अथ तृतीयोऽध्यायः । कर्मयोगः
अर्जुन उवाच ।
ज्यायसी चेत् कर्मणस् ते,
मता बुद्धिर् जनार्दन ।
तत् किं कर्मणि घोरे मां,
नियोजयसि केशव ॥ ३-१॥
व्यामिश्रेणेव वाक्येन,
बुद्धिं मोहयसि इव मे ।
तदेकं वद निश्चित्य,
येन श्रेयो अहम् आप्नुयाम् ॥ ३-२॥
श्रीभगवानुवाच ।
लोके अस्मिन् द्विविधा निष्ठा,
पुरा प्रोक्ता मया अनघ ।
ज्ञानयोगेन साङ्ख्यानां,
कर्मयोगेन योगिनाम् ॥ ३-३॥
न कर्मणाम् अनारम्भान्,
नैष्कर्म्यं पुरुषो अश्नुते ।
न च संन्यसनाद् एव,
सिद्धिं समधिगच्छति ॥ ३-४॥
न हि कश्चित् क्षणम् अपि,
जातु तिष्ठति अकर्मकृत् ।
कार्यते हि अवशः कर्म,
सर्वः प्रकृतिजैर् गुणैः ॥ ३-५॥
कर्मेन्द्रियाणि संयम्य,
य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा,
मिथ्याचारः स उच्यते ॥ ३-६॥
य: तु इन्द्रियाणि मनसा,
नियम्य आरभते अर्जुन ।
कर्मेन्द्रियैः कर्मयोगम्,
असक्तः स विशिष्यते ॥ ३-७॥
नियतं कुरु कर्म त्वं,
कर्म ज्यायो हि अकर्मणः ।
शरीर-यात्रा अपि च ते,
न प्रसिद्ध्येद् अकर्मणः ॥ ३-८॥
यज्ञार्थात् कर्मणो अन्यत्र,
लोको अयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय,
मुक्तसंगः समाचर ॥ ३-९॥
सहयज्ञाः प्रजाः सृष्ट्वा,
पुरा उवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम्,
एष वो अस्तु इष्ट-कामधुक् ॥ ३-१०॥
देवान् भावयत अनेन,
ते देवा भावयन्तु वः ।
परस्परं भावयन्तः,
श्रेयः परम् अवाप्स्यथ ॥ ३-११॥
इष्टान् भोगान् हि वो देवा,
दास्यन्ते यज्ञभाविताः ।
तैर् दत्तान् अप्रदाय एभ्यो,
यो भुङ्क्ते स्तेन एव सः ॥ ३-१२॥
यज्ञशिष्टाशिनः सन्तो,
मुच्यन्ते सर्वकिल्बिषैः ।
भुंजते ते तु अघं पापा,
ये पचन्ति आत्म-कारणात् ॥ ३-१३॥
अन्नाद् भवन्ति भूतानि,
पर्जन्याद् अन्न-सम्भवः ।
यज्ञाद् भवति पर्जन्यो,
यज्ञः कर्म-समुद्भवः ॥ ३-१४॥
कर्म ब्रह्मोद्भवं विद्धि,
ब्रह्म अक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म,
नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥
एवं प्रवर्तितं चक्रं,
न अनुवर्तयति इह यः ।
अघायुर् इन्द्रियारामो,
मोघं पार्थ स जीवति ॥ ३-१६॥
यस् तु आत्मरतिर् एव स्याद्,
आत्मतृप्तश् च मानवः ।
आत्मनि एव च सन्तुष्टस्,
तस्य कार्यं न विद्यते ॥ ३-१७॥
न एव तस्य कृतेन अर्थो,
न अकृतेन इह कश्चन ।
न च अस्य सर्वभूतेषु,
कश्चिद् अर्थ-व्यपाश्रयः ॥ ३-१८॥
तस्माद् असक्तः सततं,
कार्यं कर्म समाचर ।
असक्तो हि आचरन् कर्म,
परम् आप्नोति पूरुषः ॥ ३-१९॥
कर्मणा एव हि संसिद्धिम्,
आस्थिता जनकादयः ।
लोकसंग्रहम् एव अपि,
संपश्यन् कर्तुम् अर्हसि ॥ ३-२०॥
यद् यद् आचरति श्रेष्ठस्,
तत् तद् एव इतरो जनः ।
स यत् प्रमाणं कुरुते,
लोकस् तद् अनुवर्तते ॥ ३-२१॥
न मे पार्थ अस्ति कर्तव्यं,
त्रिषु लोकेषु किञ्चन ।
न अनवाप्तम् अवाप्तव्यं,
वर्त एव च कर्मणि ॥ ३-२२॥
यदि हि अहं न वर्तेयं,
जातु कर्मणि अतन्द्रितः ।
मम वर्त्म अनुवर्तन्ते,
मनुष्याः पार्थ सर्वशः ॥ ३-२३॥
उत्सीदेयुर् इमे लोका,
न कुर्यां कर्म चेद् अहम् ।
संकरस्य च कर्ता स्याम्
उपहन्याम् इमाः प्रजाः ॥ ३-२४॥
सक्ताः कर्मणि अविद्वांसो,
यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथा असक्तश्,
चिकीर्षुर् लोकसङ्ग्रहम् ॥ ३-२५॥
न बुद्धिभेदं जनयेद्,
अज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि,
विद्वान् युक्तः समाचरन् ॥ ३-२६॥
प्रकृतेः क्रियमाणानि,
गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा,
कर्ता अहम् इति मन्यते ॥ ३-२७॥
तत्त्ववित् तु महाबाहो,
गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त,
इति मत्वा न सज्जते ॥ ३-२८॥
प्रकृतेर् गुणसम्मूढाः,
सज्जन्ते गुणकर्मसु ।
तान् अकृत्स्नविदो मन्दान्,
कृत्स्नविन् न विचालयेत् ॥ ३-२९॥
मयि सर्वाणि कर्माणि,
संन्यस्य अध्यात्म-चेतसा ।
निराशीर् निर्ममो भूत्वा,
युध्यस्व विगत-ज्वरः ॥ ३-३०॥
ये मे मतम् इदं नित्यम्,
अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो अनसूयन्तो,
मुच्यन्ते ते अपि कर्मभिः ॥ ३-३१॥
ये तु एतद् अभ्यसूयन्तो,
न अनुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस् तान्,
विद्धि नष्टान् अचेतसः ॥ ३-३२॥
सदृशं चेष्टते स्वस्याः,
प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि,
निग्रहः किं करिष्यति ॥ ३-३३॥
इन्द्रियस्य इन्द्रियस्य अर्थे,
रागद्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत्,
तौ हि अस्य परिपन्थिनौ ॥ ३-३४॥
श्रेयान् स्वधर्मो विगुणः,
परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः,
परधर्मो भयावहः ॥ ३-३५॥
अर्जुन उवाच ।
अथ केन प्रयुक्तोअयं,
पापं चरति पूरुषः ।
अनिच्छन् अपि वार्ष्णेय,
बलाद् इव नियोजितः ॥ ३-३६॥
श्रीभगवानुवाच ।
काम एष क्रोध एष,
रजोगुणसमुद्भवः ।
महाशनो महापाप्मा,
विद्धि एनम् इह वैरिणम् ॥ ३-३७॥
धूमेन आव्रियते वह्निर्,
यथा आदर्शो मलेन च ।
यथा उल्बेन आवृतो गर्भस्,
तथा तेन इदम् आवृतम् ॥ ३-३८॥
आवृतं ज्ञानम् एतेन,
ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय,
दुष्पूरेण अनलेन च ॥ ३-३९॥
इन्द्रियाणि मनो बुद्धिर्,
अस्य अधिष्ठानम् उच्यते ।
एतैर् विमोहयति एष,
ज्ञानम् आवृत्य देहिनम् ॥ ३-४०॥
तस्मात् त्वम् इन्द्रियाणि आदौ,
नियम्य भरतर्षभ ।
पाप्मानं प्रजहि हि एनं,
ज्ञान-विज्ञान-नाशनम् ॥ ३-४१॥
इन्द्रियाणि पराणि आहुर्,
इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर्,
यो बुद्धेः परतस् तु सः ॥ ३-४२॥
एवं बुद्धेः परं बुद्ध्वा,
संस्तभ्य आत्मानम् आत्मना ।
जहि शत्रुं महाबाहो,
कामरूपं दुरासदम् ॥ ३-४३॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे कर्मयोगो
नाम तृतीयोऽध्यायः ॥ ३॥