1- उच्चारणं कुरुत-
अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्
2- निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं पठामि। - (बहुवचने ) - वयं पठामः।
(क) अहं नृत्यामि। - (बहुवचने ) - वयं नृत्यामः।
(ख) त्वं पठसि। - (बहुवचने ) - यूयं पठथ।
(ग) युवां क्रीडथः। - (एकवचने) - त्वं क्रीडसि।
(घ) आवां गच्छावः। - (बहुवचने ) - वयं गच्छामः।
(ङ) अस्माकं पुस्तकानि। - (एकवचने) - मम पुस्तकम् ।
(च) तव गृहम् - (द्विवचने) - युवयोः गृहे।
3- कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) अहं पठामि। (वयम् /अहम्)
(ख) युवां गच्छथः। (युवाम् /यूयम्)
(ग) एतत् मम पुस्तकम् (माम् /मम)
(घ) युष्माकं क्रीडनकानि। (युष्मान् /युष्माकम्)
(ङ) आवां छात्रे स्वः। (वयम् /आवाम्)
(च) एषा तव लेखनी। (तव/त्वाम्)
4- क्रियापदैः वाक्यानि पूरयत-
पठसि धावामः गच्छावः क्रीडथः लिखामि पश्यथ
यथा- अहं पठामि।
(क) त्वं पठसि।
(ख) आवां गच्छावः।
(ग) यूयं पश्यथ।
(घ) अहं लिखामि।
(ङ) युवां क्रीडथः।
(च) वयं धावामः।
5- उचितपदैः वाक्यनिर्माणं कुरुत-
मम तव आवयोः युवयोः अस्माकम् युष्माकम्
यथा- एषा मम पुस्तिका।
(क) एतत् मम गृहम्।
(ख) आवयोः मैत्री दृढा।
(ग) एषः तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकं देशः।
(च) एतानि युष्माकं पुस्तकानि।
6- एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा- एषः - एते
(क) सः - ते
(ख) ताः - सा
(ग) एताः - एषा
(घ) त्वम् - यूयम्
(ङ) अस्माकम् - मम
(च) तव - युष्माकम्
(छ) एतानि - एतत्
7- (क) वार्तालापे रिक्तस्थानानि पूरयत-
यथा- प्रियंवदा - शकुन्तले! त्वं किं करोषि?
शकुन्तला - प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि?
प्रियंवदा - शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला - प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।
प्रियंवदा - शकुन्तले! किं तव माता नृत्यति।
शकुन्तला - आम्, मम माता अपि नृत्यति।
प्रियंवदा - साधु, आवां चलावः।
(ख) उपयुक्तेन अर्थेन सह योजयत-
शब्दः अर्थ
सा वह (स्त्रीलिंग)
तानि वे (नपुंसकलिंग)
अस्माकम् हमारा
यूयम् तुम सब
आवाम् हम दोनों
मम मेरा
युवयोः तुम दोनों का
तव तुम्हारा