श्री गुरुगीता (संस्कृत)
श्री गुरुगीता (संस्कृत)
॥श्री गुरुगीता प्रारंभः ॥
॥ॐ अस्य श्रीगुरुगीता-स्तोत्र-मन्त्रस्य,
भगवान् सदाशिव ऋषिः ।
नाना-विधानि छन्दांसि ।
श्रीगुरु-परमात्मा देवता ।
हं बीजं । सः शक्तिः । क्रों कीलकं ।
श्रीगुरु प्रसाद-सिद्ध्यर्थे जपे विनियोगः ।
॥ (अथ करन्यासः) ॥
ॐ हं सां सूर्यात्मने अंगुष्ठाभ्याम् नमः ।
ॐ हं सीं सोमात्मने तर्जनीभ्याम् नमः ।
ॐ हं सूं निरंजनात्मने मध्यमाभ्याम् नमः ।
ॐ हं सैं निराभासात्मने अनामिकाभ्याम् नमः ।
ॐ हं सौं अतनु-सूक्ष्मात्मने
कनिष्ठिकाभ्याम् नमः ।
ॐ हं सः अव्यक्तात्मने करतल
करपृष्ठाभ्याम् नमः ।
॥ (अथ हृदयादि न्यासः) ॥
ॐ हं सां सूर्यात्मने हृदयाय नमः ।
ॐ हं सीं सोमात्मने शिरसे स्वाहा ।
ॐ हं सूं निरंजनात्मने शिखायै वषट् ।
ॐ हं सैं निराभासात्मने कवचाय हुं ।
ॐ हं सौं अतनु-सूक्ष्मात्मने नेत्रत्रयाय वौषट ।
ॐ हं सः अव्यक्तात्मने अस्त्राय फट् ।
ॐ ब्रह्म भूर्भुव: स्वरों इति दिग्बंध : ।
॥ अथ ध्यानम् ॥
हंसाभ्यां परिवृत्त-पत्रकमलैर्,
-दिव्यैर्जगत्कारणैः
विश्वोत्कीर्णमनेक- देह-निलयैः,
स्वच्छंदमात्मेच्छया ॥
तद्योतं पद-शांभवं[न्] तु चरणं[न्],
दीपांकुर-ग्राहिणम् ।
प्रत्यक्षाक्षर-विग्रहं[ङ] गुरुपदं [न],
ध्यायेत् विभुं शाश्वतम् ॥
मम चतुर्विध पुरुषार्थ- सिद्ध्यर्थे,
जपे विनियोगः ।
॥ अथ श्रीगुरुगीता ॥
सूत उवाच -
कैलास शिखरे रम्ये,
भक्ति-संधान - नायकम् ।
प्रणम्य पार्वती भक्त्या,
शंकरं पर्यपृच्छत ॥ १ ॥
श्री देव्युवाच -
ॐ नमो देव देवेश,
परात्पर जगत् गुरो ।
सदाशिव महादेव,
गुरुदीक्षां प्रदेहि मे ॥ २ ॥
केन मार्गेण भो स्वामिन्,
देहि ब्रह्म-मयो भवेत् ।
त्वं कृपां कुरु मे स्वामिन्,
नमामि चरणौ तव ॥३ ॥
ईश्वर उवाच. -
मम रूपासि देवि त्वं[न्],
त्वत्प्रीत्यर्थं वदाम्यहम् ।
लोकोपकारकः प्रश्नो,
न केनापि कृतः पुरा ॥४ ॥
दुर्लभं[न्] त्रिषु लोकेषु
तत् श्रुणुष्व वदाम्यहम् ।
गुरुं विना ब्रह्म नान्यत् ,
सत्यं सत्यं वरानने ॥५ ॥
वेद शास्त्र पुराणानि,
इतिहासादिकानि च ।
मन्त्र यन्त्रादि विद्याश्च
स्मृतिरुच्चाटनादिकम् ॥ ६ ॥
शैव शाक्तागमादीनि,
अन्यानि विविधानि च ।
अपभ्रंश-कराणीह,
जीवानां भ्रांत चेतसाम् ॥७ ॥
यज्ञो व्रतं[न्] तपो दानं,
जपस्तीर्थं [न्] तथैव च ।
गुरुतत्त्वमविज्ञाय,
मूढास्ते चरते जनाः ॥८ ॥
गुरु- बुद्ध्यात्मनो नान्यत्,
सत्यं सत्य॑[न्] न संशयः ।
तल्लाभार्थं प्रयत्नस्तु,
कर्तव्यो हि मनीषिभिः ॥९ ॥
गूढ--विद्या जगन्माया ,
देहे चाज्ञान- संभवा ।
उदयः स्व-प्रकाशेन,
गुरु-शब्देन कथ्यते ॥ १०॥
सर्व-पाप-विशुद्धात्मा,
श्रीगुरोः पाद सेवनात् ।
देही ब्रह्म भवेद् यस्मात्,
तत् कृपार्थं वदामि ते ॥११ ॥
गुरुपादांबुजं स्मृत्वा,
जलं शिरसि धारयेत् ।
सर्व तीर्थावगाहस्य,
संप्राप्नोति फलं नरः ॥ १२ ॥
शोषणम् पाप-पंकस्य,
दीपनं [न्] ज्ञान- तेजसाम् ।
गुरु पादोदकं सम्यक्,
संसारार्णव तारकम् ॥१३॥
अज्ञान-मूल-हरणं [ञ],
जन्म-कर्म - निवारणम् ।
ज्ञान-वैराग्य-सिद्ध्यर्थं [ङ],
गुरु- पादोदकं पिबेत् ॥ १४ ॥
गुरोः पादोदकं पीत्वा,
गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं[ङ],
गुरुमंत्रं सदा जपेत् ॥१५ ॥
काशी क्षेत्र[न्] तन्निवासो,
जाह्नवी चरणोदकम् ।
गुरुर विश्वेश्वरः साक्षात्,
तारकं ब्रह्म निश्चितम् ॥१६ ॥
गुरोः पादोदकं यत्तु ,
गयाऽसौ सोऽक्षयो वटः ।
तीर्थ-रा -राजः प्रयागश्च,
गुरुमूर्ते नमो नमः ॥ १७ ॥
गुरुमूर्तिं स्मरेन नित्यं[ङ].
गुरु नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत,
गुरोरन्यन्न भावयेत् ॥१८॥
गुरु- वक्त्र स्थितं ब्रह्म,
प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात्,
कुलस्त्री स्वपतेर्यथा ॥१९॥
स्वाश्रमं[ञ] च स्वजातिं[ञ] च,
स्व-कीर्ति-पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य,
गुरोरन्यन्न भावयेत् ॥ २० ॥
अनन्याश्चिंतयन्तो मां ,
सुलभं परमं पदम् ।
तस्मात्सर्व प्रयत्नेन,
गुरोराराधनं [ङ] कुरु ॥ २१ ॥
त्रैलोक्य स्फुट-वक्तारो,
देवाद्यसुर- पन्नगाः ।
गुरु- वक्त्र- स्थिता विद्या,
गुरु भक्त्या तु लभ्यते ॥ २२ ॥
गुकारस्त्वंधकारश्च,
रुकारस्तेज उच्यते ।
अज्ञान-ग्रासकं ब्रह्म,
गुरुरेव न संशयः ॥२३॥
गुकारः प्रथमो वर्णो,
मायादि गुण-भासकः ।
रुकारो द्वितीयो ब्रह्म,
माया भ्रान्ति - विनाशनम् ॥ २४ ॥
एवं गुरुपदं श्रेष्ठ [न्],
देवानामपि दुर्लभम् ।
हाहा हूहू गणैश्चैव,
गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
ध्रुवं तेषां च सर्वेषां [न्],
नास्ति तत्त्व[ङ] गुरोः परम् ।
आसनं शयनं वस्त्रं,
भूषणं वाहनादिकम् ॥ २६ ॥
साधकेन प्रदातव्यं[ङ],
गुरु-संतोष-कारकम् ।
गुरोराराधनं [ङ] कार्य,
स्व- जीवित्व[न्] निवेदयेत् ॥ २७ ॥
कर्मणा मनसा वाचा,
नित्यमाराधयेत्गुरुम् ।
दीर्घ-दण्डं[न्] नमस्कृत्य,
निर्लज्जो गुरु-सन्निधौ ॥२८ ॥
शरीरं इन्द्रियं प्राणं,
सद्गुरुभ्यो निवेदयेत् ।
आत्म-दारादिकं सर्वं,
सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
कृमिकीट-भस्म - विष्ठा,
दुर्गन्धि-मल-मूत्रकम् ।
श्लेष्म रक्तं[न्] त्वचा मांस,
वंचयेन्न वरानने ॥ ३० ॥
संसार वृक्षमारूढाः,
पतन्तो नरकार्णवे ।
येन चैवोद्धृताः सर्वे,
तस्मै श्री गुरवे नमः ॥३१ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्,
गुरुर्देवो महेश्वरः ।
गुरुरेव पर-ब्रह्म,
तस्मै श्री गुरवे नमः ॥३२॥
हेतवे जगतामेव,
संसारार्णव-सेतवे ।
प्रभवे सर्व-विद्यानां,
शंभवे गुरवे नमः ॥३३॥
अज्ञान तिमिरांधस्य,
ज्ञानांजन- शलाकया ।
चक्षुरुन्मीलितं येन,
तस्मै श्री गुरवे नमः ॥ ३४ ॥
त्वं पिता त्वं[ञ] च मे माता,
त्वं बन्धुस्त्वं[ञ] च देवता ।
संसार प्रति बोधार्थी[न्] ,
तस्मै श्रीगुरवे नमः ॥ ३५ ॥
यत्सत्येन जगत्सत्यं,
यत्प्रकाशेन भाति तत् ।
यदानन्देन नंदन्ति,
तस्मै श्री गुरवे नमः ॥ ३६ ॥
यस्य स्थित्या सत्यमिदं,
यद्भाति भानुरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या,
तस्मै श्री गुरवे नमः ॥ ३७ ॥
येन चेतयते हीदं [ञ] ,
चित्तं चेतयते न यम् ।
जाग्रत् स्वप्न सुषुप्त्यादि,
तस्मै श्री गुरवे नमः ॥३८ ॥
यस्य ज्ञानादिदं विश्वं,
न दृश्यं भिन्न- भेदतः ।
सदेक-रूप-रूपाय,
तस्मै श्री गुरवे नमः ॥ ३९ ॥
यस्यामतं[न्] तस्य मतं,
मतं यस्य न वेद सः ।
अनन्य भाव-भावाय,
तस्मै श्री गुरवे नमः ॥४०॥
यस्य कारण-रूपस्य,
कार्य- रूपेण भाति यत् ।
कार्य-कारण-रूपाय,
तस्मै श्री गुरवे नमः ॥ ४१ ॥
नानारूपमिदं सर्वं[न्] ,
न केनाप्यस्ति भिन्नता ।
कार्य-कारणता चैव,
तस्मै श्री गुरवे नमः ॥४२ ॥
यदंघ्रि-कमल- द्वन्द्व[न्] ,
द्वन्द्व-ताप-निवारकम् ।
तारकं सर्वदाऽपद्भ्यः,
श्रीगुरुं प्रणमाम्यहम् ॥४३ ॥
शिवे क्रुद्धे गुरुस्त्राता,
गुरौ क्रुद्धे शिवो नहि ।
तस्मात्सर्व- प्रयत्नेन,
श्रीगुरुं शरणं व्रजेत् ॥ ४४ ॥
वन्दे गुरु-पद- द्वन्द्वं,
वाङ् मन:-चित्त-गोचरम् ।
श्वेत रक्त प्रभा भिन्नं,
शिव शक्त्यात्मकं परम् ॥४५ ॥
गुकारं [ञ] च गुणातीतं,
रुकारं रूप - वर्जितम् ।
गुणातीत-स्वरूपं [ञ] च,
यो दद्यात्स गुरुः स्मृतः ॥४६ ॥
अ- त्रिनेत्रः सर्वसाक्षी,
अ-चतुर्बाहुरच्युतः ।
अ- चतुर्वदनो ब्रह्मा,
श्रीगुरुः कथितः प्रिये ॥४७॥
अयं मयांजलिर्बद्धो,
दया सागर- वृद्धये ।
यदनुग्रहतो जन्तुष्,
+ चित्र-संसार-मुक्ति-भाक् ॥४८ ॥
श्रीगुरोः परमं रूपं,
विवेक-चक्षुषोऽमृतम् ।
मन्दभाग्या न पश्यन्ति,
अन्धाः सूर्योदयं यथा ॥४९ ॥
श्रीनाथ-चरण-द्वन्द्वं,
यस्यां दिशि विराजते ।
तस्यै दिशे नमस्कुर्याद्,
भक्त्या प्रतिदिनं प्रिये ॥ ५० ॥
तस्यै दिशे, सततमंजलिरेष आर्ये
प्रक्षिप्यते मुखरितो, मधुपैर्बुधैश्च ।
जागर्ति यत्र भगवान्, गुरु-चक्रवर्ती
विश्वोदय-प्रलय, नाटक - नित्य- साक्षी ॥ ५१ ॥
श्रीनाथादि गुरुत्रयं[ङ],
गणपतिं, पीठ-त्रयं भैरवं ।
सिद्धौघं बटुक-त्र्यं, पद-युगं[न],
दूती-त्रयं शांभवम् ।
वीरेशाष्ट, - चतुष्क- षष्टि-नवकं,
वीरावली - पञ्चकं श्रीमन्मालि,
निमंत्र-राज-सहितं वन्दे गुरोमंडलम् ॥५२॥
अभ्यस्तैः सकलैः, सुदीर्घ-मनिलैर्,
व्याधिप्रदैर्दुष्करैः प्राणायाम शतैर्,
अनेक-करणैर्, दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते, विनश्यति बली,
वायुः स्वयं[न] तत्क्षणातू प्राप्तुं[न] तत्सहजं,
स्वभावमनिशं सेवध्वमेकं[ङ] गुरुम् ॥५३॥
स्वदेशिकस्यैव, शरीर चिन्तनम्
भवेदनन्तस्य, शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव च, नाम-कीर्तनम्
भवेदनन्तस्य, शिवस्य कीर्तनम् ॥ ५४ ॥
यत् पाद-रेणु-कणिका,
कापि संसार-वारिधेः।
सेतु बन्धायते नाथं[न],
देशिकं[न] तं उपास्महे ॥५५ ॥
यस्मादनुग्रहं लब्ध्वा,
महदज्ञानमुत्सृजेत् ।
तस्मै श्री देशिकेन्द्राय ,
नमश्चाभीष्टसिद्धये ॥ ५६ ॥
पादाब्जं सर्व-संसार,
- दावानल - विनाशकम् ।
ब्रह्म- रन्ध्रे सितांभोज, मध्यस्थं[ञ] चन्द्र मण्डले ॥ ५७ ॥
अकठादि- त्रि-रेखाब्जे,
सहस्त्र - दल मण्डले ।
हंस- पार्श्व- त्रिकोणे च,
स्मरेत्+तं मध्यगं[ङ] गुरुम् ॥ ५८ ॥
सकल-भुवन-सृष्टिः,
कल्पिताशेष- पुष्टिर्
निखिल-निगम-दृष्टि:,
संपदा व्यर्थदृष्टिः ।
अवगुण - परिमार्ष्टिस्,
तत् पदार्थेक दृष्टिर्,
भव-गुण-परमेष्टिर्,
मोक्ष-मार्गेक-दृष्टिः ॥ ५९ ॥
सकल-भुवन-रंग,
-स्थापना-स्तंभ-यष्टिः
सकरुण-रस-वृष्टिस्,
तत्त्व- माला- समष्टिः ।
सकल-समय-सृष्टिः,
सच्चिदानन्द दृष्टिर्
निवसतु मयि नित्यं,
श्रीगुरोर् दिव्यदृष्टिः ॥ ६० ॥
अग्नि शुद्ध समंतात,
ज्वाला परिचकाधिया ।
मन्त्रराजमिमं मन्ये,
अहर्निशं पातु मृत्युतः ॥ ६१ ॥
तदेजति तन्नैजति,
तद्दूरे तत्समीपके।
तदंतरस्य सर्वस्य,
तदु सर्वस्य बाह्यतः ॥ ६२ ॥
अजोऽहमजरोऽहं च,
अनादि निधनः स्वयम् ।
अविकारश्चिदानन्द,
अणीयान् महतो महान् ॥ ६३ ॥
अपूर्वाणां परं[न] नित्यं,
स्वयं[ञ]-ज्योतिर्निरामयम् ।
विरजं परमाकाश[न]
ध्रुवमानन्दमव्ययम् ॥ ६४ ॥
श्रुतिः प्रत्यक्षमैतिह्यम्,
अनुमानश्चतुष्टयम् ।
यस्य चात्मतपो वेद,
देशिकं[ञ] च सदा स्मरन् ॥ ६५ ॥
मननं यद्भवं[ङ] कार्यं [न],
तद्वदामि महामते ।
साधुत्वं[ञ] च मया दृष्ट्वा,
त्वयि तिष्ठति सांप्रतम् ॥ ६६ ॥
अखण्ड-मण्डलाकारं,
व्याप्तं येन चराचरम् ।
तत्पदं[न] दर्शितं येन
तस्मै श्रीगुरवे नमः ॥ ६७ ॥
सर्व श्रुति- शिरोरत्न,
विराजित पदांबुजः ।
वेदान्तांबुज-सूर्यो यस्,
तस्मै श्रीगुरवे नमः ॥ ६८ ॥
यस्य स्मरण-मात्रेण,
ज्ञानमुत्पद्यते स्वयम् ।
य एव सर्व संप्राप्तिस्,
तस्मै श्रीगुरवे नमः ॥ ६९ ॥
चैतन्यं शाश्वतं शान्तं,
व्योमातीत[न] निरञ्जनम् ।
नाद-बिन्दु-कलातीतं[न],
तस्मै श्रीगुरवे नमः ॥७० ॥
स्थावरं[ञ] जंगमं चैव,
तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्व[न्],
तस्मै श्रीगुरवे नमः ॥ ७१ ॥
ज्ञान-शक्ति-समारूढः,
तत्त्व-माला विभूषितः ।
भुक्ति-मुक्ति-प्रदाता यस्,
तस्मै श्रीगुरवे नमः ॥७२॥
अनेक जन्म-संप्राप्त,
सर्व-कर्म - विदाहिने ।
स्वात्म-ज्ञान - प्रभावेण ,
तस्मै श्रीगुरवे नमः ॥७३॥
न गुरोरधिकं[न्] तत्त्व[न्],
न गुरोरधिकं[न्] तपः ।
तत्त्वं ज्ञानात्परं[न्] नास्ति,
तस्मै श्रीगुरवे नमः ॥७४ ॥
मन्नाथः श्रीजगन्नाथो,
मद्गुरुस्त्रिजगत्गुरुः ।
ममात्मा सर्व भूतात्मा,
तस्मै श्रीगुरवे नमः ॥७५ ॥
ध्यानमूलं[ङ] गुरोर्मूर्तिः,
पूजा-मूलं[ङ] गुरोः पदम् ।
मन्त्र- मूलं [ङ] गुरोर्वाक्यं,
मोक्ष-मूलं[ङ] गुरोः कृपा ॥७६ ॥
गुरुरादिरनादिश्च,
गुरुः परम- दैवतम् ।
गुरोः परतरं[न्] नास्ति,
तस्मै श्रीगुरवे नमः ॥७७॥
सप्त सागर- पर्यन्त,
तीर्थ-स्नानादिकं फलम् ।
गुरोरंघ्रि-पयो- बिंदु,
सहस्रांशे न दुर्लभम् ॥ ७८ ॥
हरौ रुष्टे गुरुस्त्राता,
गुरौ रुष्टे न कश्चन ।
तस्मात्सर्व- प्रयत्नेन,
श्रीगुरुं शरणं व्रजेत् ॥ ७९ ॥
गुरुरेव जगत्सर्वं,
ब्रह्म-विष्णु-शिवात्मकम् ।
गुरोः परतरं[न्] नास्ति,
तस्मात्संपूजयेत् गुरुम् ॥८० ॥
ज्ञानं विज्ञान सहितं,
लभ्यते गुरुभक्तितः ।
गुरोः परतरं [न्] नास्ति,
ध्येयोऽसौ गुरु- मार्गिभिः ॥ ८१ ॥
यस्मात्परतरं[न] नास्ति,
नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव,
नित्यमाराधयेत् गुरुम् ॥ ८२ ॥
गुरोः कृपा प्रसादेन,
ब्रह्म-विष्णु सदाशिवाः ।
समर्थाः प्रभवादौ च,
कैवल्यं [ङ] गुरुसेवया ॥ ८३ ॥
देव किन्नर गन्धर्वाः,
पितरो यक्ष- चारणाः ।
मुनयोऽपि न जानन्ति,
गुरु-शुश्रूषणे विधिम् ॥ ८४ ॥
महाहंकार - गर्वेण,
तपो-विद्या-बलान्विताः ।
संसार-कुहरावर्ते,
घट-यन्त्रे यथा घटाः ॥ ८५ ॥
न मुक्ता देव गन्धर्वाः,
पितरो यक्ष- किन्नराः ।
ऋषयः सर्व-सिद्धाश्च,
गुरुसेवा-परां-मुखाः ॥ ८६ ॥
ध्यानं शृणु महादेवि,
सर्वानन्द प्रदायकम् ।
सर्व-सौख्य-करं[न्] नित्यं,
भुक्ति-मुक्ति-विधायकम् ॥८७॥
श्रीमत् परब्रह्म गुरुं स्मरामि,
श्रीमत् परब्रह्म गुरुं वदामि ।
श्रीमत् परब्रह्म गुरुं [न्]नमामि,
श्रीमत् परब्रह्म गुरुं भजामि ||८८||
ब्रह्मानन्दं, परम-सुखदं,
केवल [न्] ज्ञान- मूर्तिम् ।
द्वन्द्वातीतं[ङ], गगनसदृशं [न्],
तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं, विमलमचलं
सर्वधीसाक्षिभूतम् भावातीतं[न्],
त्रिगुणरहितं, सद्गुरुं तं नमामि ॥८९ ॥
नित्यं शुद्ध [न्], निराभासं [न्],
निराकारं [न्] निरञ्जनम् ।
नित्य-बोध[ञ], चिदानन्दं[ङ] ,
गुरुं ब्रह्म नमाम्यहम् ॥ ९० ॥
हृदंबुजे, कर्णिक-मध्य-संस्थे,
सिंहासने संस्थित दिव्य मूर्तिम् ।
ध्यायेत् गुरुं[ञ], चन्द्र-कला-प्रकाशं,
चित्पुस्तकाभीष्ट-वरं दधानम् ॥ ९१ ॥
श्वेतांबरं, श्वेत-विलेप-पुष्पं,
मुक्ता- विभूषं मुदितं[न] द्विनेत्रम् ।
वामांक- पीठ,-स्थित-दिव्यशक्तिं,
मंद स्मितं सांद्र-कृपा-निधानम् ॥९२॥
आनंदमानंदकरं प्रसन्नं,
ज्ञान- स्वरूपं[न] निज-बोध-युक्तम् ।
योगींद्रमीड्यं भव-रोग-वैद्यं,
श्रीमद्गुरुं[न] नित्यमहं नमामि ॥९३ ॥
यस्मिन्सृष्टि-स्थिती-ध्वंस,
-निग्रहानुग्रहात्मकम् ।
कृत्यं पंच-विधं शश्वत्,
भासते तं[न] नमाम्यहम् ॥९४ ॥
प्रातः शिरसि शुक्लाब्जे,
द्विनेत्रं [न्] द्विभुजं[ङ] गुरुम् ।
वराभय-युतं शांतं,
स्मरेत् तं[न] नाम- पूर्वकम् ॥ ९५ ॥
न गुरोरधिकं [न्], न गुरोरधिकं[न],
न गुरोरधिकं [न्], न गुरोरधिकम् ।
शिव-शासनतः, शिवशासनतः,
शिवशासनतः, शिवशासनतः ॥९६॥
इदमेव शिवं [न्], त्विदमेव शिव [न्],
त्विदमेव शिवं [न्], त्विदमेव शिवम् ।
मम शासनतो, मम शासनतो,
मम शासनतो, मम शासनतः || ९७ ||
एवं विध[ङ] गुरुं ध्यात्वा,
ज्ञानमुत्पद्यते स्वयम् ।
तत्-सद्गुरु प्रसादेन,
मुक्तोऽहमिति भावयेत् ॥ ९८ ॥
गुरु- दर्शित-मार्गेण,
मनः शुद्धिं[न्] तु कारयेत् ।
अनित्यं[ङ] खंडयेत् सर्वं,
यत्- किंचिद् आत्म-गोचरम् ॥९९ ॥
ज्ञेयं सर्व-स्वरूपं[ञ] च,
ज्ञानं[ञ] च मन उच्यते ।
ज्ञानं[न्] - ज्ञेय-समं[ङ] कुर्यान्,
नान्यः पंथा द्वितीयकः ॥ १०० ॥
एवं श्रुत्वा महादेवि,
गुरुनिंदां[ङ] करोति यः ।
स याति नरकं[ङ] घोरं,
यावच्चंद्र- दिवाकरौ ॥१०१॥
यावत्-कल्पांतको देहसू,
तावदेव गुरुं स्मरेत् ।
गुरु-लोपो न कर्तव्यः,
स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥
हुंकारेण न वक्तव्यं,
प्राज्ञैः शिष्यैः कथंचन ।
गुरोअग्रे न वक्तव्यम्,
असत्यं[ञ] च कदाचन ॥१०३ ॥
गुरुं[न्] त्वं[ङ] कृत्य हुं[ङ] कृत्य,
गुरुं[न्] निर्जित्य वादतः ।
अरण्ये निर्जले देशे,
स भवेद् ब्रह्म राक्षसः ॥ १०४ ॥
मुनिभिः पन्नगैर्वाऽपि,
सुरैर्वा शापितो यदि ।
काल-मृत्यु-भयाद् वापि,
गुरू रक्षति पार्वति ॥ १०५ ॥
अशक्ता हि सुराद्याश्च,
अशक्ता मुनयस्तथा ।
गुरु-शापेन ते शीघ्र[ङ],
क्षयं यांति न संशयः ॥१०६ ॥
मंत्र- राजमिदं[न्] देवि,
गुरुरित्यक्षरद्वयम् ।
स्मृति- वेदार्थ - वाक्येन,
गुरुः साक्षात् परं पदम् ॥१०७ ॥
श्रुति स्मृती अविज्ञाय,
केवल [ङ] गुरु सेवकाः ।
ते वै संन्यासिनः प्रोक्ता,
इतरे वेषधारिणः ॥ १०८ ॥
नित्यं ब्रह्म निराकारं[न],
निर्गुणं बोधयेत् परम् ।
सर्वं ब्रह्म निराभास[न],
दीपो दीपान्तरं यथा ॥१०९ ॥
गुरोः कृपा प्रसादेन,
आत्मा-रामं निरीक्षयेत् ।
अनेन गुरु-मार्गेण,
स्वात्म-ज्ञानं प्रवर्तते ॥११० ॥
आब्रह्म-स्तंब पर्यंतं,
परमात्म-स्वरूपकम् ।
स्थावरं[ञ] जंगमं[ञ] चैव,
प्रणमामि जगन्मयम् ॥ १११ ॥
वंदेऽहं सच्चिदानंद,
भेदातीतं सदा गुरुम् ।
नित्यं पूर्णं [न्] निराकारं[न्],
निर्गुणं स्वात्म-संस्थितम् ॥ ११२ ॥
परात्परतरं[न्] ध्येयं[न्],
नित्यमानंद-कारकम् ।
हृदयाकाश-मध्यस्थं,
शुद्ध-स्फटिक-सन्निभम् ॥११३॥
स्फटिक प्रतिमा-रूपं[न्],
दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकारम्,
आनंद सोऽहम् + इत्युत ॥ ११४ ॥
अंगुष्ठ-मात्र-पुरुषं[न्],
ध्यायतश्चिन्मयं हृदि ।
तत्र स्फुरति भावो यः,
श्रुणु तं[ङ] कथयाम्यहम् ॥११५ ॥
अगोचरं[न्] तथाऽगम्यं[न्],
नाम-रूप- विवर्जितम् ।
निःशब्दं[न्] तद् विजानीयात्,
स्वभावं ब्रह्म पार्वति ॥ ११६ ॥
यथा गंधः स्वभावेन,
कर्पूर-कुसुमादिषु ।
शीतोष्णादि-स्वभावेन,
तथा ब्रह्म च शाश्वतम् ॥ ११७ ॥
स्वयं तथा-विधो भूत्वा,
स्थातव्यं यत्र कुत्र- चित् ।
कीट - भ्रमर-वत्-तत्र,
ध्यानं भवति तादृशम् ॥ ११८ ॥
गुरु-ध्यानं[न्] तथा कृत्वा,
स्वयं ब्रह्म-मयो भवेत् ।
पिंडे पदे तथा रूपे,
मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥
स्वयं सर्वमयो भूत्वा,
परं[न्] तत्त्वं विलोकयेत् ।
परात् परतरं[न्] नान्यत्,
सर्वमेतन्निरालयम् ॥ १२० ॥
तस्यावलोकनं प्राप्य,
सर्वसंग विवर्जितम् ।
एकाकी निःस्पृहः शांतस्,
तिष्ठासेत् तत् प्रसादतः ॥ १२१ ॥
लब्धं वाऽथ न लब्धं वा,
स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं,
सदा संतुष्ट चेतसा ॥ १२२ ॥
सर्वज्ञ-पदमित्याहुरू,
देही सर्वमयो बुधाः ।
सदानंदः सदा शांतो,
रमते यत्र - कुत्र - चित् ॥ १२३ ॥
यत्रैव तिष्ठते सोऽपि,
स देशः पुण्य-भाजनम् ।
मुक्तस्य लक्षणं [न] देवि,
तवाग्रे कथितं मया ॥ १२४ ॥
उपदेशस् तथा देवि,
गुरु-मार्गेण मुक्तिदः ।
गुरु-भक्तिस् तथा ध्यानं,
सकलं तव कीर्तितम् ॥१२५ ॥
अनेन यद्भवेत् कार्य [न्],
तद्वदामि महामते ।
लोकोपकारकं [न्] देवि,
लौकिकं [न्] तु न भावयेत् ॥ १२६ ॥
लौकिकात्कर्मणो यांति,
ज्ञान- हीना भवार्णवम् ।
ज्ञानी तु भावयेत्सर्वं [ङ],
कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥
इदं[न्] तु भक्ति-भावेन,
पठते श्रुणुते यदि ।
लिखित्वा तत्प्रदातव्यं [न्],
दानं दक्षिणया सह ॥ १२८ ॥
गुरुगीतात्मक [न्] देवि,
शुद्ध-तत्त्वं मयोदितम् ।
भव-व्याधि-विनाशार्थं,
स्वयमेव जपेत् सदा ॥ १२९ ॥
गुरुगीताक्षरैकं[न्] तु,
मंत्रराजमिमं जपेत् ।
अन्ये च विविधा मंत्राः,
कलां [न्] नार्हति षोडशीम् ॥ १३० ॥
अनंत फलमाप्नोति,
गुरुगीता जपेन तु ।
सर्व-पाप-प्रशमनं,
सर्व- दारिद्र्य नाशनम् ॥ १३१ ॥
काल-मृत्यु-भय-हरं,
सर्व-संकट नाशनम् ।
यक्ष-राक्षस-भूतानां,
चौर-व्याघ्र-भयापहम् ॥ १३२ ॥
महा-व्याधि- हरं सर्व,
विभूति-सिद्धिदं भवेत् ।
अथवा मोहनं वश्यं,
स्वयमेव जपेत् सदा ॥ १३३ ॥
कुशैर्वा दूर्वया देवि,
आसने शुभ्र-कंबले ।
उपविश्य ततो देवि,
जपेदेकाग्र मानसः ॥ १३४ ॥
ध्येयं शुक्लं च शांत्यर्थं,
वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्ण-वर्णं,
पीत-वर्णं [न्] धनागमे ॥ १३५ ॥
उत्तरे शांतिकामस्तु,
वश्ये पूर्व-मुखो जपेत् ।
दक्षिणे मारणं प्रोक्तं,
पश्चिमे च धनागमः ॥ १३६ ॥
मोहनं सर्वभूतानां,
बंध-मोक्ष-करं भवेत् ।
देव-राज- प्रिय-करं,
सर्व लोक -वशं भवेत् ॥ १३७ ॥
सर्वेषां स्तंभन करं[ङ],
गुणानां च विवर्धनम् ।
दुष्कर्म-नाशनं चैव,
सुकर्म सिद्धिदं भवेत् ॥१३८॥
असिद्धं साधयेत्कार्य [न्],
नव-ग्रह-भयापहम् ।
दुःस्वप्न-नाशनं चैव,
सु-स्वप्न-फल-दायकम् ॥१३९॥
सर्व-शांति करं[न्] नित्यं,
तथा वंध्या सुपुत्रदम् ।
अवैधव्य-करं स्त्रीणां,
सौभाग्य दायकं सदा ॥ १४० ॥
आयुरारोग्यमैश्वर्य,
पुत्र-पौत्र-प्रवर्धनम् ।
अकामतःस्त्री विधवा,
जपान्मोक्षमवाप्नुयात् ॥१४१ ॥
अवैधव्यं सकामा तु ,
लभते चान्य जन्मनि ।
सर्व-दुःख-भयं विघ्नं,
नाशयेत् शाप-हारकम् ॥१४२ ॥
सर्व-बाधा प्रशमनं [न्],
धर्मार्थ-काम-मोक्षदम् ।
यं यं चिंतयते कामं [न्],
तं[न्] तं प्राप्नोति निश्चितम् ॥ १४३ ॥
कामितस्य काम-धेनुः,
कल्पना-कल्प-पादपः ।
चिन्तामणिश्चिन्तितस्य,
सर्व मंगल कारकम् ॥ १४४ ॥
मोक्ष - हेतुर्जपन्नित्यं,
मोक्ष- श्रियमवाप्नुयात् ।
भोग कामो जपेद्यो वै,
तस्य काम-फलप्रदम् ॥ १४५ ॥
जपेत् शाक्तश्च सौरश्च,
गाणपत्यश्च वैष्णवः ।
शैवश्च सिद्धिदतं[न्] देवि,
सत्यं सत्यं[न] न संशयः ॥ १४६ ॥
अथ काम्यजपे स्थानं[ङ],
कथयामि वरानने ।
सागरे वा सरित्तीरे,
अथवा हरि-हरालये ॥ १४७ ॥
शक्ति- देवालये गोष्ठे,
सर्व देवालये शुभे ।
वटे च धात्री-मूले वा,
मठे वृन्दावने तथा ॥ १४८ ॥
पवित्रे निर्मले स्थाने,
नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन,
जपमेतं समाचरेत् ॥ १४९ ॥
स्मशाने भय-भूमी तु,
वट-मूलान्तिक तथा ।
सिद्ध्यन्ति धौत्तरे मूले,
चूत-वृक्षस्य सन्निधौ ॥ १५० ॥
गुरु-पुत्रो वरं मूर्खस्,
तस्य सिद्ध्यन्ति नान्यथा ।
शुभ कर्माणि सर्वाणि,
दीक्षा-व्रत-तपांसि च ॥१५१ ॥
संसार-मल-नाशार्थं,
भव-पाश-निवृत्तये ।
गुरुगीताम्भसि स्नानं [न्],
तत्त्वज्ञः कुरुते सदा ॥१५२ ॥
स एव च गुरुः साक्षात्,
सदा सद्-ब्रह्म- वित्तमः ।
तस्य स्थानानि सर्वाणि ,
पवित्राणि न संशयः ॥ १५३ ॥
सर्व-शुद्धः पवित्रोऽसौ,
स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे,
क्षेत्रे पीठे वसन्ति हि ॥ १५४ ॥
आसनस्थः शयानो वा,
गच्छन्तिष्ठन्वदन् अपि ।
अश्वारूढो गजारूढः,
सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥
शुचिष्मांश्च सदा ज्ञानी,
गुरुगीता-जपेन तु ।
तस्य दर्शन-मात्रेण,
पुनर्जन्म न विद्यते ॥ १५६ ॥
समुद्रे च यथा तोयं[ङ] ,
क्षीरे क्षीरं घृते घृतम् ।
भिन्ने कुंभे यथाकाशस्,
तथात्मा परमात्मनि ॥ १५७ ॥
तथैव ज्ञानी जीवात्मा,
परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी,
यत्र तत्र दिवा- निशम् ॥ १५८ ॥
एवं विधो महा-मुक्तः,
सर्वदा वर्तते बुधः ।
तस्य सर्व प्रयत्नेन,
भाव-भक्तिं[ङ] करोति यः ॥ १५९ ॥
सर्व-सन्देह-रहितो,
मुक्तो भवति पार्वति ।
भुक्ति-मुक्ति-द्वयं [न्] तस्य,
जिव्हाग्रे च सरस्वती ॥ १६० ॥
अनेन प्राणिनः सर्वे,
गुरुगीता जपेन तु ।
सर्व-सिद्धिं प्राप्नुवन्ति,
भुक्तिं मुक्तिं[न] न संशयः ॥ १६१ ॥
सत्यं सत्यं पुनः सत्यं [न्],
धर्मं सांख्यं मयोदितम् ।
गुरुगीता - सम[न] नास्ति,
सत्यं सत्यं वरानने ॥ १६२ ॥
एको देव एक धर्म,
एकनिष्ठा परंतपः ।
गुरोः परतरं [न्] नान्त्यन्,
नास्ति तत्त्वं[ङ] गुरोः परम् ॥ १६३ ॥
माता धन्या पिता धन्यो,
धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि,
गुरु-भक्तिः सुदुर्लभा ॥ १६४ ॥
शरीरमिन्द्रियं प्राणशू,
चार्थः स्वजन - बांधवाः ।
माता पिता कुलं [न्] देवि,
गुरुरेव न संशयः ॥ १६५ ॥
आकल्पं जन्मना कोट्या,
जप- व्रत-तपः क्रियाः।
तत्सर्वं सफलं देवि,
गुरु-संतोष-मात्रतः ॥ १६६ ॥
विद्या- तपो बलेनैव,
मंद- भाग्याश्च ये नराः ।
गुरुसेवा [न्] न कुर्वन्ति,
सत्यं सत्यं वरानने ॥ १६७ ॥
ब्रह्म-विष्णु-महेशाश्च,
देवर्षि पितृ-किन्नराः ।
सिद्ध-चारण-यक्षाश्च,
अन्येऽपि मुनयो जनाः ॥१६८ ॥
गुरुभावः परं [न्] तीर्थम्,
अन्य तीर्थ [न्] निरर्थकम् ।
सर्व तीर्थाश्रयं [न्] देवि,
पादांगुष्ठं [ञ] च वर्तते ॥ १६९ ॥
जपेन जयमाप्नोति,
चानन्त- फलमाप्नुयात् ।
हीन कर्म त्यजन्सर्व,
स्थानानि चाधमानि च ॥ १७० ॥
उग्रध्यानं[ङ] कुक्कुटस्थं,
हीनकर्म-फलप्रदम् ।
गुरुगीता प्रयाणे वा,
संग्रामे रिपुसंकटे ॥ १७१ ॥
जपते जयमाप्नोति,
मरणे मुक्ति-दायकम् ।
सर्व-कर्म च सर्वत्र,
गुरु-पुत्रस्य सिध्यति ॥१७२ ॥
इदं रहस्य[न्] नो वाच्यं [न],
तवाग्रे कथितं मया ।
सुगोप्या॑[ञ] च प्रयत्नेन,
मम त्वं [न्] च प्रियात्विति ॥ १७३ ॥
स्वामि- मुख्य- गणेशादि,
- विष्ण्वादीनां[ञ] च पार्वति ।
मनसापि न वक्तव्यं,
सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥
अतीव-पक्व चित्ताय,
श्रद्धा-भक्ति युताय च ।
प्रवक्तव्यमिदं[न] देवि,
ममात्माऽसि सदा प्रिये ॥१७५ ॥
अभक्ते वंचके धूर्ते,
पाखंडे नास्तिके नरे ।
मनसापि न वक्तव्या,
गुरुगीता कदाचन ॥ १७६ ॥
॥ इति श्रीस्कंद पुराणे उत्तर- खंडे
ईश्वर-पार्वती संवादे गुरुगीता समाप्ता ॥
॥ श्रीगुरुदेव दत्तात्रेयार्पणम् अस्तु ॥