1- उच्चारण कुरुत-
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्,
गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्
2- एकपदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तरम् - गिरिजायाः गृहसेविकायाः नाम दर्शना आसीत्।
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तरम् - दर्शनायाः पुत्री अष्टवर्षीया आसीत्।
(ग) अद्घत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तरम् - अद्घत्वे शिक्षा अस्माकं मौलिकः अधिकारः।
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरम् - दर्शनायाः पुत्री करतलवादनसहितम् नृत्यति।
3- पूर्णवाक्येन उत्तरत-
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्था आसीत्?
उत्तरम् - अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्था आसीत्।
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तरम् - दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरम् - मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकायाः वार्तां कथयति।
(घ) अद्यत्वे छात्रः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तरम् - अद्यत्वे छात्र विद्यालये निःशुल्कं गणवेषं, पुस्तकानि, पुस्तकस्यूतं, पादत्रणं, मध्याह्नभोजनं, छात्रवृत्तिं च प्राप्नुवन्ति।
4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालिनी द्वारमुद्घाटयति?
उत्तरम् - का द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
उत्तरम् - शिक्षा केषां मौलिकः अधिकारः?
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
उत्तरम् - दर्शना आश्चर्येण कां पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तरम् - दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?
5- सन्धि विच्छेदं पूरयत-
(क) ग्रामं प्रति - ग्रामम् + प्रति
(ख) कार्यार्थम् - कार्य + अर्थम्
(ग) करिष्यत्येषा - करिष्यति + एषा
(घ) स्वोदरपूर्त्तिः -स्व + उदरपूर्त्तिः
(घ) अप्येवम् - अपि + एवम्
(अ) समानार्थकपदानि मेलयत-
आश्चर्येण - विस्मयेन
उल्लासेन - प्रसन्नतया
परिवारस्य - कुटुम्बस्य
अध्ययनस्य - पठनस्य
कालः - समयः
(आ) विलोमपदानि मेलयत-
क्रेतुम् - विक्रेतुम्
श्वः - ह्यः
ग्रामम् - नगरम्
समीपस्थम् - दूरस्थम्
पृच्छति - कथयति
6- विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषां बालकानाम्
मौलिकः अधिकारः
एषा अल्पवयस्का
सर्वकारीयं विद्यालयम्
समीपस्थे विद्यालये
सर्वासां बालिकानाम्
निःशुल्कं गणवेषम्