अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच ।
प्रकृतिं पुरुषं चैव,
क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि,
ज्ञानं ज्ञेयं च केशव ॥ १३-१॥
श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय,
क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः,
क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥
क्षेत्रज्ञं चापि मां विद्धि,
सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं,
यत्तज्ज्ञानं मतं मम ॥ १३-३॥
तत्क्षेत्रं यच्च यादृक्च,
यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च,
तत्समासेन मे शृणु ॥ १३-४॥
ऋषिभिर्बहुधा गीतं,
छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव,
हेतुमद्भिर्विनिश्चितैः ॥ १३-५॥
महाभूतान्यहङ्कारो,
बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च,
पञ्च चेन्द्रियगोचराः ॥ १३-६॥
इच्छा द्वेषः सुखं दुःखं,
सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन,
सविकारमुदाहृतम् ॥ १३-७॥
अमानित्वमदम्भित्वम्,
अहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं,
स्थैर्यमात्मविनिग्रहः ॥ १३-८॥
इन्द्रियार्थेषु वैराग्यम्,
अनहङ्कार एव च ।
जन्ममृत्युजराव्याधि,
-दुःखदोषानुदर्शनम् ॥ १३-९॥
असक्तिरनभिष्वङ्गः,
पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वम्,
इष्टानिष्टोपपत्तिषु ॥ १३-१०॥
मयि चानन्ययोगेन,
भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वम्,
अरतिर्जनसंसदि ॥ १३-११॥
अध्यात्मज्ञाननित्यत्वं,
तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तम्,
अज्ञानं यदतोऽन्यथा ॥ १३-१२॥
ज्ञेयं यत्तत्प्रवक्ष्यामि,
यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म,
न सत्तन्नासदुच्यते ॥ १३-१३॥
सर्वतः पाणिपादं तत्,
सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके,
सर्वमावृत्य तिष्ठति ॥ १३-१४॥
सर्वेन्द्रियगुणाभासं,
सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव,
निर्गुणं गुणभोक्तृ च ॥ १३-१५॥
बहिरन्तश्च भूतानाम्,
अचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं,
दूरस्थं चान्तिके च तत् ॥ १३-१६॥
अविभक्तं च भूतेषु,
विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं,
ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥
ज्योतिषामपि तज्ज्योतिस्,
तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं,
हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥
इति क्षेत्रं तथा ज्ञानं,
ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय,
मद्भावायोपपद्यते ॥ १३-१९॥
प्रकृतिं पुरुषं चैव,
विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव,
विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥
कार्यकारणकर्तृत्वे,
हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां,
भोक्तृत्वे हेतुरुच्यते ॥ १३-२१॥
पुरुषः प्रकृतिस्थो हि,
भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य,
सदसद्योनिजन्मसु ॥ १३-२२॥
उपद्रष्टानुमन्ता च,
भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो,
देहेऽस्मिन्पुरुषः परः ॥ १३-२३॥
य एवं वेत्ति पुरुषं,
प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि,
न स भूयोऽभिजायते ॥ १३-२४॥
ध्यानेनात्मनि पश्यन्ति,
केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन,
कर्मयोगेन चापरे ॥ १३-२५॥
अन्ये त्वेवमजानन्तः,
श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव,
मृत्युं श्रुतिपरायणाः ॥ १३-२६॥
यावत्सञ्जायते किञ्चित्,
सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्,
तद्विद्धि भरतर्षभ ॥ १३-२७॥
समं सर्वेषु भूतेषु,
तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं,
यः पश्यति स पश्यति ॥ १३-२८॥
समं पश्यन्हि सर्वत्र,
समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं,
ततो याति परां गतिम् ॥ १३-२९॥
प्रकृत्यैव च कर्माणि,
क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम्,
अकर्तारं स पश्यति ॥ १३-३०॥
यदा भूतपृथग्भावम्,
एकस्थमनुपश्यति ।
तत एव च विस्तारं,
ब्रह्म सम्पद्यते तदा ॥ १३-३१॥
अनादित्वान्निर्गुणत्वात्,
परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय,
न करोति न लिप्यते ॥ १३-३२॥
यथा सर्वगतं सौक्ष्म्याद्,
आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे,
तथात्मा नोपलिप्यते ॥ १३-३३॥
यथा प्रकाशयत्येकः,
कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं,
प्रकाशयति भारत ॥ १३-३४॥
क्षेत्रक्षेत्रज्ञयोरेवम्,
अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च,
ये विदुर्यान्ति ते परम् ॥ १३-३५॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥