1- शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। न
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति। न
(घ) चक्रं प्रगतेः द्योतकम्। आम्
2- अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि विभक्तिं वचनम्
यथा-त्रयाणाम् षष्ठी बहुवचनम्
समृद्धेः षष्ठी एकवचनम्
वर्णानाम् षष्ठी बहुवचनम्
उत्साहस्य षष्ठी एकवचनम्
नागरिकैः तृतीया बहुवचनम्
सात्त्विकतायाः षष्ठी एकवचनम्
प्राणानाम् षष्ठी बहुवचनम्
सभायाम् सप्तमी एकवचनम्
3-एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तरम् - अस्माकं ध्वजे त्रयः वर्णाः सन्ति।
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तरम् - त्रिवर्णे ध्वजे शक्त्याः सूचकः केशरवर्णः।
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तरम् - अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तरम् - त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।
4- एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तरम् - अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तरम् - अशोकस्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तरम् - त्रिवर्णध्वजस्य उत्तोलन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तरम् - अशोकचक्रे चतुर्विंशतिः अराः सन्ति।
5- अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तरम् - अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तरम् - स्वधर्मात् किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
उत्तरम् -एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तरम् - कस्य समक्षं विजयः सुनिश्चितः भवेत्?
6- उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा सप्तमी अग्निशिखायाम् अग्निशिखयोः अग्निशिखासु
सभा चतुर्थी सभायै सभाभ्याम् सभाभ्यः
अहिंसा द्वितीया अहिंसाम् अहिंसे अहिंसाः
सफलता पञ्चमी सफलतायाः सफलताभ्याम् सफलताभ्यः
सूचिका तृतीया सूचिकया सूचिकाभ्याम् सूचिकाभिः
7- समुचितमेलनं कृत्वा लिखत-
क ख
केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।