अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः
अर्जुन उवाच ।
मदनुग्रहाय परमं,
गुह्यम् अध्यात्म-संज्ञितम् ।
यत् त्वया उक्तं वचस् तेन,
मोहोऽ(अ)यं विगतो मम ॥ ११-१॥
भवाप्ययौ हि भूतानां,
श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष,
माहात्म्यम् अपि चाव्ययम् ॥ ११-२॥
एवमेतद् यथात्थ त्वम्,
आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम्,
ऐैश्वरं पुरुषोत्तम ॥ ११-३॥
मन्यसे यदि तत् शक्यं,
मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं,
दर्शय आत्मानम् अव्ययम् ॥ ११-४॥
श्रीभगवानुवाच ।
पश्य मे पार्थ रूपाणि,
शतशोऽ(अ)थ सहस्रशः ।
नानाविधानि दिव्यानि,
नानावर्णाकृतीनि च ॥ ११-५॥
पश्य आदित्यान् वसून् रुद्रान्,
अश्विनौ मरुतस् तथा ।
बहूनि अदृष्टपूर्वाणि,
पश्य आश्चर्याणि भारत ॥ ११-६॥
इह एकस्थं जगत् कृत्स्नं,
पश्य अद्य सचराचरम् ।
मम देहे गुडाकेश,
यच्च अन्यद् द्रष्टुम् इच्छसि ॥ ११-७॥
न तु मां शक्यसे द्रष्टुम्,
अनेन एव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः,
पश्य मे योगम् ऐश्वरम् ॥ ११-८॥
सञ्जय उवाच ।
एवम् उक्त्वा ततो राजन्,
महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय,
परमं रूपम् ऐश्वरम् ॥ ११-९॥
अनेक-वक्त्र-नयनम्,
अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं,
दिव्यानेकोद्यतायुधम्
(समास- दिव्य अनेक उद्युत आयुधं)
दिव्य-माल्याम्बर-धरं,
दिव्य-गन्धानुलेपनम् ।
सर्वाश्चर्य-मयं देवम्,
अनन्तं विश्वतोमुखम् ॥ ११-११॥
दिवि सूर्य-सहस्रस्य,
भवेद् युगपद् उत्थिता ।
यदि भाः सदृशी सा स्याद्,
भासस् तस्य महात्मनः ॥ ११-१२॥
तत्र एकस्थं जगत् कृत्स्नं,
प्रविभक्तम् अनेकधा ।
अपश्यद् देवदेवस्य,
शरीरे पाण्डवस् तदा ॥ ११-१३॥
ततः स विस्मयाविष्टो,
हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं,
कृताञ्जलिर् अभाषत ॥ ११-१४॥
अर्जुन उवाच ।
पश्यामि देवांस् तव देव देहे
सर्वांस् तथा भूत-विशेष-संघान् ।
ब्रह्माणम् ईशं कमलासनस्थम्
ऋषींश्च सर्वान् उरगांश्च दिव्यान् ॥ ११-१५॥
अनेक-बाहूदर-वक्त्र-नेत्रं
पश्यामि त्वां सर्वतोऽ(अ)नन्तरूपम् ।
नान्तं न मध्यं न पुनस् तव आदिं
पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥ ११-१७॥
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वत-धर्म-गोप्ता
सनातनस् त्वं पुरुषो मतो मे ॥ ११-१८॥
अनादिमध्यान्तम् अनन्त-वीर्यम्
अनन्तबाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वां दीप्त-हुताश-वक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥
द्यावापृथिव्योर् इदम् अन्तरं हि
व्याप्तं त्वया एकेन दिशश्च सर्वाः ।
दृष्ट्वा(अ)द्भुतं रूपम् उग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥
अमी हि त्वां सुरसंघा विशन्ति
केचिद् भीताः प्रांजलयो गृणन्ति ।
स्वस्ती इति उक्त्वा महर्षि-सिद्ध-संघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥
रुद्रादित्या वसवो ये च साध्या
विश्वेऽ(अ)श्विनौ मरुतश्च उष्मपाश्च ।
गन्धर्व-यक्षासुर-सिद्ध-संघा
वीक्षन्ते त्वां विस्मिताश्च एव सर्वे ॥ ११-२२॥
रूपं महत्ते बहु-वक्त्र-नेत्रं
महाबाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्रा-करालं
दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥ ११-२३॥
नभःस्पृशं दीप्तम् अनेकवर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥
दंष्ट्रा-करालानि च ते मुखानि
दृष्ट्वा एव कालानल-सन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ ११-२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सह एव अवनि-पाल-संघैः ।
भीष्मो द्रोणः सूतपुत्रस् तथासौ
सह अस्मदीयैर् अपि योध-मुख्यैः ॥ ११-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्रा-करालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैर् उत्तमांगैः ॥ ११-२७॥
यथा नदीनां बहवोऽ(अ)म्बुवेगाः
समुद्रम् एव अभिमुखा द्रवन्ति ।
तथा तव अमी नर-लोक-वीरा
विशन्ति वक्त्राणि अभि-विज्वलन्ति ॥ ११-२८॥
यथा प्रदीप्तं ज्वलनं पतंगा
विशन्ति नाशाय समृद्ध-वेगाः ।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्ध-वेगाः ॥ ११-२९॥
लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं
भासस् तव उग्राः प्रतपन्ति विष्णो ॥ ११-३०॥
आख्याहि मे को भवान् उग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥
श्रीभगवानुवाच ।
कालोऽ(अ)स्मि लोक-क्षय-कृत् प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋतेऽ(अ)पि त्वां न भविष्यन्ति सर्वे
येऽ(अ)वस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥
तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम् ।
मया एव एते निहताः पूर्वमेव
निमित्त-मात्रं भव सव्य-साचिन् ॥ ११-३३॥
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथा अन्यानपि योधवीरान् ।
मया हतांस् त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥
सञ्जय उवाच ।
एतत् श्रुत्वा वचनं केशवस्य
कृतांजलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥
अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यति अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ११-३६॥
कस्मात् च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणो अपि आदिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत् तत्परं यत् ॥ ११-३७॥
त्वम् आदिदेवः पुरुषः पुराणस्-
त्वम् अस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वम् अनन्त-रूप ॥ ११-३८॥
वायुर् यमोऽ(अ)ग्निर् वरुणः शशांकः
प्रजापतिस् त्वं प्रपितामहश् च ।
नमो नमस्तेऽ(अ)स्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥
नमः पुरस्ताद् अथ पृष्ठतस् ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्त-वीर्यामित-विक्रमस् त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ॥ ११-४१॥
यच्च अवहासार्थम् असत्कृतोऽ(अ)सि
विहार-शय्यासन-भोजनेषु ।
एकोऽ(अ)थवा अपि अच्युत तत् समक्षं
तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ११-४२॥
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर् गरीयान् ।
न त्वत्समो अस्ति अभ्यधिकः कुतोऽन्यो
लोकत्रये अपि अप्रतिम-प्रभाव ॥ ११-४३॥
तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियाया अर्हसि देव सोढुम् ॥ ११-४४॥
अदृष्ट-पूर्वं हृषितोऽ(अ)स्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ११-४५॥
किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्र-बाहो भव विश्वमूर्ते ॥ ११-४६॥
श्रीभगवानुवाच ।
मया प्रसन्नेन तव अर्जुन इदं
रूपं परं दर्शितम् आत्मयोगात् ।
तेजोमयं विश्वम् अनन्तम् आद्यं
यन्मे त्वदन्येन न दृष्ट-पूर्वम् ॥ ११-४७॥
न वेद-यज्ञाध्ययनैर् न दानैर्-
न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपम् इदं प्रपश्य ॥ ११-४९॥
सञ्जय उवाच ।
इत्यर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर् महात्मा ॥ ११-५०॥
अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं,
तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः,
सचेताः प्रकृतिं गतः ॥ ११-५१॥
श्रीभगवानुवाच ।
सुदुर्दर्शम् इदं रूपं,
दृष्टवानसि यन्मम ।
देवा अपि अस्य रूपस्य,
नित्यं दर्शन-कांक्षिणः ॥ ११-५२॥
नाहं वेदैर् न तपसा,
न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं,
दृष्टवानसि मां यथा ॥ ११-५३॥
भक्त्या तु अनन्यया शक्य,
अहम् एवंविधोऽ(अ)र्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन,
प्रवेष्टुं च परन्तप ॥ ११-५४॥
मत्कर्मकृन् मत्परमो,
मद्भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्वभूतेषु यः,
स मामेति पाण्डव ॥ ११-५५॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥