एकादशः पाठः - समवायो हि दुर्जयः
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?
उत्तरम्- वृक्षे चटका प्रतिवसति स्म।
(ख) वृक्षस्य अधः कः आगतः?
उत्तरम्- वृक्षस्य अधः प्रमत्तः गजः आगतः।
(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तरम्- गजः शुण्डेन शाखाम् अत्रोटयत्।
(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तरम्- काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।
(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तरम्- मक्षिकायाः मित्रं मण्डूकः आसीत्।
2. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकायाः सन्ततिः जाता।
उत्तरम्- कालेन कस्या: सन्तति: जाता?
(ख) चटकायाः नीडं भुवि अपतत्।
उत्तरम्- चटकाया: किम् भुवि अपतत्?
(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तरम्- कस्य वधेनैव मम दुःखम् अपसरेत्?
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तरम्- काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि।
(ग) तृषार्तः गजः जलाशयं गमिष्यति।
(घ) गजः गर्ते पतिष्यति।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं अनयत्।
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति।
4.प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
उत्तरम्- चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत् "भद्रे किमर्थ विलपसि?"
(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका किम् अवदत्?
उत्तरम्- चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् - "ममापि मित्रं मण्डूक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।"
(ग) मेघनादः मक्षिकां किम् अवदत्?
उत्तरम्- मेघनाद: मक्षिकां अवदत् “यथाहं कथयामि तथा कुरुतम्।
(घ) चटका काष्ठकूटं किम् अवदत्?
उत्तरम्- चटका काष्ठकूटं अवदत् य - "दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।"
5.उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः पतिष्यति पतिष्यतः पतिष्यन्ति
प्रथमपुरुषः मरिष्यति मरिष्यतः मरिष्यन्ति
(ख)पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
(ग)पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः हसिष्यामि हसिष्यावः हसिष्यामः
उत्तमपुरुषः द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः
6. उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
यथा- अवसत् वसति स्म।
अपठत् पठति स्म।
अत्रोटयत् त्रोटयति स्म।
अपतत् पतति स्म।
अपृच्छत् पृच्छति स्म।
अवदत् वदति स्म।
अनयत् नयति स्म।
7.कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)
(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्रः, चत्वारि)
(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं ददति। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन्, अपठाम)