1- उच्चारणं कुरुत।
विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंशत्
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्
2- अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
उत्तरम्- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।
(ख) कस्य गृहे भृत्यः नास्ति?
उत्तरम्- कृष्णमूर्तेः गृहे कोsपि भृत्यः नास्ति।
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
उत्तरम्- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः तस्य पितरौ च अकुर्वन्।
(घ) सर्वदा कुत्र सुखम्?
उत्तरम्- सर्वदा स्वावलम्बने सुऽम्।
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
उत्तरम्- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तरम्- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति।
3- चित्रणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
अष्टादश एकविंशतिः
पञ्चदश षट्त्रिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत्
4-मञ्जूषातः अंकानां कृते पदानि चिनुत-
चत्वारिंशत् सप्तविंशतिः एकत्रिंशत् पञ्चाशत् अष्टाविंशतिः त्रिंशत् चतुर्विंशतिः
28 अष्टाविंशतिः 27 सप्तविंशतिः
30 त्रिंशत् 31 एकत्रिंशत्
24 चतुर्विंशतिः 40 चत्वारिंशत्
50 पञ्चाशत्
5- चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
कृषकाः कृषकौ एते धान्यम् एषः कृषकः
एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति
(क) एषः कृषकः क्षेत्रम् कर्षति।
(ख) एतौ कृषकौ खननकार्यम् कुरुतः।
(ग) एते कृषकाः धान्यम् रोपयन्ति।
6- अधोलिखितान् समयवाचकान् अंकान् पदेषु लिखत-
यथा- 10-30 सार्धदशवादनम् 5-00 पञ्चवादनम्
7-00 सप्तवादनम् 3-30 सार्धत्रिवादनम्
2-30 सार्धद्विवादनम् 9-00 नववादनम्
11-00 एकादशवादनम् 12-30 सार्धद्वादशवादनम्
4-30 सार्धचतुर्वादनम् 8-00 अष्टवादनम्
1-30 सार्धैकवादनम् 7-30 सार्धसप्तवादनम्
7- मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।