ग-परा,
जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलां,
भोगैश्वर्य-गतिं प्रति ॥ २-४३॥
भोगैश्वर्य-प्रसक्तानां,
तया अपहृत-चेतसाम् ।
व्यवसायात्मिका बुद्धिः,
समाधौ न विधीयते ॥ २-४४॥
त्रैगुण्य-विषया वेदा,
निस्त्रैगुण्यो भव अर्जुन ।
निर्द्वन्द्वो नित्य-सत्त्वस्थो,
निर्योगक्षेम आत्मवान् ॥ २-४५॥
यावान् अर्थ उदपाने,
सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु,
ब्राह्मणस्य विजानतः ॥ २-४६॥
कर्मणि एव अधिकारस् ते,
मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर् भूर्,
मा ते संग: अस्तु अकर्मणि ॥ २-४७॥
योगस्थः कुरु कर्माणि,
सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्य-सिद्ध्योः समो भूत्वा,
समत्वं योग उच्यते ॥ २-४८॥
दूरेण हि अवरं कर्म,
बुद्धियोगाद् धनञ्जय ।
बुद्धौ शरणम् अन्विच्छ,
कृपणाः फल-हेतवः ॥ २-४९॥
बुद्धियुक्तो जहाति इह,
उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व,
योगः कर्मसु कौशलम् ॥ २-५०॥
कर्मजं बुद्धियुक्ता हि,
फलं त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः,
पदं गच्छन्ति अनामयम् ॥ २-५१॥
यदा ते मोह-कलिलं,
बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं,
श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥
श्रुति-विप्रतिपन्ना ते,
यदा स्थास्यति निश्चला ।
समाधौ अचला बुद्धि:,
तदा योगम् अवाप्स्यसि ॥ २-५३॥
अर्जुन उवाच ।
स्थितप्रज्ञस्य का भाषा,
समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत,
किं आसीत व्रजेत किम् ॥ २-५४॥
श्रीभगवानुवाच ।
प्रजहाति यदा कामान्,
सर्वान् पार्थ मनोगतान् ।
आत्मनि एव आत्मना तुष्टः,
स्थितप्रज्ञ: तदा उच्यते ॥ २-५५॥
दुःखेषु अनुद्विग्न-मनाः,
सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः,
स्थितधीर् मुनिर् उच्यते ॥ २-५६॥
यः सर्वत्र अनभिस्नेहस्,
तत् तत् प्राप्य शुभाशुभम् ।
न अभिनन्दति न द्वेष्टि,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥
यदा संहरते च अयं,
कूर्मोअंगानि इव सर्वशः ।
इन्द्रियाणि इन्द्रियार्थेभ्यस्,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥
विषया विनिवर्तन्ते,
निराहारस्य देहिनः ।
रसवर्जं रसो अपि अस्य,
परं दृष्ट्वा निवर्तते ॥ २-५९॥
यततो हि अपि कौन्तेय,
पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि,
हरन्ति प्रसभं मनः ॥ २-६०॥
तानि सर्वाणि संयम्य,
युक्त आसीत मत्परः ।
वशे हि यस्य इन्द्रियाणि,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥
ध्यायतो विषयान् पुंसः,
संगस् तेषु उपजायते ।
सङ्गात् सञ्जायते कामः,
कामात् क्रोधो अभिजायते ॥ २-६२॥
क्रोधाद् भवति सम्मोहः,
सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो,
बुद्धिनाशात् प्रणश्यति ॥ २-६३॥
राग-द्वेष-विमुक्तैस् तु,
विषयान् इन्द्रियैश् चरन् ।
आत्मवश्यैर् विधेयात्मा,
प्रसादम् अधिगच्छति ॥ २-६४॥
प्रसादे सर्वदुःखानां,
हानिर् अस्य उपजायते ।
प्रसन्नचेतसो हि आशु,
बुद्धिः पर्यवतिष्ठते ॥ २-६५॥
नास्ति बुद्धिर् अयुक्तस्य,
न च अयुक्तस्य भावना ।
न च अभावयतः शान्तिर्,
अशान्तस्य कुतः सुखम् ॥ २-६६॥
इन्द्रियाणां हि चरतां,
यन् मनो अनु विधीयते ।
तदस्य हरति प्रज्ञां,
वायुर् नावम् इव अम्भसि ॥ २-६७॥
तस्माद् यस्य महाबाहो,
निगृहीतानि सर्वशः ।
इन्द्रियाणि इन्द्रियार्थेभ्यस्,
तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥
या निशा सर्वभूतानां,
तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि,
सा निशा पश्यतो मुनेः ॥ २-६९॥
आपूर्यमाणम् अचलप्रतिष्ठं
समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे
स शान्तिम् आप्नोति न कामकामी ॥ २-७०॥
विहाय कामान् यः सर्वान्,
पुमान् चरति निःस्पृहः ।
निर्ममो निरहंकारः,
स शान्तिम् अधिगच्छति ॥ २-७१॥
एषा ब्राह्मी स्थितिः पार्थ,
नैनां प्राप्य विमुह्यति ।
स्थित्वा अस्याम् अन्तकालेऽपि,
ब्रह्मनिर्वाणम् ऋच्छति ॥ २-७२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥