1- सर्वान् श्लोकान् सस्वरं गायत।
2- यथायोग्यं श्लोकांशान् मेलयत-
क ख
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्
3- एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
उत्तरम्- पृथिव्यां त्रीणि रत्नानि।
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
उत्तरम्- मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
(ग) पृथिवी केन धार्यते?
उत्तरम्- पृथिवी सत्येन धार्यते।
(घ) कैः सङ्गतिम् कुर्वीत?
उत्तरम्- सद्भिः सङ्गतिं कुर्वीत।
(घ) लोके वशीकृतिः का?
उत्तरम्- लोके वशीकृतिः क्षमा।
4- रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
उत्तरम्- केन वाति वायुः?
(ख) सद्भिः एव सहासीत।
उत्तरम्- कैः एव सहासीत?
(ग) वसुन्धरा बहुरत्ना भवति।
उत्तरम्- का बहुरत्ना भवति?
(घ) विद्यायाः संग्रहेषु त्यक्त़लज्जः सुखी भवेत्।
उत्तरम्- कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?
(घ) सद्भिः मैत्रीं कुर्वीत?
उत्तरम्- सद्भिः किं कुर्वीत?
5- प्रश्नानामुत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तरम्- दाने तपसि शौर्ये च विज्ञाने विनये नये विस्मयो न हि कर्त्तव्यः।
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तरम्- पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तरम्- धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
6- मञ्जूषातः पदानि चित्वा लिंगानुसारं लिखत-
रत्नानि वसुन्धरा सत्येन सुखी अन्नम्
वह्निः रविः पृथ्वी संगतिम्
पुल्लिंगम् स्त्रीलिंगम् नपुंसकलिंगम्
सुखी वसुन्धरा रत्नानि
रविः पृथ्वी अन्नम्
वह्निः संगतिम् सत्येन
7 अधोलिखितपदेषु धातवः के सन्ति?
पदम् धातुः
करोति कृ
पश्य दृश्
भवेत् भू
तिष्ठति स्था