अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच ।
अभयं सत्त्व-संशुद्धिर्,
ज्ञानयोग-व्यवस्थितिः ।
दानं दमश्च यज्ञश्च,
स्वाध्यायस् तप आर्जवम् ॥ १६-१॥
अहिंसा सत्यम् अक्रोधस्,
त्यागः शान्तिर् अपैशुनम् ।
दया भूतेषु अलोलुप्त्वं,
मार्दवं ह्रीर-चापलम् ॥ १६-२॥
तेजः क्षमा धृतिः शौचम्,
अद्रोहो न अतिमानिता ।
भवन्ति सम्पदं दैवीम्,
अभिजातस्य भारत ॥ १६-३॥
दम्भो दर्पोऽ(अ)भिमानश्च,
क्रोधः पारुष्यम् एव च ।
अज्ञानं च अभिजातस्य,
पार्थ सम्पदम् आसुरीम् ॥ १६-४॥
दैवी सम्पद् विमोक्षाय,
निबन्धाय आसुरी मता ।
मा शुचः सम्पदं दैवीम्,
अभिजातोऽसि पाण्डव ॥ १६-५॥
द्वौ भूतसर्गौ लोकेऽ(अ)स्मिन्,
दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त,
आसुरं पार्थ मे शृणु ॥ १६-६॥
प्रवृत्तिं च निवृत्तिं च,
जना न विदुर् आसुराः ।
न शौचं नापि चाचारो,
न सत्यं तेषु विद्यते ॥ १६-७॥
असत्यम् अप्रतिष्ठं ते,
जगदाहुर् अनीश्वरम् ।
अपरस्पर-सम्भूतं,
किम् अन्यत् कामहैतुकम् ॥ १६-८॥
एतां दृष्टिम् अवष्टभ्य,
नष्टात्मानोऽ(अ)ल्पबुद्धयः ।
प्रभवंति उग्रकर्माणः,
क्षयाय जगतोऽ(अ)हिताः ॥ १६-९॥
कामम् आश्रित्य दुष्पूरं,
दम्भ-मान-मदान्विताः ।
मोहाद् गृहीत्वा(अ)सद्ग्राहान्,
प्रवर्तन्तेऽ(अ)शुचिव्रताः ॥ १६-१०॥
चिन्ताम् अपरिमेयां च,
प्रलयान्ताम् उपाश्रिताः ।
कामोपभोग-परमा,
एतावद् इति निश्चिताः ॥ १६-११॥
आशा-पाश-शतैर् बद्धाः,
काम-क्रोध-परायणाः ।
ईहन्ते काम-भोगार्थम्,
अन्यायेन अर्थ-संचयान् ॥ १६-१२॥
इदम् अद्य मया लब्धम्,
इमं प्राप्स्ये मनोरथम् ।
इदम् अस्तीदम् अपि मे,
भविष्यति पुनर्धनम् ॥ १६-१३॥
असौ मया हतः शत्रुर्,
हनिष्ये च अपरान् अपि ।
ईश्वरोऽ(अ)हम् अहं भोगी,
सिद्धोऽ(अ)हं बलवान् सुखी ॥ १६-१४॥
आढ्योऽ(अ)भिजनवान् अस्मि,
कोऽ(अ)न्योऽ(अ)स्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य,
इति अज्ञान-विमोहिताः ॥ १६-१५॥
अनेक-चित्त-विभ्रान्ता,
मोह-जाल-समावृताः ।
प्रसक्ताः कामभोगेषु,
पतन्ति नरकेऽ(अ)शुचौ ॥ १६-१६॥
आत्म-सम्भाविताः स्तब्धा,
धन-मान-मदान्विताः ।
यजन्ते नामयज्ञैस् ते,
दम्भेन अविधि-पूर्वकम् ॥ १६-१७॥
अहंकारं बलं दर्पं,
कामं क्रोधं च संश्रिताः ।
माम् आत्म-पर-देहेषु,
प्रद्विषन्तोऽ(अ)भ्यसूयकाः ॥ १६-१८॥
तान् अहं द्विषतः क्रूरान्,
संसारेषु नराधमान् ।
क्षिपामि अजस्रम् अशुभान्,
आसुरीषु एव योनिषु ॥ १६-१९॥
आसुरीं योनिम् आपन्ना,
मूढा जन्मनि जन्मनि ।
माम् अप्राप्य एव कौन्तेय,
ततो यांति अधमां गतिम् ॥ १६-२०॥
त्रिविधं नरकस्य इदं,
द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस्,
तस्माद् एतत् त्रयं त्यजेत् ॥ १६-२१॥
एतैर् विमुक्तः कौन्तेय,
तमोद्वारैस् त्रिभिर् नरः ।
आचरति आत्मनः श्रेयस्,
ततो याति परां गतिम् ॥ १६-२२॥
यः शास्त्रविधिम् उत्सृज्य,
वर्तते काम-कारतः ।
न स सिद्धिम् अवाप्नोति,
न सुखं न परां गतिम् ॥ १६-२३॥
तस्मात् शास्त्रं प्रमाणं ते,
कार्याकार्य-व्यवस्थितौ ।
ज्ञात्वा शास्त्र-विधानोक्तं,
कर्म कर्तुम् इह अर्हसि ॥ १६-२४॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥