॥ श्रीमत् भगवद्गीता ॥
॥ ॐ श्री परमात्मने नमः ॥
अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे,
समवेता युयुत्सवः ।
मामकाः पाण्डवा: च एव,
किम् अकुर्वत सञ्जय ॥ १-१॥
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवा-नीकं,
व्यूढं दुर्योधन: तदा ।
आचार्यम् उपसंगम्य,
राजा वचनम् अब्रवीत् ॥ १-२॥
पश्य एतां पाण्डु-पुत्राणाम्,
आचार्य महतीं चमूम् ।
व्यूढां द्रुपद-पुत्रेण,
तव शिष्येण धीमता ॥ १-३॥
अत्र शूरा महेष्वासा,
भीमार्जुन-समा युधि ।
युयुधानो विराट: च,
द्रुपद: च महारथः ॥ १-४॥
धृष्टकेतु: चेकितानः,
काशिराज: च वीर्यवान् ।
पुरुजित् कुन्तिभोज: च,
शैब्य: च नर-पुंगवः ॥ १-५॥
युधामन्यु: च विक्रान्त,
उत्तमौजा: च वीर्यवान् ।
सौभद्रो द्रौपदेया: च,
सर्व एव महारथाः ॥ १-६॥
अस्माकं तु विशिष्टा ये,
तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य,
संज्ञार्थं तान् ब्रवीमि ते ॥ १-७॥
भवान् भीष्म: च कर्ण: च,
कृप: च समितिञ्जयः ।
अश्वत्थामा विकर्ण: च,
सौमदत्ति: तथैव च ॥ १-८॥
अन्ये च बहवः शूरा,
मदर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः,
सर्वे युद्ध-विशारदाः ॥ १-९॥
अपर्याप्तं तद् अस्माकं,
बलं भीष्म-अभिरक्षितम् ।
पर्याप्तं तु इदं एतेषां,
बलं भीम-अभिरक्षितम् ॥ १-१०॥
अयनेषु च सर्वेषु,
यथा-भागम् अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु,
भवन्तः सर्व एव हि ॥ १-११॥
तस्य संजनयन् हर्षं,
कुरुवृद्धः पितामहः ।
सिंह-नादं विनद्य उच्चैः,
शंखम् दध्मौ प्रतापवान् ॥ १-१२॥
ततः शंखा: च भेर्य: च,
पणव-आनक-गोमुखाः ।
सहसा एव अभ्यहन्यन्त,
स शब्द: तुमुलो अभवत् ॥ १-१३॥
ततः श्वेतैर् हयैर् युक्ते,
महति स्यन्दने स्थितौ ।
माधवः पाण्डव: च एव,
दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥
पांचजन्यं हृषीकेशो,
देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशंखम्,
भीमकर्मा वृकोदरः ॥ १-१५॥
अनन्त-विजयं राजा,
कुन्ती-पुत्रो युधिष्ठिरः ।
नकुलः सहदेव: च,
सुघोष-मणि-पुष्पकौ ॥ १-१६॥
काश्य: च परमेष्वासः,
शिखण्डी च महारथः ।
धृष्टद्युम्नो विराट: च,
सात्यकि: च अपराजितः ॥ १-१७॥
द्रुपदो द्रौपदेया: च,
सर्वशः पृथिवीपते ।
सौभद्र: च महाबाहुः,
शंखान् दध्मुः पृथक्-पृथक् ॥ १-१८॥
स घोषो धार्त-राष्ट्राणां,
हृदयानि व्यदारयत् ।
नभ: च पृथिवीं च एव,
तुमुलो व्यनुनादयन् ॥ १-१९॥
अथ व्यवस्थितान् दृष्ट्वा,
धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते,
धनुर् उद्यम्य पाण्डवः ॥ १-२०॥
हृषीकेशं तदा वाक्यम्,
इदम् आह महीपते ।
अर्जुन उवाच ।
सेनयोर् उभयोर् मध्ये,
रथं स्थापय मे अच्युत ॥ १-२१॥
यावद् एतान् निरीक्षे अहं,
योद्धु-कामान् अवस्थितान् ।
कैर् मया सह योद्धव्यम्,
अस्मिन् रण-समुद्यमे ॥ १-२२॥
योत्स्यमानान् अवेक्षे अहं,
य एते अत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्,
युद्धे प्रिय-चिकीर्षवः ॥ १-२३॥
संजय उवाच ।
एवम् उक्तो हृषीकेशो,
गुडाकेशेन भारत ।
सेनयोर् उभयोर् मध्ये,
स्थापयित्वा रथोत्तमम् ॥ १-२४॥
भीष्म-द्रोण-प्रमुखतः,
सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्य एतान्,
समवेतान् कुरून् इति ॥ १-२५॥
तत्र अपश्यत् स्थितां पार्थः,
पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन्,
पुत्रान् पौत्रान् सखीं तथा ॥ १-२६॥
श्वशुरान् सुहृद: च एव,
सेनयोर् उभयोर् अपि ।
तान् समीक्ष्य स कौन्तेयः,
सर्वान् बन्धून् अवस्थितान् ॥ १-२७॥
कृपया परया आविष्टो,
विषीदन् इदम् अब्रवीत् ।
अर्जुन उवाच ।
दृष्ट्वा इमं स्वजनं कृष्ण,
युयुत्सुं समुपस्थितम् ॥ १-२८॥
सीदन्ति मम गात्राणि,
मुखं च परि-शुष्यति ।
वेपथु: च शरीरे मे,
रोमहर्ष: च जायते ॥ १-२९॥
गाण्डीवं स्रंसते हस्तात्,
त्वक् च एव परि-दह्यते ।
न च शक्नोमि अवस्थातुं,
भ्रमति इव च मे मनः ॥ १-३०॥
निमित्तानि च पश्यामि,
विपरीतानि केशव ।
न च श्रेय: अनुपश्यामि,
हत्वा स्वजनम् आहवे ॥ १-३१॥
न कांक्षे विजयं कृष्ण,
न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द,
किं भोगैर् जीवितेन वा ॥ १-३२॥
येषाम् अर्थे कांक्षितं नो,
राज्यं भोगाः सुखानि च ।
त इमे अवस्थिता युद्धे,
प्राणान् त्यक्त्वा धनानि च ॥ १-३३॥
आचार्याः पितरः पुत्रास्,
तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः,
श्यालाः सम्बन्धिन: तथा ॥ १-३४॥
एतान् न हन्तुम् इच्छामि,
घ्नतो अपि मधुसूदन ।
अपि त्रैलोक्य-राज्यस्य,
हेतोः किं नु मही-कृते ॥ १-३५॥
निहत्य धार्तराष्ट्रान् नः,
का प्रीतिः स्यात् जनार्दन ।
पापम् एव आश्रयेद् अस्मान्,
हत्वा एतान् आततायिनः ॥ १-३६॥
तस्मान् न अर्हा वयं हन्तुं,
धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा,
सुखिनः स्याम माधव ॥ १-३७॥
यद्यपि एते न पश्यन्ति,
लोभोपहत-चेतसः ।
कुल-क्षय-कृतं दोषं,
मित्र-द्रोहे च पातकम् ॥ १-३८॥
कथं न ज्ञेयम् अस्माभिः,
पापाद् अस्मान् निवर्तितुम् ।
कुल-क्षय-कृतं दोषं,
प्रपश्यद्भिर् जनार्दन ॥ १-३९॥
कुल-क्षये प्रणश्यन्ति,
कुल-धर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम्,
अधर्मो अभिभवति उत ॥ १-४०॥
अधर्माभिभवात् कृष्ण,
प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय,
जायते वर्णसंकरः ॥ १-४१॥
संकरो नरकाय एव,
कुलघ्नानां कुलस्य च ।
पतन्ति पितरो हि एषां,
लुप्त-पिण्डोदक-क्रियाः ॥ १-४२॥
दोषैर् एतैः कुलघ्नानां,
वर्ण-संकर-कारकैः ।
उत्साद्यन्ते जातिधर्माः,
कुलधर्मा: च शाश्वताः ॥ १-४३॥
उत्सन्न-कुल-धर्माणां,
मनुष्याणां जनार्दन ।
नरके नियतं वासो,
भवति इति अनुशुश्रुम ॥ १-४४॥
अहो बत महत्पापं,
कर्तुं व्यवसिता वयम् ।
यद् राज्य-सुख-लोभेन,
हन्तुं स्वजनम् उद्यताः ॥ १-४५॥
यदि माम् अप्रतीकारम्,
अशस्त्रं शस्त्र-पाणयः ।
धार्तराष्ट्रा रणे हन्युस्,
तन् मे क्षेमतरं भवेत् ॥ १-४६॥
सञ्जय उवाच ।
एवम् उक्त्वा अर्जुनः संख्ये,
रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं,
शोक-संविग्न-मानसः ॥ १-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥