1- पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
2- श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य भवन्त्यपेयाः।
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) विद्याफलं व्यसनिनं कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः दैवम् अवलम्बते।
(च) चिन्तनीया हि विपदाम् आदौ प्रतिक्रियाः।
3- प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?
उत्तरम्- विद्याफलम्
(ख) कस्य यशः नश्यति?
उत्तरम्- लुब्धस्य
(ग) मधुमक्षिका किं जनयति?
उत्तरम्- माधुर्यम्
(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तरम्- सन्तः
(ङ) अर्थिनः केभ्यः विमुखं न यान्ति?
उत्तरम्- महीरुहेभ्यः
4- अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
यथा-कंजूस कृपणः
कड़वा कटुकम्
पूँछ पुच्छः
लोभी लुब्धः
मधुमक्खी मधुमक्षिका
तिनका तृणम्
5- अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि कर्ता क्रिया
यथा सन्तः मधुरसूक्तरसं सृजन्ति। सन्तः सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषाः। दोषाः भवन्ति
(ख) गुणज्ञेषु गुणाः भवन्ति। गुणाः भवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत्। मधुमक्षिका जनयेत्
(घ) पिशुनस्य मैत्री यशः नाशयति। मैत्री नाशयति
(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति। नद्यः भवन्ति
6- रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
उत्तरम्- के गुणज्ञेषु गुणाः भवन्ति?
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
उत्तरम्- काः सुस्वादुतोयाः भवन्ति?
(ग) लुब्धस्य यशः नश्यति।
उत्तरम्- कस्य यशः नश्यति?
(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तरम्- का माधुर्यमेव जनयति?
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तरम्- तस्य कुत्र तिष्ठन्ति वायसाः?
7- उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा-समुद्रमासाद्य - समुद्रम्+ आसाद्य
माधुर्यमेव- माधुर्यम् + एव
अल्पमेव - अल्पम् + एव
सर्वमेव - सर्वम् + एव
दैवमेव - दैवम् + एव
महात्मनामुक्तिः - महात्मनाम् + उक्तिः
विपदामादावेव - विपदाम् + आदौ + एव