त्रयोदशः पाठः - विमानयानं रचयाम
2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–
यथा– नभ: चन्द्रेण शोभते। (चन्द्र)
(क) सा विमलेन जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: विमानयानेन वहरति। (विमानयान)
(ग) कण्ठ: मौक्तिकहारेण शोभते। (मौक्तिकहार)
(घ) नभ: सूर्येण प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते। (अम्बुदमाला)
3. भिन्नवर्गस्य पदं चिनुत–
भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:।
अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।
मित्राणि
(ख) जलचर:, खेचर:, भूचर:, निशाचर:।
निशाचरः
(ग) गाव:, सिंहा:, कच्छपा:, गजा:।
कच्छपाः
(घ) मयूरा:, चटका:, शुका:, मण्डूका:।
मण्डूकाः
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:।
सौचिकः
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।
अजा
4. प्रश्नानाम् उत्तराणि लिखत–
(क) के वायुयानं रचयन्ति?
उत्तरम्- राघव-माधव-सीता-ललिताः वायुयानं रचयन्ति।
(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?
उत्तरम्- वायुयानम् उन्नतवृक्षं तुङ्गं भवनम् च क्रान्त्वा उपरि गच्छति।
(ग) वयं कीदृशं सोपानं रचयाम?
उत्तरम्- वयं हिमवन्तं सोपानं रचयाम।
(घ) वयं कस्मिन् लोके प्रविशाम?
उत्तरम्- वयं चन्दिरलोकं प्रविशाम।
(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?
उत्तरम्- आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।
(च) केषां गृहेषु हर्षं जनयाम?
उत्तरम्- दुःखित-पीडित-कृषिजनानां गृहेषु हर्षं जनयाम।
5. विलोमपदानि योजयत–
उन्नतः – अवनतः
गगने – पृथिव्याम्
सुन्दरः – असुन्दरः
चित्वा – विकीर्य
दुःखी – सुखी
हर्षः - शोकः
6. समुचितै: पदै: रिक्तस्थनानि पूरयत–
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया गुरुम् गुरू गुरून्
तृतीया पशुना पशुभ्याम् पशुभिः
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
षष्ठी गुरोः गुर्वोः गुरूणाम्
सप्तमी शिशौ शिश्वोः शिशुषु
सम्बोधन हे विष्णो! हे विष्णू! हे विष्णवः!
7. पर्याय–पदानि योजयत–
गगने – आकाशे
विमले – निर्मले
चन्द्रः – निशाकरः
सूर्यः – दिवाकरः
अम्बुदः - जलदः