विष्णु सहस्रनाम (संधि समास विग्रह)
विष्णु सहस्रनाम (संधि समास विग्रह)
शुक्ल-अम्बर-धरं विष्णुं,
शशि-वर्णं चतुर्-भुजम् ।
प्रसन्न-वदनं ध्यायेत्,
सर्व-विघ्न-उपशान्तये॥
यस्य स्मरण-मात्रेण,
जन्म-संसार-बन्धनात् ।
विमुच्यते नमः तस्मै,
विष्णवे प्रभविष्णवे ॥॥
ॐ शान्त-आकारं
भुजग-शयनं,
पद्म-नाभं सुरेशं
विश्व-आधारं गगन-सदृशं,
मेघ-वर्णं शुभ-अङ्गम् ।
लक्ष्मी-कान्तं कमल-नयनं,
योगिभिर्ध्यान- गम्यं वन्दे
विष्णुं भव-भय-हरं,
सर्व-लोक-एकनाथम् ॥
अथ स्तोत्रम्। हरिः ॐ ।
विश्वं विष्णुर् वषट्कारो,
भूत-भव्य-भवत्-प्रभुः'
भूतकृत् भूतभृत् भावो,
भूतात्मा भूत-भावनः ॥ १॥
पूतात्मा परमात्मा च,
मुक्तानां-परमा-गतिः ।
अव्ययः पुरुषः साक्षी,
क्षेत्रज्ञ: अक्षर एव च ॥ २॥
योगो योगविदां-नेता,
प्रधान-पुरुषेश्वरः ॥
नारसिंह-वपुः श्रीमान्,
केशवः पुरुषोत्तमः ॥ ३॥
सर्वः शर्वः शिवः स्थाणुर्,
भूतादिर् निधिर्-अव्ययः ।
सम्भवो भावनो भर्ता,
प्रभवः प्रभुर् ईश्वरः ॥ ४॥
स्वयम्भूः शम्भुर् आदित्यः,
पुष्कराक्षो महा-स्वनः ।
अनादि-निधनो धाता,
विधाता धातुर् उत्तमः ॥ ५॥
अप्रमेयो हृषीकेशः,
पद्मनाभः अमरप्रभुः ।
विश्वकर्मा मनुः त्वष्टा,
स्थविष्ठः स्थविरः ध्रुवः ॥ ६॥
अग्राह्यः शाश्वतः कृष्णो,
लोहित-अक्षः प्रतर्दनः ।
प्रभूत: त्रि-ककुब्-धाम,
पवित्रं मङ्गलं-परम् ॥ ७॥
ईशानः प्राणदः प्राणो,
ज्येष्ठः श्रेष्ठः प्रजापतिः |
हिरण्य-गर्भो भू-गर्भो,
माधवो मधु-सूदनः ॥ ८॥
ईश्वरो विक्रमी धन्वी,
मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः,
कृतज्ञः कृतिर् आत्मवान् ॥ ९॥
सुरेशः शरणं शर्म,
विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः,
प्रत्ययः सर्वदर्शनः ॥ १०॥
अजः सर्वेश्वरः सिद्धः,
सिद्धिः सर्वादि: अच्युतः |
वृषाकपिः अमेयात्मा,
सर्वयोग-विनिःसृतः ॥ ११॥
वसुर्वसुमनाः सत्यः,
समात्मा सम्मितः समः ।
अमोघः पुण्डरीकाक्षो,
वृषकर्मा वृष-आकृतिः ॥ १२॥
रुद्रो बहुशिरा बभ्रुर्,
विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत-स्थाणुर्,
वरारोहो महातपाः ॥ १३॥
सर्वगः सर्ववित्-भानुर्,
विष्वक्सेनो जनार्दनः ।
वेदो वेदवित् अव्यङ्गो,
वेदाङ्गो वेदवित् कविः ॥ १४॥
लोकाध्यक्षः सुराध्यक्षो,
धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहः,
चतुर्दंष्ट्रः चतुर्भुजः ॥ १५॥
भ्राजिष्णुर् भोजनं भोक्ता,
सहिष्णुर् जगदादिजः ।
अनघो विजयो जेता,
विश्वयोनिः पुनर्वसुः ॥ १६॥
उपेन्द्रो वामनः प्रांशुर्,
अमोघः शुचिर् उर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो,
धृतात्मा नियमो यमः ॥ १७॥
वेद्यो वैद्यः सदायोगी,
वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो,
महोत्साहो महाबलः ॥ १८॥
महाबुद्धिर् महावीर्यो,
महाशक्तिर् महाद्युतिः ।
अनिर्देश्य-वपुः श्रीमान्,
अमेयात्मा महाद्रिधृक् ॥ १९॥
महेष्वासो महीभर्ता
श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो,
गोविन्दो गोविदां-पतिः ॥ २०॥
मरीचिर् दमनो हंसः,
सुपर्णो भुजग-उत्तमः ।
हिरण्य-नाभः सुतपाः,
पद्मनाभः प्रजापतिः ॥ २१॥
अमृत्युः सर्वदृक् सिंहः,
सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता,
विश्रुत-आत्मा सुरारिहा ॥ २२॥
गुरुर् गुरुतमो धाम,
सत्यः सत्य-पराक्रमः ।
निमिष: अनिमिषः स्रग्वी,
वाचस्पति:-उदारधीः ॥ २३॥
अग्रणीर् ग्रामणीः श्रीमान्,
न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा,
सहस्राक्षः सहस्रपात् ॥ २४॥
आवर्तनो निवृत्तात्मा,
संवृतः सम्प्रमर्दनः ।
अहः-संवर्तको वह्निर्,
अनिलो धरणी-धरः ॥ २५॥
सुप्रसादः प्रसन्नात्मा,
विश्वधृग् विश्वभुग् विभुः ।
सत्कर्ता सत्कृतः साधुर्,
जह्नुर् नारायणो नरः ॥ २६॥
असङ्ख्येयः अप्रमेयात्मा,
विशिष्टः शिष्टकृत् शुचिः
सिद्धार्थः सिद्धसङ्कल्पः,
सिद्धिदः सिद्धिसाधनः ॥ २७॥
वृषाही वृषभो विष्णुः,
वृषपर्वा वृषोदरः २६०।
वर्धनो वर्धमानः च,
विविक्तः श्रुतिसागरः ॥ २८॥
सुभुजो दुर्धरो वाग्मी,
महेन्द्रो वसुदो वसुः
न-एक-रूपो बृहद्-रूपः,
शिपिविष्टः प्रकाशनः ॥ २९॥
ओजः-तेजो-द्युतिधरः,
प्रकाश-आत्मा प्रतापनः २७७॥
ऋद्धः स्पष्ट-अक्षरो मन्त्रश्,
चन्द्रांशुर् भास्कर-द्युतिः ॥ ३०॥
अमृतांशु-उद्भवो भानुः,
शशबिन्दुः सुरेश्वरः ।
औषधं जगतः-सेतुः,
सत्य-धर्म-पराक्रमः ॥ ३१॥
भूत-भव्य-भवन्-नाथः,
पवनः पावनः अनलः ।
कामहा कामकृत् कान्तः,
कामः कामप्रदः प्रभुः ॥ ३२॥
युगादिकृत् युगावर्तो,
न-एक-मायो महाशनः ।
अदृश्यो व्यक्तरूप: च,
सहस्रजित् अनन्तजित् ॥ ३३॥
इष्ट: अविशिष्टः शिष्टेष्टः,
शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्-कर्ता,
विश्वबाहुर् महीधरः ३४॥
अच्युतः प्रथितः प्राणः,
प्राणदो वासवानुजः ।
अपां-निधिर् अधिष्ठानम्,
अप्रमत्तः प्रतिष्ठितः ॥ ३५॥
स्कन्दः स्कन्दधरो,
धुर्यो वरदो वायु-वाहनः ।
वासुदेवो बृहत्-भानुर्,
आदिदेवः पुरन्दरः ॥ ३६॥
अशोकः तारण: तारः,
शूरः शौरिर् जनेश्वरः ।
अनुकूलः शतावर्तः,
पद्मी पद्मनिभेक्षणः ॥ ३७॥
पद्मनाभ: अरविन्दाक्षः,
पद्मगर्भः शरीरभृत् ।
महर्द्धिर् ऋद्धो वृद्धात्मा,
महाक्षो गरुडध्वजः ॥ ३८॥
अतुलः शरभो भीमः,
समयज्ञो हविर्-हरिः ।
सर्व-लक्षण-लक्षण्यो,
लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
विक्षरो रोहितो मार्गो,
हेतुर् दामोदरः सहः ।
महीधरो महाभागो,
वेगवान अमिताशनः ॥ ४०॥
उद्भवः क्षोभणो देवः,
श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता,
विकर्ता गहनो गुहः ॥ ४१॥
व्यवसायो व्यवस्थानः,
संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टः,
तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
रामो विरामो विरजो,
मार्गो नेयो नयः अनयः ।
वीरः शक्तिमतां-श्रेष्ठो,
धर्मो धर्मवित्-उत्तमः ॥ ४३॥
वैकुण्ठः पुरुषः प्राणः,
प्राणदः प्रणवः पृथुः
हिरण्य-गर्भः शत्रुघ्नो,
व्याप्तो वायुर् अधोक्षजः ॥ ४४॥
ऋतुः सुदर्शनः कालः,
परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो,
विश्रामो विश्व-दक्षिण: ॥ ४५॥
विस्तारः स्थावरस्थाणुः,
प्रमाणं बीजम्-अव्ययम् ।
अर्थ: अनर्थो महाकोशो,
महाभोगो महाधनः ॥ ४६ ॥
अनिर्विण्णः स्थविष्ठः अभूरू,
धर्मयूपो महामखः ।
नक्षत्र-नेमिर् नक्षत्री,
क्षमः क्षामः समीहनः ॥ ४७॥
यज्ञ इज्यो महेज्यः च,
क्रतुः सत्रं सतां-गतिः ।
सर्वदर्शी विमुक्तात्मा,
सर्वज्ञो ज्ञानम्-उत्तमम् ॥ ४८॥
सुव्रतः सुमुखः सूक्ष्मः,
सुघोषः सुखदः सुहृत् ।
मनोहरो जित-क्रोधो,
वीरबाहुर् विदारणः ॥ ४९ ॥
स्वापनः स्ववशो व्यापी,
नैकात्मा नैक-कर्मकृत् ।
वत्सरो वत्सलो वत्सी,
रत्नगर्भो धनेश्वरः ॥ ५० ॥
धर्मगुप् धर्मकृत् धर्मी,
सत् असत् क्षरम् अक्षरम् ।
अविज्ञाता सहस्रांशुर्,
विधाता कृत-लक्षणः -लक्षणः ॥ ५१॥
गभस्ति-नेमिः सत्त्वस्थः,
सिंहो भूत- महेश्वरः |
आदिदेवो महादेवो,
देवेशो देवभृत्-गुरुः ॥ ५२॥
उत्तरो गोपतिर् गोप्ता,
ज्ञान-गम्यः पुरातनः ।
शरीर-भूत-भृत् भोक्ता,
कपीन्द्रो भूरि-दक्षिणः ॥ ५३॥
सोमप: अमृतपः सोमः,
पुरुजित् पुरु-सत्तमः ।
विनयो जयः सत्य-सन्धो,
दाशार्हः सात्वताम्-पतिः ॥ ५४॥
जीवो विनयिता-साक्षी,
मुकुन्दः अमित-विक्रमः ।
अम्भो-निधिर अनन्तात्मा,
महोदधिशयः अन्तकः ॥ ५५॥
अजो महार्हः स्वाभाव्यो,
जितामित्रः प्रमोदनः ॥
आनन्दो नन्दनो नन्दः,
सत्यधर्मा त्रिविक्रमः ॥ ५६॥
महर्षिः-कपिलाचार्यः,
कृतज्ञो मेदिनी-पतिः ।
त्रिपद: त्रिदशाध्यक्षो,
महा-शृङ्गः कृतान्त-कृत् ॥ ५७॥
महावराहो गोविन्दः,
सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो,
गुप्त: चक्रगदाधरः ॥ ५८॥
वेधाः स्वाङ्ग: अजितः कृष्णो,
दृढः संकर्षण:-अच्युतः ॥
वरुणो वारुणो वृक्षः,
पुष्कराक्षो महामनाः ॥ ५९॥
भगवान् भगहा आनन्दी,
वनमाली हलायुधः ।
आदित्यो ज्योतिर्-आदित्यः,
सहिष्णुर् गतिसत्तमः ॥ ६०॥
सुधन्वा खण्डपरशुर्,
दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृक्-व्यासो,
वाचस्पतिर्-अयोनिजः ॥ ६१॥
त्रिसामा सामगः साम,
निर्वाणं भेषजं भिषक् ।
संन्यासकृत् शमः शान्तो,
निष्ठा शान्तिः परायणम्' ॥ ६२॥
शुभाङ्गः शान्तिदः स्रष्टा,
कुमुदः कुवलेशयः ।
गोहितो गोपतिर् गोप्ता,
वृषभाक्षो वृषप्रियः ॥ ६३॥
अनिवर्ती निवृत्तात्मा,
संक्षेप्ता क्षेमकृत् शिवः ।
श्रीवत्सवक्षाः श्रीवासः,
श्रीपतिः श्रीमताम्-वरः ॥ ६४॥
श्रीदः श्रीशः श्रीनिवासः,
श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः,
श्रीमान् लोकत्रय - आश्रयः ॥ ६५॥
स्वक्षः स्वङ्गः शतानन्दो,
नन्दिर् ज्योतिर्-गणेश्वरः |
विजितात्मा अविधेयात्मा,
सत्कीर्ति: छिन्नसंशयः ॥ ६६॥
उदीर्णः सर्वतः-चक्षुर्,
अनीशः शाश्वत-स्थिरः ।
भूयोभूषणो भूति,
विशोकः शोक-नाशनः ॥ ६७॥
अर्चिष्मान् अर्चितः कुम्भो,
विशुद्धात्म विशोधनः ॥
अनिरुद्धः अप्रतिरथः,
प्रद्युम्नः अमित- विक्रमः ॥ ६८॥
कालनेमि-निहा वीरः,
शौरिः शूर-जनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः,
केशवः केशिहा हरिः ॥ ६९॥
कामदेवः कामपालः,
कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर विष्णुर्,
वीरः अनन्तो धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा,
ब्रह्म ब्रह्म-विवर्धनः ।
ब्रह्म-विद् ब्राह्मणो ब्रह्मी,
ब्रह्मज्ञो ब्राह्मण-प्रियः ॥ ७१॥
महाक्रमो महाकर्मा,
महातेजा महोरगः ।
महाक्रतुर् महायज्वा,
महायज्ञो महाहविः ॥ ७२॥
स्तव्यः स्तवप्रियः स्तोत्रं,
स्तुतिः स्तोता रणप्रियः |
पूर्णः पूरयिता पुण्यः,
पुण्यकीर्तिर् अनामयः ॥ ७३॥
मनोजव: तीर्थकरो,
वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो,
वसुर्वसुमना हविः ॥ ७४॥
सद्गतिः सत्कृतिः सत्ता,
सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः,
सन्निवासः सुयामुनः ॥ ७५॥
भूतावासो वासुदेवः,
सर्वासु-निलयः अनलः ।
दर्पहा दर्पदो दृप्तो,
दुर्धर: अथ अपराजितः ॥ ७६॥
विश्वमूर्तिर् महामूर्तिर्,
दीप्तमूर्तिर् अमूर्तिमान् ।
अनेकमूर्तिर् अव्यक्तः,
शतमूर्तिः शताननः || ७७||
एको नैकः सवः कः,
किं यत् तत् पदम्-अनुत्तमम् |
लोक-बन्धुर् लोकनाथो,
माधवो भक्त-वत्सलः ॥ ७८॥
सुवर्णवर्णो हेमाङ्गो,
वराङ्ग: चन्दनाङ्गदी ।
वीरहा विषमः शून्यो,
घृताशीर् अचल: चलः ॥ ७९॥
अमानी मानदो मान्यो,
लोक-स्वामी त्रिलोक-धृक् ।
सुमेधा मेधजो धन्यः,
सत्यमेधा धराधरः ॥ ८०॥
तेजोवृषो द्युतिधरः,
सर्व-शस्त्र-भृतां-वरः ।
प्रग्रहो निग्रहो व्यग्रो,
नैक-शृङ्गो गदाग्रजः ॥ ८१ ॥
चतुर्मूर्तिः चतुर्बाहुः,
चतुर्व्यूहः चतुर्गतिः ।
चतुरात्मा चतुर्भावः,
चतुर्वेदवित् एकपात् ॥ ८२॥
समावर्त: अनिवृत्तात्मा,
दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो,
दुरावासो दुरारिहा ॥ ८३ ॥
शुभाङ्गो लोक-सारङ्गः,
सुतन्तुः तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा,
कृतकर्मा कृतागमः ॥ ८४॥
उद्भवः सुन्दरः सुन्दो,
रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी,
जयन्तः सर्ववित्-जयी ॥ ८५॥
सुवर्ण-बिन्दुर् अक्षोभ्यः,
सर्व-वागीश्वर-ईश्वरः |
महाह्रदो महागर्तो,
महाभूतो महानिधिः ॥ ८६॥
कुमुदः कुन्दरः कुन्दः,
पर्जन्यः पावनः अनिलः |
अमृताश: अमृतवपुः,
सर्वज्ञः सर्वतोमुखः ॥ ८७॥
सुलभः सुव्रतः सिद्धः,
शत्रुजित् शत्रुतापनः ।
न्यग्रोध उदुम्बर: अश्वत्थ:,
चाणूर-आन्ध्र-निषूदनः ॥ ८८॥
सहस्रार्चिः सप्तजिह्वः,
सप्तैधाः सप्तवाहनः |
अमूर्तिर् अनघ: अचिन्त्यो,
भयकृत् भयनाशनः ॥ ८९॥
अणुर् बृहत् कृशः स्थूलो,
गुणभृत् निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः,
प्राग्वंशो वंशवर्धनः ॥ ९०॥
भारभृत् कथितो योगी,
योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः,
सुपर्णो वायुवाहनः ॥ ९१॥
धनुर्धरो धनुर्वेदो,
दण्डो दमयिता दमः ।
अपराजितः सर्वसहो,
नियन्ता अनियम: अयमः ॥ ९२॥
सत्त्ववान् सात्त्विकः सत्यः,
सत्य-धर्म-परायणः ।
अभिप्रायः प्रियार्हः अर्हः,
प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
विहायसगतिर् ज्योतिः,
सुरुचिर् हुतभुग् विभुः ।
रविर् विरोचनः सूर्यः,
सविता रवि-लोचनः ॥ ९४॥
अनन्तो हुतभुक् भोक्ता,
सुखदो नैकज: अग्रजः ।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठानम् अद्भुतः ॥ ९५॥
सनात् सनातन-तमः,
कपिलः कपिर अव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ती,
स्वस्तिभुक् स्वस्तिदक्षिणः ॥९६॥
अरौद्रः कुण्डली चक्री,
विक्रमी उर्जितशासनः ।
शब्दातिगः शब्दसहः,
शिशिरः शर्वरीकर: ॥ ९७||
अक्रूरः पेशलो दक्षो,
दक्षिणः क्षमिणाम्-वरः ।
विद्वत्तमो वीतभयः,
पुण्य-श्रवण-कीर्तनः ॥ ९८॥
उत्तारणो दुष्कृतिहा,
पुण्यो दुःस्वप्न-नाशनः ।
वीरहा रक्षणः सन्तो,
जीवनः पर्यवस्थितः ॥ ९९॥
अनन्तरूप: अनन्तश्रीः,
जितमन्युर् भयापहः ॥
चतुरश्रो गभीरात्मा,
विदिशो व्यादिशो दिशः ॥ १००॥
अनादिर् भूर्भुवो लक्ष्मीः,
सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर,
भीमो भीमपराक्रमः ॥ १०१ ॥
आधारनिलय: अधाता,
पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः,
प्राणदः प्रणवः पणः ॥ १०२॥
प्रमाणं प्राणनिलयः,
प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्ववित् एकात्मा,
जन्म-मृत्यु-जरातिगः ॥ १०३॥
भूर्भुवः -स्वः-तरुः तारः,
सविता प्रपितामहः ।
यज्ञो यज्ञपतिर् यज्वा,
यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभृद् यज्ञकृद् यज्ञी,
यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यम्,
अन्नम् अन्नाद एव च ॥ १०५ ॥
आत्मयोनिः स्वयञ्जातो,
वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा,
क्षितीशः पापनाशनः ॥ १०६ ॥
शङ्खभृत् नन्दकी चक्री,
शाङ्गधन्वा गदाधरः |
रथाङ्गपाणिर् अक्षोभ्यः,
सर्वप्रहरणायुधः ॥ १०७॥
सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शाङ्गी
शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो
विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
॥ हरिः ॐ तत्सत् ॥