अथ पञ्चमोऽध्यायः । संन्यासयोगः
अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण,
पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं,
तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥
श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च,
निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्,
कर्मयोगो विशिष्यते ॥ ५-२॥
ज्ञेयः स नित्यसंन्यासी,
यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो,
सुखं बन्धात्प्रमुच्यते ॥ ५-३॥
साङ्ख्ययोगौ पृथग्बालाः,
प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यग्,
उभयोर्विन्दते फलम् ॥ ५-४॥
यत्साङ्ख्यैः प्राप्यते स्थानं,
तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च,
यः पश्यति स पश्यति ॥ ५-५॥
संन्यासस्तु महाबाहो,
दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म,
नचिरेणाधिगच्छति ॥ ५-६॥
योगयुक्तो विशुद्धात्मा,
विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा,
कुर्वन्नपि न लिप्यते ॥ ५-७॥
नैव किञ्चित्करोमीति,
युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्,
अश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥
प्रलपन्विसृजन्गृह्णन्,
उन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु,
वर्तन्त इति धारयन् ॥ ५-९॥
ब्रह्मण्याधाय कर्माणि,
सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन,
पद्मपत्रमिवाम्भसा ॥ ५-१०॥
कायेन मनसा बुद्ध्या,
केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति,
सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥
युक्तः कर्मफलं त्यक्त्वा,
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण,
फले सक्तो निबध्यते ॥ ५-१२॥
सर्वकर्माणि मनसा,
संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही,
नैव कुर्वन्न कारयन् ॥ ५-१३॥
न कर्तृत्वं न कर्माणि,
लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं,
स्वभावस्तु प्रवर्तते ॥ ५-१४॥
नादत्ते कस्यचित्पापं,
न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं,
तेन मुह्यन्ति जन्तवः ॥ ५-१५॥
ज्ञानेन तु तदज्ञानं,
येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं,
प्रकाशयति तत्परम् ॥ ५-१६॥
तद्बुद्धयस्तदात्मानस्,
तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं,
ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥
विद्याविनयसम्पन्ने,
ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च,
पण्डिताः समदर्शिनः ॥ ५-१८॥
इहैव तैर्जितः सर्गो,
येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म,
तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥
न प्रहृष्येत्प्रियं प्राप्य,
नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो,
ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥
बाह्यस्पर्शेष्वसक्तात्मा,
विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा,
सुखमक्षयमश्नुते ॥ ५-२१॥
ये हि संस्पर्शजा भोगा,
दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय,
न तेषु रमते बुधः ॥ ५-२२॥
शक्नोतीहैव यः सोढुं,
प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं,
स युक्तः स सुखी नरः ॥ ५-२३॥
योऽन्तःसुखोऽन्तरारामस्,
तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं,
ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥
लभन्ते ब्रह्मनिर्वाणम्,
ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः,
सर्वभूतहिते रताः ॥ ५-२५॥
कामक्रोधवियुक्तानां,
यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं,
वर्तते विदितात्मनाम् ॥ ५-२६॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्,
चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा,
नासाभ्यन्तरचारिणौ ॥ ५-२७॥
यतेन्द्रियमनोबुद्धिर्,
मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो,
यः सदा मुक्त एव सः ॥ ५-२८॥
भोक्तारं यज्ञतपसां,
सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां,
ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥