पुरुष सुक्तम्
पुरुष सुक्तम्
हरिः ॐ ॥
सहस्रशीर्षा पुरुषः
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा
त्यतिष्ठद्दशांगुलम् ॥१॥
पुरुष एवेदं सर्वं
यद्भूतं यच्च भव्यम्।
उतामृतत्वस्येशानो
यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमा
तो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि
त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व उदैत्पूरुषः
पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ्
व्यक्रामत्साशनानशने अभि ॥४॥
तस्माद्विराळजायत
विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत
पश्चाद्भूमिमथो पुरः ॥५॥
यत्पुरुषेण हविषा
देवा यज्ञमतन्वता ।
वसन्तो अस्यासीदाज्यं
ग्रीष्म इध्मः शरद्धविः ॥६॥
तं यज्ञं बर्हिषि
प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त
साध्या ऋषयश्च ये ॥७॥
तस्माद्यज्ञात्सर्वहुतः
सम्भृतं पृषदाज्यम्।
पशून्ताँश्चक्रे वायव्यानारण्यान्
ग्राम्याश्च ये॥८॥
तस्माद्यज्ञात्सर्वहुत
ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे
तस्माद्यजुस्तस्मादजायत ॥९॥
तस्मादश्वा अजायन्त
ये के चोभयादतः ।
गावोः ह जज्ञिरे तस्मात्
तस्माज्जाता अजावयः ॥१०॥
यत्पुरुषं व्यदधुः
कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू
का ऊरू पादा उच्येते ॥११॥
ब्राह्मणोऽस्य मुखमासीद्
बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः
पद्भ्यां शूद्रो अजायता ॥१२॥
चन्द्रमा मनसो जातश्चक्षोः
सूर्यो अजायता ।
मुखादिन्द्रश्चाग्निश्च
प्राणाद्वायुरजायता ॥१३॥
नाभ्या आसीदन्तरिक्षं
शीर्ष्णा द्यौः समवर्तता ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा
लोकाँ अकल्पयन् ॥१४॥
सप्तास्यासन् परिधयस्त्रिः
सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना
अबध्नन्पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि
धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त
यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥