मंत्रपुष्पांजलि
मंत्रपुष्पांजलि
ॐ यज्ञेन यज्ञमयजन्त देवाः।
तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त।
यत्र पूर्वे साध्याः सन्ति देवाः।
ॐ राजाधिराजाय प्रसह्यसाहिने
नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय
महाराजाय नमः।
ॐ स्वस्ति साम्राज्यं,
भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं।
राज्यं महाराज्यमाधिपत्यमयं।
समंतपर्या ईस्यात्।
सार्वभौमः सार्वायुषः
आंतादापरार्धात्।
पृथिव्यै समुद्रपर्यंतायाः
एकराळ इति।
तदप्येष श्लोकोऽभिगीतः।
मरुतः परिवेष्टारो
मरुत्तस्यावसन् गृहे।
अविक्षितस्य कामप्रेर्विश्वे।
देवाः सभासद इति।
एकदन्ताय विद्महे
वक्रतुण्डाय धीमहि।
तन्नो दन्तिः प्रचोदयात्।