अथ षष्ठोऽध्यायः । आत्मसंयमयोगः
श्रीभगवानुवाच ।
अनाश्रितः कर्मफलं,
कार्यं कर्म करोति यः ।
स संन्यासी च योगी च,
न निरग्निर् न चाक्रियः ॥ ६-१॥
यं संन्यासम् इति प्राहुर्,
योगं तं विद्धि पाण्डव ।
न हि असंन्यस्त-संकल्पो,
योगी भवति कश्चन ॥ ६-२॥
आरुरुक्षोर् मुनेर् योगं,
कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव,
शमः कारणम् उच्यते ॥ ६-३॥
यदा हि न इन्द्रियार्थेषु,
न कर्मसु अनुषज्जते ।
सर्वसंकल्पसंन्यासी,
योगारूढस् तदा उच्यते ॥ ६-४॥
उद्धरेद् आत्मना आत्मानं,
न आत्मानम् अवसादयेत् ।
आत्मैव हि आत्मनो बन्धुर्,
आत्मैव रिपुर् आत्मनः ॥ ६-५॥
बन्धुर् आत्मा आत्मनस् तस्य,
येन आत्मैव आत्मना जितः ।
अनात्मनस्तु शत्रुत्वे,
वर्तेत आत्मैव शत्रुवत् ॥ ६-६॥
जितात्मनः प्रशान्तस्य,
परमात्मा समाहितः ।
शीतोष्ण-सुखदुःखेषु,
तथा मानापमानयोः ॥ ६-७॥
ज्ञानविज्ञान-तृप्तात्मा,
कूटस्थो विजितेन्द्रियः ।
युक्त इति उच्यते योगी,
सम-लोष्टाश्म-कांचनः ॥ ६-८॥
सुहृन्-मित्रार्युदासीन,
-मध्यस्थ-द्वेष्य-बन्धुषु ।
साधुषु अपि च पापेषु,
समबुद्धिर् विशिष्यते ॥ ६-९॥
योगी युंजीत सततम्,
आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा,
निराशीर् अपरिग्रहः ॥ ६-१०॥
शुचौ देशे प्रतिष्ठाप्य,
स्थिरम् आसनम् आत्मनः ।
न अत्युच्छ्रितं न अतिनीचं, चैलाजिन-कुशोत्तरम् ॥ ६-११॥
तत्र एकाग्रं मनः कृत्वा,
यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युंज्याद्,
योगम् आत्मविशुद्धये ॥ ६-१२॥
समं काय-शिरोग्रीवं,
धारयन् अचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं,
दिशश् च अनवलोकयन् ॥ ६-१३॥
प्रशान्तात्मा विगतभीर्,
ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मच्चित्तो,
युक्त आसीत मत्परः ॥ ६-१४॥
युंजन् एवं सदात्मानं,
योगी नियत-मानसः ।
शान्तिं निर्वाणपरमां,
मत्संस्थाम् अधिगच्छति ॥ ६-१५॥
न अति अश्नतस् तु योगोऽस्ति,
न च एकान्तम् अनश्नतः ।
न च अति स्वप्न-शीलस्य,
जाग्रतो नैव चार्जुन ॥ ६-१६॥
युक्ताहार-विहारस्य,
युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नावबोधस्य,
योगो भवति दुःखहा ॥ ६-१७॥
यदा विनियतं चित्तम्,
आत्मनि एव अवतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो,
युक्त इति उच्यते तदा ॥ ६-१८॥
यथा दीपो निवातस्थो,
नेंगते सोपमा स्मृता ।
योगिनो यतचित्तस्य,
युंजतो योगम् आत्मनः ॥ ६-१९॥
यत्र उपरमते चित्तं,
निरुद्धं योगसेवया ।
यत्र चैव आत्मना आत्मानं,
पश्यन् आत्मनि तुष्यति ॥ ६-२०॥
सुखम् आत्यन्तिकं यत्तद्,
बुद्धिग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैव अयं,
स्थितश् चलति तत्त्वतः ॥ ६-२१॥
यं लब्ध्वा चापरं लाभं,
मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन,
गुरुणा अपि विचाल्यते ॥ ६-२२॥
तं विद्याद् दुःखसंयोग-,
वियोगं योग-संज्ञितम् ।
स निश्चयेन योक्तव्यो,
योगो अनिर्विण्ण-चेतसा ॥ ६-२३॥
संकल्प-प्रभवान् कामांस्,
त्यक्त्वा सर्वान् अशेषतः ।
मनसा एव इन्द्रियग्रामं,
विनियम्य समन्ततः ॥ ६-२४॥
शनैः शनैर् उपरमेद्,
बुद्ध्या धृति-गृहीतया ।
आत्म-संस्थं मनः कृत्वा,
न किंचिद् अपि चिन्तयेत् ॥ ६-२५॥
यतो यतो निश्चरति,
मनश् चंचलम् अस्थिरम् ।
ततस्ततो नियम्य एतद्,
आत्मन्येव वशं नयेत् ॥ ६-२६॥
प्रशान्त-मनसं ह्येनं,
योगिनं सुखम् उत्तमम् ।
उपैति शान्त-रजसं,
ब्रह्मभूतम् अकल्मषम् ॥ ६-२७॥
युंजन् एवं सदात्मानं,
योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम्,
अत्यन्तं सुखम् अश्नुते ॥ ६-२८॥
सर्वभूतस्थम् आत्मानं,
सर्वभूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा,
सर्वत्र सम-दर्शनः ॥ ६-२९॥
यो मां पश्यति सर्वत्र,
सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि,
स च मे न प्रणश्यति ॥ ६-३०॥
सर्व-भूत-स्थितं यो मां,
भजति एकत्वम् आस्थितः ।
सर्वथा वर्तमानोऽपि,
स योगी मयि वर्तते ॥ ६-३१॥
आत्मौपम्येन सर्वत्र,
समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं,
स योगी परमो मतः ॥ ६-३२॥
अर्जुन उवाच ।
योऽयं योगस् त्वया प्रोक्तः,
साम्येन मधुसूदन ।
एतस्य अहं न पश्यामि,
चंचलत्वात् स्थितिं स्थिराम् ॥ ६-३३॥
चंचलं हि मनः कृष्ण,
प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये,
वायोरिव सुदुष्करम् ॥ ६-३४॥
श्रीभगवानुवाच ।
असंशयं महाबाहो,
मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय,
वैराग्येण च गृह्यते ॥ ६-३५॥
असंयतात्मना योगो,
दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता,
शक्यो अवाप्तुम् उपायतः ॥ ६-३६॥
अर्जुन उवाच ।
अयतिः श्रद्धया उपेतो,
योगात् चलितमानसः ।
अप्राप्य योग-संसिद्धिं,
कां गतिं कृष्ण गच्छति ॥ ६-३७॥
कच्चिन् न उभय-विभ्रष्टश्,
छिन्नाभ्रम् इव नश्यति ।
अप्रतिष्ठो महाबाहो,
विमूढो ब्रह्मणः पथि ॥ ६-३८॥
एतन् मे संशयं कृष्ण,
छेत्तुम् अर्हसि अशेषतः ।
त्वदन्यः संशयस्य अस्य,
छेत्ता न हि उपपद्यते ॥ ६-३९॥
श्रीभगवानुवाच ।
पार्थ नैव इह न अमुत्र,
विनाशस् तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद्,
दुर्गतिं तात गच्छति ॥ ६-४०॥
प्राप्य पुण्यकृतां लोकान्,
उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे,
योगभ्रष्टो अभिजायते ॥ ६-४१॥
अथवा योगिनाम् एव,
कुले भवति धीमताम् ।
एतद् हि दुर्लभतरं,
लोके जन्म यद् इदृशम् ॥ ६-४२॥
तत्र तं बुद्धिसंयोगं,
लभते पौर्वदेहिकम् ।
यतते च ततो भूयः,
संसिद्धौ कुरुनन्दन ॥ ६-४३॥
पूर्वाभ्यासेन तेन एव,
ह्रियते हि अवशोऽपि सः ।
जिज्ञासुर् अपि योगस्य,
शब्दब्रह्म अतिवर्तते ॥ ६-४४॥
प्रयत्नाद् यतमानस् तु,
योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धस्,
ततो याति परां गतिम् ॥ ६-४५॥
तपस्विभ्यो अधिको योगी,
ज्ञानिभ्यो अपि मतो अधिकः ।
कर्मिभ्यश् च अधिको योगी,
तस्माद् योगी भवार्जुन ॥ ६-४६॥
योगिनाम् अपि सर्वेषां,
मद्गतेन अन्तरात्मना ।
श्रद्धावान् भजते यो मां,
स मे युक्ततमो मतः ॥ ६-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥