1. (क) उच्चारणं कुरुत।
छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडालः अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः
2. (ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
2 (क) वर्णसंयोजनेन पदं लिखत-
यथा- च्+ अ+ ष्+ अ+ क्+ अः = चषकः
स्+ औ+ च्+ इ+ क्+ अः = सौचिकः
श्+ उ+ न्+ अ+ क्+ औ = शुनकौ
ध्+ आ+ व्+ अ+ त्+ अः = धावतः
व्+ ऋ+ द्+ ध्+ आः = वृद्धाः
ग्+ आ+ य् + अ+ न्+ त्+ इ = गायन्ति
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- लघु:= ल् + अ+ घ् +उ:
सीव्यति = स्+ ई+ व्+ य्+अ + त्+ इ
वर्णाः = व्+ अ+ र्+ ण्+ आः
कुक्कुरौ = क्+ उ+ क्+ क्+ उ+ र्+ औ
मयूराः = म्+ अ+ य्+ ऊ+ र्+ आः
बालकः = ब्+ आ+ ल्+अ + क्+ अः
3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
बलीवर्दः बलीवर्दौ बलीवर्दाः
शुनकः शुनकौ शुनकाः
मृगः मृगौ मृगाः
सौचिकः सौचिकौ सौचिकाः
मयूरः मयूरौ मयूराः
4.चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
5. चित्रं दृष्टवा उत्तरं लिखत-
6. पदानि संयोज्य वाक्यानि रचयत-
गजाः चलन्ति
सिंहौ गर्जतः
गायकः गायति
बालकौ पठतः
मयूराः नृत्यन्ति
7. मंजूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति
(क) मयूराः नृत्यन्ति। (घ) सिंहौ गर्जतः।
(ख) गजौ चलतः। (घ) वानरः खादति।
(ग) वृक्षाः फलन्ति। (च) अश्वः धावति।
8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- अश्वः धावति। - सः धावति।
(क) गजाः चलन्ति। - ते चलन्ति।
(ख) छात्रौ पठतः। - तौ पठतः।
(ग) वानराः क्रीडन्ति। - ते क्रीडन्ति।
(घ) गायकः गायति। - सः गायति।
(घ) मयूराः नृत्यन्ति। - ते नृत्यन्ति।