अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः
श्रीभगवानुवाच ।
परं भूयः प्रवक्ष्यामि,
ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे,
परां सिद्धिमितो गताः ॥ १४-१॥
इदं ज्ञानमुपाश्रित्य,
मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते,
प्रलये न व्यथन्ति च ॥ १४-२॥
मम योनिर्महद् ब्रह्म,
तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां,
ततो भवति भारत ॥ १४-३॥
सर्वयोनिषु कौन्तेय,
मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिर्,
अहं बीजप्रदः पिता ॥ १४-४॥
सत्त्वं रजस्तम इति,
गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो,
देहे देहिनम् अव्ययम् ॥ १४-५॥
तत्र सत्त्वं निर्मलत्वात्,
प्रकाशकमनामयम् ।
सुखसंगेन बध्नाति,
ज्ञानसंगेन चानघ ॥ १४-६॥
रजो रागात्मकं विद्धि,
तृष्णासङ्गसमुद्भवम् ।
तन् निबध्नाति कौन्तेय,
कर्मसंगेन देहिनम् ॥ १४-७॥
तमस्त्वज्ञानजं विद्धि,
मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्,
तन्निबध्नाति भारत ॥ १४-८॥
सत्त्वं सुखे संजयति,
रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः,
प्रमादे संजयत्युत ॥ १४-९॥
रजस्तमश्चाभिभूय,
सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव,
तमः सत्त्वं रजस्तथा ॥ १४-१०॥
सर्वद्वारेषु देहेऽस्मिन्,
प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्,
विवृद्धं सत्त्वमित्युत ॥ १४-११॥
लोभः प्रवृत्तिरारम्भः,
कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते,
विवृद्धे भरतर्षभ ॥ १४-१२॥
अप्रकाशोऽप्रवृत्तिश्च,
प्रमादो मोह एव च ।
तमस्येतानि जायन्ते,
विवृद्धे कुरुनन्दन ॥ १४-१३॥
यदा सत्त्वे प्रवृद्धे तु,
प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकान्,
अमलान्प्रतिपद्यते ॥ १४-१४॥
रजसि प्रलयं गत्वा,
कर्मसंगिषु जायते ।
तथा प्रलीनस्तमसि,
मूढयोनिषु जायते ॥ १४-१५॥
कर्मणः सुकृतस्याहुः,
सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखम्,
अज्ञानं तमसः फलम् ॥ १४-१६॥
सत्त्वात्सञ्जायते ज्ञानं,
रजसो लोभ एव च ।
प्रमादमोहौ तमसो,
भवतोऽज्ञानमेव च ॥ १४-१७॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था,
मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था,
अधो गच्छन्ति तामसाः ॥ १४-१८॥
नान्यं गुणेभ्यः कर्तारं,
यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति,
मद्भावं सोऽधिगच्छति ॥ १४-१९॥
गुणानेतानतीत्य त्रीन्,
देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्,
विमुक्तोऽमृतमश्नुते ॥ १४-२०॥
अर्जुन उवाच ।
कैर्लिङ्गैस्त्रीन्गुणानेतान्,
अतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्,
त्रीन्गुणानतिवर्तते ॥ १४-२१॥
श्रीभगवानुवाच ।
प्रकाशं च प्रवृत्तिं च,
मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न,
निवृत्तानि काङ्क्षति ॥ १४-२२॥
उदासीनवदासीनो,
गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येवं,
योऽवतिष्ठति नेङ्गते ॥ १४-२३॥
समदुःखसुखः स्वस्थः,
समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्,
तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४॥
मानापमानयोस्तुल्यस्,
तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी,
गुणातीतः स उच्यते ॥ १४-२५॥
मां च योऽव्यभिचारेण,
भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्,
ब्रह्मभूयाय कल्पते ॥ १४-२६॥
ब्रह्मणो हि प्रतिष्ठाहम्,
अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य,
सुखस्यैकान्तिकस्य च ॥ १४-२७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥