अथ दशमोऽध्यायः । विभूतियोगः
श्रीभगवानुवाच ।
भूय एव महाबाहो,
शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय,
वक्ष्यामि हित-काम्यया ॥ १०-१॥
न मे विदुः सुरगणाः,
प्रभवं न महर्षयः ।
अहमादिर् हि देवानां,
महर्षीणां च सर्वशः ॥ १०-२॥
यो माम् अजम् अनादिं च,
वेत्ति लोक-महेश्वरम् ।
असंमूढः स मर्त्येषु,
सर्वपापैः प्रमुच्यते ॥ १०-३॥
बुद्धिर् ज्ञानम् असम्मोहः,
क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽ(अ)भावो,
भयं च अभयमेव च ॥ १०-४॥
अहिंसा समता तुष्टिस्,
तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां,
मत्त एव पृथग्विधाः ॥ १०-५॥
महर्षयः सप्त पूर्वे,
चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता,
येषां लोक इमाः प्रजाः ॥ १०-६॥
एतां विभूतिं योगं च,
मम यो वेत्ति तत्त्वतः ।
सोऽ(अ)विकम्पेन योगेन,
युज्यते नात्र संशयः ॥ १०-७॥
अहं सर्वस्य प्रभवो,
मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां,
बुधा भावसमन्विताः ॥ १०-८॥
मच्चित्ता मद्गतप्राणा,
बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं,
तुष्यन्ति च रमन्ति च ॥ १०-९॥
तेषां सततयुक्तानां,
भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं,
येन माम् उपयान्ति ते ॥ १०-१०॥
तेषामेव अनुकम्पार्थम्,
अहम् अज्ञानजं तमः ।
नाशयामि आत्मभावस्थो,
ज्ञानदीपेन भास्वता ॥ १०-११॥
अर्जुन उवाच ।
परं ब्रह्म परं धाम,
पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम्,
आदिदेवम् अजं विभुम् ॥ १०-१२॥
आहुस् त्वाम् ऋषयः सर्वे,
देवर्षिर् नारदस् तथा ।
असितो देवलो व्यासः,
स्वयं चैव ब्रवीषि मे ॥ १०-१३॥
सर्वमेतद् ऋतं मन्ये,
यन्मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं,
विदुर् देवा न दानवाः ॥ १०-१४॥
स्वयमेव आत्मनात्मानं,
वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश,
देवदेव जगत्पते ॥ १०-१५॥
वक्तुम् अर्हसि अशेषेण,
दिव्या हि आत्मविभूतयः ।
याभिर् विभूतिभिर् लोकान्,
इमां त्वं व्याप्य तिष्ठसि ॥ १०-१६॥
कथं विद्याम् अहं योगिंस्,
त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु,
चिन्त्योऽसि भगवन्मया ॥ १०-१७॥
विस्तरेण आत्मनो योगं,
विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि,
शृण्वतो नास्ति मेऽ(अ)मृतम् ॥ १०-१८॥
श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि,
दिव्या हि आत्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ,
नास्ति अन्तो विस्तरस्य मे ॥ १०-१९॥
अहमात्मा गुडाकेश,
सर्व-भूताशय-स्थितः ।
अहम् आादिश्च मध्यं च,
भूतानाम् अन्त एव च ॥ १०-२०॥
आदित्यानाम् अहं विष्णुर्,
ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि,
नक्षत्राणाम् अहं शशी ॥ १०-२१॥
वेदानां सामवेदोऽस्मि,
देवानाम् अस्मि वासवः ।
इन्द्रियाणां मनश्च अस्मि,
भूतानाम् अस्मि चेतना ॥ १०-२२॥
रुद्राणां शंकरश्च अस्मि,
वित्तेशो यक्ष-रक्षसाम् ।
वसूनां पावकश्च अस्मि,
मेरुः शिखरिणाम् अहम् ॥ १०-२३॥
पुरोधसां च मुख्यं मां,
विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहं स्कन्दः,
सरसाम् अस्मि सागरः ॥ १०-२४॥
महर्षीणां भृगुरहं,
गिराम् अस्मि एकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि,
स्थावराणां हिमालयः ॥ १०-२५॥
अश्वत्थः सर्व-वृक्षाणां,
देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः,
सिद्धानां कपिलो मुनिः ॥ १०-२६॥
उच्चैःश्रवसम् अश्वानां,
विद्धि माम् अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां,
नराणां च नराधिपम् ॥ १०-२७॥
आयुधानाम् अहं वज्रं,
धेनूनाम् अस्मि कामधुक् ।
प्रजनश्च अस्मि कन्दर्पः,
सर्पाणाम् अस्मि वासुकिः ॥ १०-२८॥
अनन्तश्च अस्मि नागानां,
वरुणो यादसाम् अहम् ।
पितॄणाम् अर्यमा चास्मि,
यमः संयमताम् अहम् ॥ १०-२९॥
प्रह्लादश्च अस्मि दैत्यानां,
कालः कलयताम् अहम् ।
मृगाणां च मृगेन्द्रोऽहं,
वैनतेयश्च पक्षिणाम् ॥ १०-३०॥
पवनः पवताम् अस्मि,
रामः शस्त्र-भृताम् अहम् ।
झषाणां मकरश् च अस्मि,
स्रोतसाम् अस्मि जाह्नवी ॥ १०-३१॥
सर्गाणाम् आदिरन्तश्च,
मध्यं च एवाहम् अर्जुन ।
अध्यात्मविद्या विद्यानां,
वादः प्रवदताम् अहम् ॥ १०-३२॥
अक्षराणाम् अकारोऽस्मि,
द्वन्द्वः सामासिकस्य च ।
अहमेव अक्षयः कालो,
धाता(अ)हं विश्वतोमुखः ॥ १०-३३॥
मृत्युः सर्वहरश्च अहम्,
उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर् वाक्च नारीणां,
स्मृतिर् मेधा धृतिः क्षमा ॥ १०-३४॥
बृहत्साम तथा साम्नां,
गायत्री छन्दसाम् अहम् ।
मासानां मार्गशीर्षोऽ(अ)हम्,
ऋतूनां कुसुमाकरः ॥ १०-३५॥
द्यूतं छलयताम् अस्मि,
तेजस् तेजस्विनाम् अहम् ।
जयोऽस्मि व्यवसायोऽस्मि,
सत्त्वं सत्त्ववताम् अहम् ॥ १०-३६॥
वृष्णीनां वासुदेवोऽ(अ)स्मि,
पाण्डवानां धनञ्जयः ।
मुनीनाम् अप्यहं व्यासः,
कवीनाम् उशना कविः ॥ १०-३७॥
दण्डो दमयताम् अस्मि,
नीतिर् अस्मि जिगीषताम् ।
मौनं चैव अस्मि गुह्यानां,
ज्ञानं ज्ञानवताम् अहम् ॥ १०-३८॥
यच्चापि सर्वभूतानां,
बीजं तदहम् अर्जुन ।
न तदस्ति विना यत्स्यान्,
मया भूतं चराचरम् ॥ १०-३९॥
नान्तोऽ(अ)स्ति मम दिव्यानां,
विभूतीनां परन्तप ।
एष तु उद्देशतः प्रोक्तो,
विभूतेर् विस्तरो मया ॥ १०-४०॥
यद्यद् विभूतिमत् सत्त्वं,
श्रीमद् उर्जितम् एव वा ।
तत्तद् एव अवगच्छ त्वं,
मम तेजोंऽश-सम्भवम् ॥ १०-४१॥
अथवा बहुना एतेन,
किं ज्ञातेन तवार्जुन ।
विष्टभ्य अहमिदं कृत्स्नम्,
एकांशेन स्थितो जगत् ॥ १०-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥