अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः
अर्जुन उवाच ।
संन्यासस्य महाबाहो,
तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश,
पृथक्केशिनिषूदन ॥ १८-१॥
श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं,
संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं,
प्राहुस्त्यागं विचक्षणाः ॥ १८-२॥
त्याज्यं दोषवदित्येके,
कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म,
न त्याज्यमिति चापरे ॥ १८-३॥
निश्चयं शृणु मे तत्र,
त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र,
त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥
यज्ञदानतपःकर्म,
न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव,
पावनानि मनीषिणाम् ॥ १८-५॥
एतान्यपि तु कर्माणि,
सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ,
निश्चितं मतमुत्तमम् ॥ १८-६॥
नियतस्य तु संन्यासः,
कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्,
तामसः परिकीर्तितः ॥ १८-७॥
दुःखमित्येव यत्कर्म,
कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं,
नैव त्यागफलं लभेत् ॥ १८-८॥
कार्यमित्येव यत्कर्म,
नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव,
स त्यागः सात्त्विको मतः ॥ १८-९॥
न द्वेष्ट्यकुशलं कर्म,
कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो,
मेधावी छिन्नसंशयः ॥ १८-१०॥
न हि देहभृता शक्यं,
त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी,
स त्यागीत्यभिधीयते ॥ १८-११॥
अनिष्टमिष्टं मिश्रं च,
त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य,
न तु संन्यासिनां क्वचित् ॥ १८-१२॥
पञ्चैतानि महाबाहो,
कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि,
सिद्धये सर्वकर्मणाम् ॥ १८-१३॥
अधिष्ठानं तथा कर्ता,
करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा,
दैवं चैवात्र पञ्चमम् ॥ १८-१४॥
शरीरवाङ्मनोभिर्यत्,
कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा,
पञ्चैते तस्य हेतवः ॥ १८-१५॥
तत्रैवं सति कर्तारम्,
आत्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्,
न स पश्यति दुर्मतिः ॥ १८-१६॥
यस्य नाहङ्कृतो भावो,
बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमांल्लोकान्,
न हन्ति न निबध्यते ॥ १८-१७॥
ज्ञानं ज्ञेयं परिज्ञाता,
त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति,
त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८॥
ज्ञानं कर्म च कर्ता च,
त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने,
यथावच्छृणु तान्यपि ॥ १८-१९॥
सर्वभूतेषु येनैकं,
भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु,
तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२०॥
पृथक्त्वेन तु यज्ज्ञानं,
नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु,
तज्ज्ञानं विद्धि राजसम् ॥ १८-२१॥
यत्तु कृत्स्नवदेकस्मिन्,
कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च,
तत्तामसमुदाहृतम् ॥ १८-२२॥
नियतं सङ्गरहितम्,
अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म,
यत्तत्सात्त्विकमुच्यते ॥ १८-२३॥
यत्तु कामेप्सुना कर्म,
साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं,
तद्राजसमुदाहृतम् ॥ १८-२४॥
अनुबन्धं क्षयं हिंसाम्,
अनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म,
यत्तत्तामसमुच्यते ॥ १८-२५॥
मुक्तसङ्गोऽनहंवादी,
धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः,
कर्ता सात्त्विक उच्यते ॥ १८-२६॥
रागी कर्मफलप्रेप्सुर्,
लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता,
राजसः परिकीर्तितः ॥ १८-२७॥
अयुक्तः प्राकृतः स्तब्धः,
शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च,
कर्ता तामस उच्यते ॥ १८-२८॥
बुद्धेर्भेदं धृतेश्चैव,
गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण,
पृथक्त्वेन धनञ्जय ॥ १८-२९॥
प्रवृत्तिं च निवृत्तिं च,
कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति,
बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥
यया धर्ममधर्मं च,
कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति,
बुद्धिः सा पार्थ राजसी ॥ १८-३१॥
अधर्मं धर्ममिति या,
मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च,
बुद्धिः सा पार्थ तामसी ॥ १८-३२॥
धृत्या यया धारयते,
मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या,
धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥
यया तु धर्मकामार्थान्,
धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी,
धृतिः सा पार्थ राजसी ॥ १८-३४॥
यया स्वप्नं भयं शोकं,
विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा,
धृतिः सा पार्थ तामसी ॥ १८-३५॥
सुखं त्विदानीं त्रिविधं,
शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र,
दुःखान्तं च निगच्छति ॥ १८-३६॥
यत्तदग्रे विषमिव,
परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तम्,
आत्मबुद्धिप्रसादजम् ॥ १८-३७॥
विषयेन्द्रियसंयोगाद्,
यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव,
तत्सुखं राजसं स्मृतम् ॥ १८-३८॥
यदग्रे चानुबन्धे च,
सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं,
तत्तामसमुदाहृतम् ॥ १८-३९॥
न तदस्ति पृथिव्यां वा,
दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं,
यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४०॥
ब्राह्मणक्षत्रियविशां,
शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि,
स्वभावप्रभवैर्गुणैः ॥ १८-४१॥
शमो दमस्तपः शौचं,
क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं,
ब्रह्मकर्म स्वभावजम् ॥ १८-४२॥
शौर्यं तेजो धृतिर्दाक्ष्यं,
युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च,
क्षात्रं कर्म स्वभावजम् ॥ १८-४३॥
कृषिगौरक्ष्यवाणिज्यं,
वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म,
शूद्रस्यापि स्वभावजम् ॥ १८-४४॥
स्वे स्वे कर्मण्यभिरतः,
संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं,
यथा विन्दति तच्छृणु ॥ १८-४५॥
यतः प्रवृत्तिर्भूतानां,
येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य,
सिद्धिं विन्दति मानवः ॥ १८-४६॥
श्रेयान्स्वधर्मो विगुणः,
परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म,
कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७॥
सहजं कर्म कौन्तेय,
सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण,
धूमेनाग्निरिवावृताः ॥ १८-४८॥
असक्तबुद्धिः सर्वत्र,
जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां,
संन्यासेनाधिगच्छति ॥ १८-४९॥
सिद्धिं प्राप्तो यथा ब्रह्म,
तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय,
निष्ठा ज्ञानस्य या परा ॥ १८-५०॥
बुद्ध्या विशुद्धया युक्तो,
धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा,
रागद्वेषौ व्युदस्य च ॥ १८-५१॥
विविक्तसेवी लघ्वाशी,
यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं,
वैराग्यं समुपाश्रितः ॥ १८-५२॥
अहङ्कारं बलं दर्पं,
कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो,
ब्रह्मभूयाय कल्पते ॥ १८-५३॥
ब्रह्मभूतः प्रसन्नात्मा,
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु,
मद्भक्तिं लभते पराम् ॥ १८-५४॥
भक्त्या मामभिजानाति,
यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा,
विशते तदनन्तरम् ॥ १८-५५॥
सर्वकर्माण्यपि सदा,
कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति,
शाश्वतं पदमव्ययम् ॥ १८-५६॥
चेतसा सर्वकर्माणि,
मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य,
मच्चित्तः सततं भव ॥ १८-५७॥
मच्चित्तः सर्वदुर्गाणि,
मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्,
न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥
यदहङ्कारमाश्रित्य,
न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते,
प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९॥
स्वभावजेन कौन्तेय,
निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्,
करिष्यस्यवशोऽपि तत् ॥ १८-६०॥
ईश्वरः सर्वभूतानां,
हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि,
यन्त्रारूढानि मायया ॥ १८-६१॥
तमेव शरणं गच्छ,
सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं,
स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२॥
इति ते ज्ञानमाख्यातं,
गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण,
यथेच्छसि तथा कुरु ॥ १८-६३॥
सर्वगुह्यतमं भूयः,
शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति,
ततो वक्ष्यामि ते हितम् ॥ १८-६४॥
मन्मना भव मद्भक्तो,
मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते,
प्रतिजाने प्रियोऽसि मे ॥ १८-६५॥
सर्वधर्मान्परित्यज्य,
मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो,
मोक्षयिष्यामि मा शुचः ॥ १८-६६॥
इदं ते नातपस्काय,
नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं,
न च मां योऽभ्यसूयति ॥ १८-६७॥
य इदं परमं गुह्यं,
मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा,
मामेवैष्यत्यसंशयः ॥ १८-६८॥
न च तस्मान्मनुष्येषु,
कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्माद्,
अन्यः प्रियतरो भुवि ॥ १८-६९॥
अध्येष्यते च य इमं,
धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहम्,
इष्टः स्यामिति मे मतिः ॥ १८-७०॥
श्रद्धावाननसूयश्च,
शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान्,
प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१॥
कच्चिदेतच्छ्रुतं पार्थ,
त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः,
प्रनष्टस्ते धनञ्जय ॥ १८-७२॥
अर्जुन उवाच ।
नष्टो मोहः स्मृतिर्लब्धा,
त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः,
करिष्ये वचनं तव ॥ १८-७३॥
सञ्जय उवाच ।
इत्यहं वासुदेवस्य,
पार्थस्य च महात्मनः ।
संवादमिममश्रौषम्,
अद्भुतं रोमहर्षणम् ॥ १८-७४॥
व्यासप्रसादाच्छ्रुतवान्,
एतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्,
साक्षात्कथयतः स्वयम् ॥ १८-७५॥
राजन्संस्मृत्य संस्मृत्य,
संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं,
हृष्यामि च मुहुर्मुहुः ॥ १८-७६॥
तच्च संस्मृत्य संस्मृत्य,
रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्,
हृष्यामि च पुनः पुनः ॥ १८-७७॥
यत्र योगेश्वरः कृष्णो,
यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्,
ध्रुवा नीतिर्मतिर्मम ॥ १८-७८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८॥