चतुर्दशःपाठः - आर्यभटः
(1) एकपदेन उत्तरत −
(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तरम्- पूर्वस्याम् ।
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तरम्- पाटलीपुत्रे।
(ग) महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
उत्तरम्- आर्यभट: ।
(घ) आर्यभटेन क: ग्रन्थ: रचित:?
उत्तरम्- आर्यभटीयम्।
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तरम्- आर्यभट: ।
(2) पूर्णवाक्येन उत्तरत–
(क) कः सुस्थापितः सिद्धांतः?
उत्तरम्- सूर्यः अचलः पृथिवी च चला। सा च पृथिवी स्वकीये अक्षे घूर्णेति इति साम्प्रतं सुस्थापितः सिद्धान्तः।
(ख) चन्द्रग्रहणं कथं भवति?
उत्तरम्- यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तरम्- पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।
(घ) आर्यभटस्य विरोध: किमर्थमभवत्?
उत्तरम्- समाजे नूतनानां सिद्धान्तानां स्वीकारणे सामान्यजनाः काठिन्यम् अनुभवन्ति। भारतीयज्योतिःशास्त्रे आर्यभटस्य सिद्धान्तः नूतनः आसीत्। तस्मात् तस्य विरोधः अभवत्।
(ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
उत्तरम्- आधुनिकवैज्ञानिकाः आर्यभटं प्रति समादरं प्रकटयन्तः प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तरम्- सूर्यः कस्यां दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तरम्- पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?
(ग) आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
उत्तरम्- आर्यभटस्य योगदानं किं संबद्धः वर्तते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
उत्तरम्- समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तरम्- कयोः मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति?
4. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत −
नौकाम् , पृथिवी , तदा , चला , अस्तं
(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति।
(ख) सूर्य: अचल: पृथिवी च चला।
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।
(ङ) नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।
5. सन्धिविच्छेद कुरूत –
(क) ग्रन्थोऽयम् - ग्रन्थ: + अयम्
(ख) सूर्याचल: - सूर्य + अचल:
(ग) तथैव - तथा + इव
(घ) कालातिगामिनी - काल + अतिगामिनी
(ङ) प्रथमोपग्रहस्य - प्रथम + उपग्रहस्य
6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - अस्तम्
अचलः - चलः
अन्धकारः - प्रकाशः
स्थिरः – गतिशीलः
समादरः - निरादरः
आकाशस्य - पृथिव्याः
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - लोके
इदानीम् - साम्प्रतम्
वसुन्धरा - पृथिवी
समीपम् - निकषा
गणनम् - आकलनम्
राक्षसौ - दानवौ
7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - साम्प्रतं अध्ययनस्य कालः अस्ति।
निकषा - ग्रामं निकषा नदी विद्यते।
उपविष्टः – बालकः आसने उपविष्टः अस्ति।
कर्मभूमिः – मदरटेरेसायाः कर्मभूमिः भारतम् आसीत्।
वैज्ञानिकः – आर्यभटः महान् वैज्ञानिकः आसीत्।