अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः
श्रीभगवानुवाच ।
मयि आसक्त-मनाः पार्थ,
योगं युंजन् मदाश्रयः ।
असंशयं समग्रं मां,
यथा ज्ञास्यसि तत् शृणु ॥ ७-१॥
ज्ञानं तेऽहं सविज्ञानम्,
इदं वक्ष्यामि अशेषतः ।
यज्ज्ञात्वा नेह भूयो अन्यत्,
ज्ञातव्यम् अवशिष्यते ॥ ७-२॥
मनुष्याणां सहस्रेषु,
कश्चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां,
कश्चिन् मां वेत्ति तत्त्वतः ॥ ७-३॥
भूमिरापो अनलो वायुः,
खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे,
भिन्ना प्रकृतिर् अष्टधा ॥ ७-४॥
अपरा इयम् इत: तु अन्यां,
प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो,
ययेदं धार्यते जगत् ॥ ७-५॥
एतद् योनीनि भूतानि,
सर्वाणि इति उपधारय ।
अहं कृत्स्नस्य जगतः,
प्रभवः प्रलयस्तथा ॥ ७-६॥
मत्तः परतरं नान्यत्,
किंचिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं,
सूत्रे मणिगणा इव ॥ ७-७॥
रसोऽहम् अप्सु कौन्तेय,
प्रभास्मि शशि-सूर्ययोः ।
प्रणवः सर्ववेदेषु,
शब्दः खे पौरुषं नृषु ॥ ७-८॥
पुण्यो गन्धः पृथिव्यां च,
तेजश् च अस्मि विभावसौ ।
जीवनं सर्वभूतेषु,
तपश्च अस्मि तपस्विषु ॥ ७-९॥
बीजं मां सर्वभूतानां,
विद्धि पार्थ सनातनम् ।
बुद्धिर् बुद्धिमताम् अस्मि,
तेजस् तेजस्विनाम् अहम् ॥ ७-१०॥
बलं बलवतां चाहं,
काम-राग-विवर्जितम् ।
धर्माविरुद्धो भूतेषु,
कामोऽस्मि भरतर्षभ ॥ ७-११॥
ये चैव सात्त्विका भावा,
राजसास् तामसाश्च ये ।
मत्त एवेति तान् विद्धि,
न त्वहं तेषु ते मयि ॥ ७-१२॥
त्रिभिर् गुणमयैर् भावैर्,
एभिः सर्वमिदं जगत् ।
मोहितं न अभिजानाति,
मामेभ्यः परमव्ययम् ॥ ७-१३॥
दैवी ह्येषा गुणमयी,
मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते
मायाम् एतां तरन्ति ते ॥ ७-१४॥
न मां दुष्कृतिनो मूढाः,
प्रपद्यन्ते नराधमाः ।
मायया अपहृत-ज्ञाना,
आसुरं भावम् आश्रिताः ॥ ७-१५॥
चतुर्विधा भजन्ते मां,
जनाः सुकृतिन: अर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी,
ज्ञानी च भरतर्षभ ॥ ७-१६॥
तेषां ज्ञानी नित्ययुक्त,
एकभक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो अत्यर्थम्,
अहं स च मम प्रियः ॥ ७-१७॥
उदाराः सर्व एवैते,
ज्ञानी त्वात्मा एव मे मतम् ।
आस्थितः स हि युक्तात्मा,
मामेव अनुत्तमां गतिम् ॥ ७-१८॥
बहूनां जन्मनाम् अन्ते,
ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वमिति,
स महात्मा सुदुर्लभः ॥ ७-१९॥
कामै: तै: तै: हृतज्ञानाः,
प्रपद्यन्ते अन्यदेवताः ।
तं तं नियमम् आस्थाय,
प्रकृत्या नियताः स्वया ॥ ७-२०॥
यो यो यां यां तनुं भक्तः,
श्रद्धया अर्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां,
तामेव विदधाम्यहम् ॥ ७-२१॥
स तया श्रद्धया युक्तस्,
तस्याराधनम् ईहते ।
लभते च ततः कामान्,
मयैव विहितान् हि तान् ॥ ७-२२॥
अन्तवत्तु फलं तेषां,
तद् भवति अल्पमेधसाम् ।
देवान् देवयजो यान्ति,
मद् भक्ता यान्ति मामपि ॥ ७-२३॥
अव्यक्तं व्यक्तिम् आपन्नं,
मन्यन्ते मामबुद्धयः ।
परं भावम् अजानन्तो,
ममाव्ययम् अनुत्तमम् ॥ ७-२४॥
नाहं प्रकाशः सर्वस्य,
योगमाया-समावृतः ।
मूढोऽयं नाभिजानाति,
लोको माम् अजम् अव्ययम् ॥ ७-२५॥
वेदाहं समतीतानि,
वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि,
मां तु वेद न कश्चन ॥ ७-२६॥
इच्छा-द्वेष-समुत्थेन,
द्वन्द्व-मोहेन भारत ।
सर्वभूतानि सम्मोहं,
सर्गे यान्ति परन्तप ॥ ७-२७॥
येषां तु अन्तगतं पापं,
जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्वमोह-निर्मुक्ता,
भजन्ते मां दृढव्रताः ॥ ७-२८॥
जरा-मरण*मोक्षाय,
माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तद् विदुः कृत्स्नम्,
अध्यात्मं कर्म चाखिलम् ॥ ७-२९॥
साधिभूताधिदैवं मां,
साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां,
ते विदुर् युक्तचेतसः ॥ ७-३०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥