1. एकपदेन उत्तरत–
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तरम्- सामाजिककुरीतीनाम्
(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तरम्- शीर्णवस्त्रावृताः निम्नजातीयाः नार्यः
(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तरम्- सावित्रीबाई फुले
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
उत्तरम्- नापितैः
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तरम्- बालिकानाम्
2. पूर्णवाक्येन उत्तरत–
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तरम्- सामाजिकात्याचारं सहमानापि सावित्रीबाई स्वदृढनिश्चयात् न विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
उत्तरम्- सावित्रीबाईफुलेमहोदयायाः माता नाम लक्ष्मीबाई पिता च खंडोजी आसीत् ।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तरम्- विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः स्त्रीशिक्षासमर्थनेन उत्साहं प्राप्तवती।
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तरम्- जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। एवञ्च, सा स्वगृहस्थं तडागं दर्शयित्वा यथेष्टं जलं नेतुम् अकथयत्।
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तरम्- "महिला सेवामण्डल" "शिशुहत्या प्रतिबन्धक गृह" इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्वपूर्णम् आसीत्।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तरम्- सत्यशोधकमण्डलस्य उद्देश्यमासीत् उत्पीडितानां समुदयानां स्वाधिकारान् प्रति जागरणम्।
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तरम्- तस्याः काव्यसंकलनद्वयं वर्तते "काव्यफुले" "सुबोधरत्नाकर" चेति।
3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तरम्- सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तरम्- सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तरम्- सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
उत्तरम्- तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तरम्- साहित्यरचनया अपि का महीयते?
4. यथानिर्देशमुत्तरत–
(क) इदं चित्रं पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्- इदं चित्रं पाठशालाया वर्तते - अत्र ’वर्तते’ इति क्रियापदस्य कर्तृपदं भवति ’ इदं चित्रं ’ इति।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तरम्- तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति - अस्मिन् वाक्ये विशेषणं भवति ‘स्वकीयम्’ इति।
(ग) अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
उत्तरम्- अपि यूयमिमां महिलां जानीथ - अस्मिन् वाक्ये ‘यूयम्’ इति पदं ‘अस्मभ्यः’ प्रयुक्तम्।
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम्- सा ताः स्त्रियः निजगृहं नीतवती - अस्मिन् वाक्ये ’सा’ इति सर्वनामपदं ‘सावित्रीबाई फुले’ इत्यस्यै प्रयुक्तम्।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तरम्- शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म - अत्र ’नार्यः’ इति पदस्य विशेषणपदानि चत्वारि सन्ति। तानि च - शीर्णवस्त्रावृताः, तथाकथिताः, निम्नजातीयाः, काश्चित् च।
5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) स्वकीयम् - स्वकीयं कार्यं कुरु।
(ख) सविनोदम् - शिक्षिका सविनोदं छात्रान् पाठयति।
(ग) सक्रिया - शिशोः विकासाय माता सदैव सक्रिया भवति।
(घ) प्रदेशस्य - अस्य प्रदेशस्य नाम किम्?
(ङ) मुखरम् – गांधीमहोदयःसामाजिककुरीतीनाम् मुखरं विरोधम् अकरोत्।
(च) सर्वथा - सत्यरक्षायै सर्वथा यतनीयम्।
6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) उपरि – वृक्षस्य उपरि खगाः सन्ति।
(ख) आदानम् – विना अनुमतिं वस्तूनाम् आदानं न युक्तम्।
(ग) परकीयम् - परकीयं कार्यं कुरु।
(घ) विषमता – पाषाणस्य धर्मः विषमता अस्ति।
(ङ) व्यक्तिगतम् - व्यक्तिगतं कार्यं त्यक्त्वा परस्य कार्यं कुरु ।
(च) आरोहः - पर्वतारोहः सरलः न अस्ति ।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
( मार्गे अविरतम् अध्यापने अवदानम् यथेष्टम् मनसि)
(क) शिक्षणे - अध्यापने
(ख) पथि - मार्गे
(ग) हृदय - मनसि
(घ) इच्छानुसारम् - यथेष्टम्
(ङ) योगदानम् - अवदानम्
(च) निरन्तरम् - अविरतम्
7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् पुंल्लिङ्गम् द्वितीया एकवचनम्
(ख) नाम्नि नपुंसकलिङ्गम् सप्तमी एकवचनम्
(ग) अपरः पुंल्लिङ्गम् प्रथमा एकवचनम्
(घ) कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्
(ङ) सहभागिता स्त्रीलिङ्गम् प्रथमा एकवचनम्
(च) नापितैः पुंल्लिङ्गम् तृतीया बहुवचनम्
(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ख) सः त्रयोदशवर्षकल्पः आसीत्।
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(ग) महिलाः तडागात् जलं नयन्तु।
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(घ) वयः प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।