त्रयोदशः पाठः- क्षितौ राजते भारतस्वर्णभूमिः
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) इयं धरा कै: स्वर्णवद् भाति?
उत्तरम्- शस्यैः
(ख) भारतस्वर्णभूमिः कुत्र राजते?
उत्तरम्- क्षितौ
(ग) इयं केषां महाशक्तिभिः पूरिता?
उत्तरम्- अणूनाम्
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
उत्तरम्- प्रबन्धे
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तरम्- खाद्यान्नभाण्डम्
2. समानार्थकपदानि पाठात् चित्वा लिखत–
(क) पृथिव्याम् क्षितौ (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते भाति (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् शिखीनाम् (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
3. श्लोकांशमेलनं कृत्वा लिखत–
(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः अणूनां महाशक्तिभिः पूरितेयम्।
(ख) सदा पर्वणामुत्सवानां धरेयं क्षितौ राजते भारतस्वर्णभूमिः।
(ग) वने दिग्गजानां तथा केसरीणां तटीनामियं वर्तते भूधराणाम्।
(घ) सुपूर्णं सदैवास्ति खाद्यान्नभाण्डं नदीनां जलं यत्र पीयुषतुल्यम्।
(ङ) इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया च भूः देवगेया।
4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्तिं कुरुत–
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी भूधरेभ्यः निःसरति।
(ग) नद्याः जलं पीयूषतुल्यम् भवति।
(घ) जलेन शस्यसेचनं भवति।
(ङ) भारतः वीर भूमिः अस्ति।
5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
( अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां)
(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति ।
(ङ) आधुनिकै: अस्त्रै: सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणाम् सहायतया बहूनि कार्याणि भवन्ति।
6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) अद्य दीपोत्सवः अस्ति।
(ख) परिवारस्य सर्वे जनाः प्रसन्नाः सन्ति।
(ग) सर्वे जनाः नूतनानि वस्त्राणि धारयन्ति।
(घ) मम माता भगिनी च स्वगृहं सज्जीकुरुतः।
(ङ) रात्रौ माता भगिनी च दीपकान् प्रज्ज्वालयतः।
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) अद्य रक्षाबन्धनोत्सवः अस्ति।
(ख) भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।
(ग) सा तं मोदकम् अपि खादयति।
(घ) सा तस्य दीर्घायुः निमित्तं भगवन्तं प्रार्थयति।
(ङ) भ्राता तस्यै उपहारं प्रयच्छति।
7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–
(क) इदं गहनं वनं अस्ति।
(ख) अत्र विविधाः पशवः वसन्ति।
(ग) अत्र व्याघ्रः उच्चध्वनिना गर्जति।
(घ) मृगः विश्रामं करोति।
(ङ) अस्मिन् वने विविधाः खगाः कूजन्ति।