1-उच्चारणं कुरुत-
तरंगै: मत्स्यजीविनः विदेशिपर्यटकेभ्यः
संगमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बंगोपसागरः चन्द्रोदयः
2- अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) जनाः काभिः जलविहारं कुर्वन्ति?
उत्तरम्- जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
उत्तरम्- भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।
(ग) जनाः कुत्र स्वैरं विहरन्ति?
उत्तरम्- जनाः मुम्बईनगरस्य जुहूतटे स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः किं रचयन्ति?
उत्तरम्- बालकाः बालुकाभिः बालुकागृहं रचयन्ति।
(घ) कोच्चितटः केभ्यः ज्ञायते?
उत्तरम्- कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।
3- मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बंगोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा संगमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां संगमः भवति।
(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।
(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।
(घ) बालेभ्यः क्रीडा रोचते।
(घ) भारतस्य पूर्वदिशायां बंगोपसागरः अस्ति।
4- यथायोग्यं योजयत-
समुद्रतटः पर्यटनाय
क्रीडनकम् खेलनाय
दुग्धम् पोषणाय
दीपकः प्रकाशाय
विद्या ज्ञानाय
5- तृतीयाविभक्तिप्रयोगेण रितक्तस्थानानि पूरयत-
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)
(ऽ) तडागः कमलैः विभाति। (कमल)
(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)
(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)
(घ) मृगाः मृगैः सह चरन्ति। (मृग)
6- अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।
यथा- 1- रहीमः मित्रेण सह क्रीडति।
2- रहीमः द्विचक्रिकया आपणं गच्छति।
3- रहीमः कलमेन पत्रं लिखति।
4- रहीमः हस्तेन कन्दुकं क्षिपति।
5- रहीमः नौकया जलविहारं करोति।
6- रहीमः चषकेन जलं पिबति।
7- रहीमः तूलिकया चित्रं रचयति।
8- रहीमः वायुयानेन ह्यः आगच्छत्।
7-कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) धनिकः निर्धनाय धनं ददाति। (निर्धनम् / निर्धनाय)
(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय / पठनेन)
(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम् / परोपकाराय)
(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्रणाम् / छात्रेभ्यः)
(घ) शिक्षकाय नमः। (शिक्षकाय / शिक्षकम्)