1-अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तरम् - सम्पूर्णविश्वे
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरम् - कालपरिवर्तनेन
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरम् -रूप्यकाणाम्
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तरम् - कर्गदोद्योगे
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम् - चलदूरभाषायन्त्रेण
2- अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरम् - प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरम् - संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्यूनतां यास्यति।
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरम् - चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तरम् - वयं डिजीभारतम् इत्यस्यां दिशि अग्रेसरामः।
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम् - वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भवति।
3- रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरम् - भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरम् - लेखनार्थं कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरम् - कुत्र कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरम् - सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति?
(घ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तरम् - वयं किमर्थं चिकित्सालयं गच्छामः?
4- उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
यथा- विशेषण विशेष्य
संपूर्णे भारते
(क) मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(घ) मुद्राविहीनः (5) कार्याणि
उत्तरम् - (क) मौखिकं ज्ञानम्
(ख) मनोगते काले
(ग) टंकितानि कार्याणि
(घ) महान् उपकारः
(ङ) मुद्राविहीनः विनिमयः
5- अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य - पदस्यास्य
तालपत्र + उपरि - तालपत्रोपरि
च + अतिष्ठत - चातिष्ठत
कर्गद + उद्योगे - कर्गदोद्योगे
क्रय + अर्थम् - क्रयार्थम्
इति + अनयोः - इत्यनयोः
उपचार + अर्थम् - उपचारार्थम्
6- उदाहरणमनुसृत्य अधोलिखितेन पदेन लघुवाक्य निर्माणं कुरुत-
यथा- जिज्ञासा - मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता - अद्यतने काले चलदूरभाषयन्त्रस्य अवश्यकता वर्तते।
(ख) सामग्री - भवतः अध्ययनसामग्री कुत्र अस्ति?
(ग) पर्यावरणसुरक्षा - पर्यावरणसुरक्षा अस्माकं कर्त्तव्यम्।
(घ) विश्रामगृहम् - नगरे एकं सुन्दरं विश्रामगृहम् अस्ति।
7- उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत-
यथा - भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) छात्राय पुस्तकं देहि। (छात्र)
(ख) अहम् निर्धनाय वस्त्रणि ददामि। (निर्धन)
(ग) लतायै पठनं रोचते। (लता)
(घ) रमेशः सुरेशाय अलम्। (सुरेश)
(ङ) अध्यापकाय नमः। (अध्यापक)