1- एकपदेन उत्तरत-
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
उत्तरम् - ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पण्डिता रमाबाई विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
उत्तरम् - रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई केन सह विवाहम् अकरोत्?
उत्तरम् - रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
उत्तरम् - नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।
(घ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
उत्तरम् - रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।
2- रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
उत्तरम् - कस्याः पिता समाजस्य प्रतारणाम् असहत?
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
उत्तरम् - कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्?
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
उत्तरम् - रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत्?
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तरम् - 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?
(घ) स्त्रियः शिक्षां लभन्ते स्म।
उत्तरम् - काः शिक्षां लभन्ते स्म?
3- प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
उत्तरम् - रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
उत्तरम् - निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनां च लभन्ते स्म।
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
उत्तरम् - समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
उत्तरम् - ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।
4- अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि मूलशब्दः लिघ्गम् विभक्ति: वचनम्
यथा- वेदानाम् वेद पुल्लिंगम् षष्ठी बहुवचनम्
पिता पितृ पुल्लिंगम् प्रथमा एकवचनम्
शिक्षायै शिक्षा स्त्रीलिंगम् चतुर्थी एकवचनम्
कन्याः कन्या स्त्रीलिंगम् प्रथमा बहुवचनम्
नारीणाम् नारी स्त्रीलिंगम् षष्ठी बहुवचनम्
मनोरमया मनोरमा स्त्रीलिंगम् तृतीया एकवचनम्
5- अधोलिखितानां धातूनां लकारं पुरुषं वचनं च लिखत-
धातुः लकारः पुरुषः वचनम्
यथा- आसीत् अस् लङ् प्रथमपुरुषः एकवचनम्
कुर्वन्ति कृ लट् प्रथमपुरुषः बहुवचनम्
आगच्छत् आ+गम् लङ् प्रथमपुरुषः एकवचनम्
निवसन्ति नि उपसर्ग वस् लट् प्रथमपुरुषः बहुवचनम्
गमिष्यति गम् लृट प्रथमपुरुषः एकवचनम्
अकरोत् कृ लङ् प्रथमपुरुषः एकवचनम्
6- अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
1- (ख)1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
2- (च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
3- (क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
4- (ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
5- (घ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
6- (ङ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।