पञ्चदश पाठः - मातुलचन्द्र
2. पद्यांशान् योजयत-
मातुल! किरसि - कथं न स्नेहम्
तारकखचितं - सितपरिधानम्
त्वरितमेहि मां - श्रावय गीतिम्
अतिशयविस्तृत - नीलाकाशः
धवलं तव - चन्द्रिकावितानम्
3. पद्यांशेषु रिक्तस्थानानि पूरयत-
(क) प्रिय मातुल! वर्धय मे प्रीतिम्।
(ख) कथं प्रयास्यसि मातुलचंद्र।
(ग) नैव दृश्यते क्वचिदवकाशः।
(घ) मह्यम् दास्यसि मातुलचन्द्र!
(ङ) कथमायासि न भो! मम गेहम्।
4. प्रश्नानाम् उत्तराणि लिखत-
(क) अस्मिन् पाठे कः मातुलः?
उत्तरम्- अस्मिन् पाठे चन्द्रः मातुलः।
(ख) नीलाकाशः कीदृशः अस्ति?
उत्तरम्- नीलाकाशः अतिशयविस्तृतः अस्ति।
(ग) मातुलचन्द्रः किं न किरति?
उत्तरम्- मातुलचन्द्रः स्नेहम् न किरति।
(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?
उत्तरम्- गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।
(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?
उत्तरम्- चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।
5. उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
(क) शिष्यः - शिष्य!
(ख) गोपालः - गोपाल!
यथा- बालिका - बालिके!
(क) प्रियंवदा - प्रियंवदे!
(ख) लता - लते!
यथा- फलम् - फल!
(क) मित्रम् - मित्र!
(ख) पुस्तकम् - पुस्तक!
यथा- रविः - रवे!
(क) मुनि: - मुने!
(ख) कविः - कवे!
यथा- साधुः - साधो!
(क) भानुः - भानो!
(ख) पशुः - पशो!
यथा- नदी - नदि!
(क) देवी - देवि!
(ख) मानिनी - मानिनि!
6. मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
कुतः कदा कुत्र कथं किम्
(क) जगन्नाथपुरी कुत्र अस्ति?
(ख) त्वं कदा पुरीं गमिष्यसि?
(ग) गङ्गानदी कुतः प्रवहति?
(घ) तव स्वास्थ्यं कथम् अस्ति?
(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?
7. तत्समशब्दान् लिखत-
मामा - मातुल।
मोर - मयूरः
तारा - तारकम्
कोयल - कोकिलः
कबूतर - कपोतः