1- एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तरम्- राजस्थानस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते।
(ख) गजपरिमाणं कः धारयति?
उत्तरम्- गजपरिमाणं गजधरः धारयति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तरम्- कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म।
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तरम्- गजधराः शिल्पिरूपेण न समादृताः भवन्ति।
2- अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तरम्- तडागाः सम्पूर्ण देशे निर्मीयन्ते स्म।
(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तरम्- गजधराः वास्तुकाराणां रूपे परिचिताः।
(ग) गजधराः किं कुर्वन्ति स्म?
उत्तरम्- गजधराः नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) के सम्माननीयाः?
उत्तरम्- गजधराः सम्माननीयाः।
3- रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तरम्- कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तरम्- केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तरम्- कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तरम्- कः सुन्दरः शब्दः अस्ति?
(ङ) तडागाः संसारसागराः कथ्यन्ते।
उत्तरम्- काः संसारसागराः कथ्यन्ते?
4- अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
(क) अद्य + अपि = अद्यापि
(ऽ) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(घ) सहसा + एव = सहसैव
5- मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
रचयन्ति गृहीत्वा सहसा जिज्ञासा सह
(क) छात्रः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।
6- पदनिर्माणं कुरुत-
धातुः प्रत्ययः पदम्
यथा कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = हर्तुम्
तृ + तुमुन् = तर्तुम्
यथा नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्त्वा
उपसर्गः धातुः प्रत्ययः पदम्
यथा उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = सम्पूज्य
आ नी ल्यप् = आनीय
प्र दा ल्यप् = प्रदाय
7- कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ग्रामम् उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) नगरम् सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् कापुरुषम् । (कापुरुष)
यथा- मृगाः मृगैः सह धावन्ति। (मृग)
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)
(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशुः मात्रा सह क्रीडति। (मातृ)