द्वादशः पाठः – विद्याधनम्
1. उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
(क) विद्या राजसु पूज्यते।
आम्
(ख) वाग्भूषणं भूषणं न।
न
(ग) विद्याधनं सर्वधनेषु प्रधानम्।
आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
न
(ङ) सर्वं विहाय विद्याधिकारं कुरु।
आम्
2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
पदानि लिङ्गम् विभक्ति: वचनम्
नरस्य पुंल्लिङ्गम् षष्ठी एकवचनम्
गुरूणाम् पुंल्लिङ्गम् षष्ठी बहुवचनम्
केयूरा: पुंल्लिङ्गम् प्रथमा बहुवचनम्
कीर्तिम् स्त्रीलिङ्गम् द्वितीया एकवचनम्
भूषणानि नपुंसकलिङ्गम् द्वितीया बहुवचनम्
3. श्लोकांशान् योजयत-
क ख
विद्या राजसु पूज्यते न हि धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् या संस्कृता धार्यते।
4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
उत्तरम्- विद्याविहीनः पशुः।
(ख) का भोगकरी?
उत्तरम्- विद्या भोगकरी।
(ग) के पुरुषं न विभूषयन्ति?
उत्तरम्- भूषणानि पुरुषं न विभूषयन्ति।
(घ) का एका पुरुषं समलङ्करोति?
उत्तरम्- वाणी एका पुरुषं समलङ्करोति।
(ङ) कानि क्षीयन्ते?
उत्तरम्- अखिलानि भूषणानि क्षीयन्ते।
5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तरम्- विद्याविहीन: क: पशु: अस्ति?
(ख) विद्या राजसु पूज्यते।
उत्तरम्- का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
उत्तरम्- चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?
(घ) पिता हिते नियुङ्क्ते?
उत्तरम्- क: हिते नियुङ्क्ते?
(ङ) विद्याधनं सर्वप्रधान धनमस्ति।
उत्तरम्- विद्याधनं कथं धनमस्ति?
(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तरम्- विद्या कुत्र कीर्तिं तनोति?
6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?
उत्तरम्- गुरूणां गुरुः विद्या अस्ति।
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तरम्- संस्कृता वाणी पुरुषं समलङ्करोति।
(ग) व्यये कृते किं वर्धते?
उत्तरम्- व्यये कृते विद्या वर्धते।
(घ) भाग्यक्षये आश्रयः कः?
उत्तरम्- भाग्यक्षये आश्रयः विद्या अस्ति।
7. मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः
पुंल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कृता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्