अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः
अर्जुन उवाच ।
ये शास्त्रविधिमुत्सृज्य,
यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण,
सत्त्वमाहो रजस्तमः ॥ १७-१॥
श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा,
देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव,
तामसी चेति तां शृणु ॥ १७-२॥
सत्त्वानुरूपा सर्वस्य,
श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो,
यो यच्छ्रद्धः स एव सः ॥ १७-३॥
यजन्ते सात्त्विका देवान्,
यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये,
यजन्ते तामसा जनाः ॥ १७-४॥
अशास्त्रविहितं घोरं,
तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः,
कामरागबलान्विताः ॥ १७-५॥
कर्षयन्तः शरीरस्थं,
भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं,
तान्विद्ध्यासुरनिश्चयान् ॥ १७-६॥
आहारस्त्वपि सर्वस्य,
त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं,
तेषां भेदमिमं शृणु ॥ १७-७॥
आयुःसत्त्वबलारोग्य-,
सुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या,
आहाराः सात्त्विकप्रियाः ॥ १७-८॥
कट्वम्ललवणात्युष्ण-,
तीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा,
दुःखशोकामयप्रदाः ॥ १७-९॥
यातयामं गतरसं,
पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं,
भोजनं तामसप्रियम् ॥ १७-१०॥
अफलांकांक्षिभिर्यज्ञो,
विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः,
समाधाय स सात्त्विकः ॥ १७-११॥
अभिसन्धाय तु फलं,
दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ,
तं यज्ञं विद्धि राजसम् ॥ १७-१२॥
विधिहीनमसृष्टान्नं,
मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं,
तामसं परिचक्षते ॥ १७-१३॥
देवद्विजगुरुप्राज्ञ-,
पूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च,
शारीरं तप उच्यते ॥ १७-१४॥
अनुद्वेगकरं वाक्यं,
सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव,
वाङ्मयं तप उच्यते ॥ १७-१५॥
मनः प्रसादः सौम्यत्वं,
मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्,
तपो मानसमुच्यते ॥ १७-१६॥
श्रद्धया परया तप्तं,
तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः,
सात्त्विकं परिचक्षते ॥ १७-१७॥
सत्कारमानपूजार्थं,
तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं,
राजसं चलमध्रुवम् ॥ १७-१८॥
मूढग्राहेणात्मनो,
यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा,
तत्तामसमुदाहृतम् ॥ १७-१९॥
दातव्यमिति यद्दानं,
दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च,
तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०॥
यत्तु प्रत्युपकारार्थं,
फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं,
तद्दानं राजसं स्मृतम् ॥ १७-२१॥
अदेशकाले यद्दानम्,
अपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं,
तत्तामसमुदाहृतम् ॥ १७-२२॥
ॐतत्सदिति निर्देशो,
ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च,
यज्ञाश्च विहिताः पुरा ॥ १७-२३॥
तस्मादोमित्युदाहृत्य,
यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः,
सततं ब्रह्मवादिनाम् ॥ १७-२४॥
तदित्यनभिसन्धाय,
फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः,
क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥
सद्भावे साधुभावे च,
सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा,
सच्छब्दः पार्थ युज्यते ॥ १७-२६॥
यज्ञे तपसि दाने च,
स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं,
सदित्येवाभिधीयते ॥ १७-२७॥
अश्रद्धया हुतं दत्तं,
तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ,
न च तत्प्रेत्य नो इह ॥ १७-२८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥