1. प्रश्नानामुत्तराणि एकपदेन लिखत–
(क) केन पीडितः वैभवः बहिरागतः?
उत्तरम्- विद्युदभावेन
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तरम्- वृक्षाः
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
उत्तरम्- अवकरभाण्डारम्
(घ) वयं शिक्षिताः अपि कथमाचरामः?
उत्तरम्- अशिक्षिता इव
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तरम्- पर्यावरणस्य
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तरम्- तालु
2. पूर्णवाक्येन उत्तराणि लिखत–
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तरम्- परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः।
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तरम्- अस्माभिः बहुभूमिभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते।
(ग) विनयः संगीतामाहूय किं वदति?
उत्तरम्- विनयः संगीतामाहूय वदति यत् महोदये! कृपां कुरु मार्गे भ्रमभ्यः। एतत् तु सर्वथा अशोभनं कृत्यम्। अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्कारा देयाः।
(घ) रोजलिन् आगत्य किं करोति?
उत्तरम्- रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरमण्डले पातयति।
(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
उत्तरम्- अन्ते जोसेफः पर्यावरणरक्षायै कथयति यत् तेषां पितॄणां शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । तथा च पर्यावरेण साकं पशवः अपि रक्षणीयाः।
3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तरम्- कया एव स्वच्छताsभियानमपि गतिं प्राप्स्यति?
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तरम्- धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्।
उत्तरम्- कः सर्वथावरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तरम्- सर्वे अवकरं संगृह्य कुत्र पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?
उत्तरम्- अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?
उत्तरम्- सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति?
4. सन्धिविच्छेदं पूरयत–
(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ
(ख) बहिरागत्य = बहिः + आगत्य
(ग) काञ्चित् = काम् + चित्
(घ) तद्वनम् = तत् + वनम्
(ङ) कलमेत्यादीनि - कलम + इति + आदीनि
(च) अतीवानन्दप्रदोऽयम् - अतीव + आनन्दप्रदः + अयम्
5. विशेषणपदैः सह विशेष्यपदानि योजयत–
काञ्चित् शान्तिम्
स्वच्छानि गृहाणि
पिहिते अवकरमण्डले
स्वच्छता स्वास्थ्यकरी
गच्छन्ति मित्राणि
अन्यत् अवकरम्
महती क्षतिः
6. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत–
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः। न
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति। आम्
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते। आम्
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते। आम्
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।न
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते। न
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति। आम्
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। आम्
7. घटनाक्रमानुसारं लिखत–
1. (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
2. (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
3. (ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्मरं विचारयन्ति।
4. (क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
5. (छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
6. (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
7. (ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।