1- पाठे दत्तं गीतं सस्वरं गायत।
2- अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
उत्तरम् - बलम्।
(ख) पथि के विषमाः प्रखराः?
उत्तरम् - पाषाणाः।
(ग) सततं किं करणीयम्?
उत्तरम् - ध्येय स्मरणम्।
(घ) एतस्य गीतस्य रचयिता कः?
उत्तरम् - श्रीधर भास्कर वर्णेकरः।
(ङ) सः कीदृशः कविः मन्यते?
उत्तरम् - राष्ट्रवादी।
3- मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
(निधेहि विधेहि जहीहि देहि भज चल कुरु)
यथा- त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्तिं विधेहि।
(ग) मह्यं जलं देहि।
(घ) मूढ! जहीहि धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु।
4- (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
यथा-पुरतः चरणं निधेहि। आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति। आम्
(ख) स्वकीयं बलं बाधकं भवति। न
(ग) पथि हिंस्राः पशवः न सन्ति। न
(घ) गमनं सुकरम् अस्ति। न
(ङ) सदैव अग्रे एव चलनीयम्। आम्
(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः - पुरतः
नगः - नागः
आरोहणम् - अवरोहणम्
विषमाः - समाः
परितः - ग्रामं परितः वनम् अस्ति।
पुरतः - विद्यालयस्य पुरतः उद्यानम् अस्ति।
नगः - हिमालयः विशालः नगः वर्तते।
नागः - वासुकिः नागः वर्तते।
आरोहणम् - पर्वतस्य आरोहणं सुकरम् नास्ति।
अवरोहणम् - पर्वतस्य अवरोहणम् कठिनं नास्ति।
विषमाः - मार्गे विषमाः पाषाणाः सन्ति।
समाः - सन्ताः सुखदुःखे समाः भवन्ति।
5- मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(एव खलु तथा परितः पुरतः सदा विना)
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।
6- विलोमपदानि योजयत-
पुरतः पृष्ठतः।
स्वकीयम् परकीयम्।
भीतिः साहसः।
अनुरक्तिः विरक्तिः।
गमनम् आगमनम्।
7- (अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा -पठति पठतु पठेत्
खेलसि खेल खेले
खादन्ति खादन्तु खादेयुः
पिबामि पिबानि पिबेयम्
हसतः हसताम् हसेताम्
नयामः नयाम नयेम
(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा - गिरिशिखर (सप्तमी-एकवचने)- गिरिशिखरे
पथिन् (सप्तमी-एकवचने) - पथि
राष्ट्र (चतुर्थी-एकवचने) - राष्ट्राय
पाषाण (सप्तमी-एकवचने) - पाषाणे
यान (द्वितीया-बहुवचने) - यानानि
शक्ति (प्रथमा-एकवचने) - शक्तिः
पशु (सप्तमी-बहुवचने) - पशुषु