अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः
अर्जुन उवाच ।
ये शास्त्रविधिम् उत्सृज्य,
यजन्ते श्रद्धया(अ)न्विताः ।
तेषां निष्ठा तु का कृष्ण,
सत्त्वमाहो रजस्तमः ॥ १७-१॥
श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा,
देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव,
तामसी चेति तां शृणु ॥ १७-२॥
सत्त्वानुरूपा सर्वस्य,
श्रद्धा भवति भारत ।
श्रद्धामयोऽ(अ)यं पुरुषो,
यो यच्छ्रद्धः स एव सः ॥ १७-३॥
यजन्ते सात्त्विका देवान्,
यक्ष-रक्षांसि राजसाः ।
प्रेतान् भूतगणान् चान्ये,
यजन्ते तामसा जनाः ॥ १७-४॥
अशास्त्र-विहितं घोरं,
तप्यन्ते ये तपो जनाः ।
दम्भाहंकार-संयुक्ताः,
काम-राग-बलान्विताः ॥ १७-५॥
कर्षयन्तः शरीरस्थं,
भूतग्रामम् अचेतसः ।
मां चैवान्तःशरीरस्थं,
तान्विद्धि आसुरनिश्चयान् ॥ १७-६॥
आहारस्तु अपि सर्वस्य,
त्रिविधो भवति प्रियः ।
यज्ञस् तपस् तथा दानं,
तेषां भेदम् इमं शृणु ॥ १७-७॥
आयुःसत्त्व-बलारोग्य-,
सुख-प्रीति-विवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या,
आहाराः सात्त्विकप्रियाः ॥ १७-८॥
कट्वम्ल-लवणात्युष्ण-,
तीक्ष्ण-रूक्ष-विदाहिनः ।
आहारा राजसस्य इष्टा,
दुःख-शोकामय-प्रदाः ॥ १७-९॥
यातयामं गतरसं,
पूति पर्युषितं च यत् ।
उच्छिष्टम् अपि च अमेध्यं,
भोजनं तामस-प्रियम् ॥ १७-१०॥
अफलांकांक्षिभिर् यज्ञो,
विधिदृष्टो य इज्यते ।
यष्टव्यम् एवेति मनः,
समाधाय स सात्त्विकः ॥ १७-११॥
अभिसन्धाय तु फलं,
दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ,
तं यज्ञं विद्धि राजसम् ॥ १७-१२॥
विधिहीनम् असृष्टान्नं,
मन्त्रहीनम् अदक्षिणम् ।
श्रद्धा-विरहितं यज्ञं,
तामसं परिचक्षते ॥ १७-१३॥
देव-द्विज-गुरु-प्राज्ञ-,
पूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च,
शारीरं तप उच्यते ॥ १७-१४॥
अनुद्वेग-करं वाक्यं,
सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव,
वाङ्मयं तप उच्यते ॥ १७-१५॥
मनः प्रसादः सौम्यत्वं,
मौनम् आत्मविनिग्रहः ।
भावसंशुद्धिर् इति एतत्,
तपो मानसम् उच्यते ॥ १७-१६॥
श्रद्धया परया तप्तं,
तपस् तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर् युक्तैः,
सात्त्विकं परिचक्षते ॥ १७-१७॥
सत्कार-मान-पूजार्थं,
तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं,
राजसं चलम् अध्रुवम् ॥ १७-१८॥
मूढग्राहेण आत्मनो,
यत् पीडया क्रियते तपः ।
परस्य उत्सादनार्थं वा,
तत् तामसम् उदाहृतम् ॥ १७-१९॥
दातव्यम् इति यद् दानं,
दीयतेऽ(अ)नुपकारिणे ।
देशे काले च पात्रे च,
तद् दानं सात्त्विकं स्मृतम् ॥ १७-२०॥
यत्तु प्रत्युपकारार्थं,
फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं,
तद् दानं राजसं स्मृतम् ॥ १७-२१॥
अदेशकाले यद् दानम्,
अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं,
तत् तामसम् उदाहृतम् ॥ १७-२२॥
ॐतत्सद् इति निर्देशो,
ब्रह्मणस् त्रिविधः स्मृतः ।
ब्राह्मणास् तेन वेदाश्च,
यज्ञाश्च विहिताः पुरा ॥ १७-२३॥
तस्माद् ओम् इति उदाहृत्य,
यज्ञ-दान-तपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः,
सततं ब्रह्म-वादिनाम् ॥ १७-२४॥
तद् इति अनभिसन्धाय,
फलं यज्ञतपःक्रियाः ।
दान-क्रियाश्च विविधाः,
क्रियन्ते मोक्ष-कांक्षिभिः ॥ १७-२५॥
सत् भावे साधुभावे च,
सद् इति एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा,
सत् शब्दः पार्थ युज्यते ॥ १७-२६॥
यज्ञे तपसि दाने च,
स्थितिः सद् इति च उच्यते ।
कर्म चैव तदर्थीयं,
सद् इति एव अभिधीयते ॥ १७-२७॥
अश्रद्धया हुतं दत्तं,
तपस् तप्तं कृतं च यत् ।
असद् इति उच्यते पार्थ,
न च तत् प्रेत्य नो इह ॥ १७-२८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥