विष्णु सूक्तम्
विष्णु सूक्तम्
हरिः ॐ
अतोदेवा अवंतुनो
यतो विष्णुर्विचक्रमे।
पृथिव्याः सप्तधामभिः ।
इदं विष्णुर्विचक्रमे
त्रेधानिदधेपदं ।
समूह्ळमस्यपांसुरे ।
त्रीणिपदा विचक्रमे
विष्णुर्गोपाऽअदाभ्यः ।
अतोधर्माणि धारयन् ।
विष्णोःकर्माणि पश्यत
यतोव्रता निपस्पशे।
इंद्रस्ययुज्यःसखा।
तद्विष्णोःपरमंपदं
सदापश्यंति सूरयः ।
दिवीवचक्षुराततं ।
तद्विप्रासोविपन्यवो
जागृवांसः समिंधते।
विष्णोर्यत्परमंपदं ।
देवस्यत्वा सवितुःप्रसवे
श्विनोर्बाहुभ्यां पूष्णोहस्ताभ्याम्
अग्नेस्तेजसा सूर्यस्य
वर्चसेंद्रस्येंद्रियेणा भिषिंचामि ।
बलायश्रियैय यशसेन्नाद्याया ।
।। ॐ भूर्भुवःस्वः अमृताभिषेकोऽस्तु
शांतिः पुष्टिस्तुष्टिश्र्वास्तु ॥
(हे विष्णु सूक्त अभिषेकात सर्वात शेवटी म्हणण्याची पध्दत आहे)